प्रथमपरिच्छेदः - अष्टमोऽध्यायः

प्रकाशसंहिता


श्रीहंस उवाच

व्यतीते लयकाले तु सृष्टिकाल उपागते ।
परकालादिमादौ तु पुरुषः सर्वचेतनान् ॥१॥

वासुदेवेर्पयल्लिङ्गबद्धान्जीवान्(सृज्यान्)विलक्षणान् ।
तारतम्ययुतान्स्वयोग्यतां कलितांश्च सः ॥२॥

स्वस्वोचितमहायत्नाभिमुखान्स्वस्वकर्मणा ।
जन्मलाभोचितान्वासुदेवस्थान्वीक्ष्य चिन्तयन् ॥३॥

सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजां ।
लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः ॥४॥

एकं गृहीत्वान्यजीवान्प्रादात्सङ्कर्षणो विभुः ।
स वायुमेकं लिङ्गे तं गृहीत्वान्यान्सुचेतनान् ॥५॥

प्रद्युम्रोऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके ।
तदन्यान्तात्विकान्सर्वपदस्थान्भावितात्विकान् ॥६॥

व्यक्तापरोक्षिणः संख्या नियमात्सूक्ष्मयोगतः ।
स्रष्टुं प्रादात्सचरमे अनिरुद्धोऽखिलेश्वरः ॥७॥

वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् ।
तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः ॥८॥

न्यपतन्तत्र योबिन्दुः सात्विकः स तु निर्मलः ॥
रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतथ् ॥९॥

तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः ।
रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितं ॥१०॥

पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः ।
तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटं ॥११॥

समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् ।
ततो माया प्रार्थितः सन्वासुदेवस्तदादिमः ॥१२॥

तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः ।
अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितं ॥१३॥

निक्षिप्य च निगीर्येशोमायायां महदाह्वयं ।
सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः ॥१४॥

तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुं ।
गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः ॥१५॥

यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते ।
तत्र सत्वाणवः सर्वे दशधोपचिताः सदा ॥१६॥

भवन्ति राजसास्तामसाणवः पादमात्रतः ।
भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः ॥१७॥

सत्वादयस्तु दशधा ऊर्जिताःसम्भवन्ति हि ।
त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि ॥१८॥

सत्वाणवो राजसाश्च तामसाह्यणवश्च ये ।
ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि ॥१९॥

सांशाःसर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः ।
सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सतां ॥२०॥

रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः ।
तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयं ॥२१॥

सर्वेषां सूक्ष्मदेहानां अन्ते वसति नाशकृत् ।
सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकं ॥२२॥

श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः ।
शुक्लरक्तात्मिकानीला आदायानन्तरूपकः ॥२३॥

तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः ।
तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखं ॥२४॥

एकोनविंशतिमुखौ विश्वतैजसनामकौ ।
सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगं ॥२५॥

गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत ।
दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः ॥२६॥

उत्तमानां मध्यमानां नीचानां तत्वमानिनां ।
त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयां ॥२७॥

करोत्ययं मध्यगाख्य त्रितयेन स एव हि ।
उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयां ॥२८॥

करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि ।
निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः ॥२९॥

पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति ।
अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु ॥३०॥

जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः ।
कृतानि सात्विकादीनि कर्माण्युच्यावचानि च ॥३१॥

यानि यान्यपि सर्वाणि संचिन्तान्यपि तेष्वलं ।
नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलं ॥३२॥

तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि ।
भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः ॥३३॥

प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयं ।
यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटं ॥३४॥

न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः ।
तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः ॥३५॥

भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी ।
हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः ॥३६॥

राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः ।
सञ्चितान्यपि तानीह अपरोक्षे सति स्फुटं ॥३७॥

दग्धान्यपि विनष्टानि भवन्त्येव न संशयः ।
मर्त्यो जीवन्भारतेस्मिन्नित्यं कोटिसहस्रशः ॥३८॥

करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः ।
अनन्त जन्मनानन्तानन्तायुः परिमाणतः ॥३९॥

कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः ।
सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचिथ् ॥४०॥

क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने ।
नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः ॥४१॥

लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः ।
रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः ॥४२॥

यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् ।
च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः ॥४३॥

बोधयन्त्यपि हे जीव न ते सञ्चिततो भयं ।
इति कारणतो नाशं सञ्चितस्य वदन्ति हि ॥४४॥

घटादिनाशवन्नाशः कर्मणां नैव शस्यते ।
सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः ॥४५॥

अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभं ।
आगामीत्युदितः सद्भिर्नतलोपो भविष्यति ॥४६॥

न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः ।
यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः ॥४७॥

आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः ।
गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि ॥४८॥

आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः ।
आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते ॥४९॥

वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतं ।
बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः ॥५०॥

भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभं ।
ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलं ॥५१॥

समस्त भूतले वापि विवरेष्वन्तरिक्षके ।
स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे ॥५२॥

निरये वा तमसि वा वैकुण्ठादिषु वा जनः ।
जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि ॥५३॥

आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः ।
महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा ॥५४॥

तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः ।
स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः ॥५५॥

अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् ।
नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनां ॥५६॥

रियुः त्रीन्कर्मणा लोकान्ज्ञानेनैव तदुत्तरान् ।
तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु ॥५७॥

अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।
स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः ॥५८॥

ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु ।
अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नतां ॥५९॥

वासः प्रारब्धपुण्येन निष्कामो न भविष्यति ।
आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि ॥६०॥

स तात्विकानां प्ररब्धात्पुण्यात्पापाच्च संचितात् ।
भोगदत्तात्पुण्यपापात्सुखदुःखादि शस्यते ॥६१॥

तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते ।
निरंशनीचसांशानां नरके वास इष्यते ॥६२॥

प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः ।
अयोग्यानां द्वेषपाकात्तमः प्राप्तिर्भविष्यति ॥६३॥

देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् ।
देवानां निरयो नैव तमश्चापि कथञ्चन ॥६४॥

ना सुराणां तथा मुक्तिः कदाचित्केनचित्क्वचित् ।
भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु ॥६५॥

सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः ।
तमो मिथ्याज्ञानयोगात्ज्ञानेनैव हरेः पदं ॥६६॥

तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् ।
जाग्रत्प्रवर्तको विश्वः सोऽज दक्षाक्षिगो भवेथ् ॥६७॥

लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् ।
न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकं ॥६८॥

न दैन्यावेशदुःखादि न संशयविपर्ययौ ।
न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः ॥६९॥

न देहाभिमतिर्नासत्पथे देहेन्द्रियोद्गतिः ।
निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः ॥७०॥

ब्रह्मणो हि परस्यास्य प्रसादात्सर्वदासुखं ।
स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेथ् ॥७१॥

सोन्तरङ्गो हरेः साक्षात्सर्वोत्कृष्ट प्रियो मतः ।
पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवं ॥७२॥

अनादिकालमारभ्य अजजीवगणाः सदा ।
पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः ॥७३॥

यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः ।
कृतयानन्तवेदोक्त गुणोपासनया पदं ॥७४॥

प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् ।
तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः ॥७५॥

तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान्हरिः ।
एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना ॥७६॥

मनस्युत्पद्यते तच्च न करोति प्रयत्नतः ।
निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः ॥७७॥

अनुकूला भावताव(भवत्येव) जन्मजन्मान्तरेष्वपि ।
अकृतानां कर्मणान्तु स्वप्नः(प्न)स्येशफलप्रदः ॥७८॥

स्वप्नदृष्टा अनन्तार्थास्तत्काल सुखदुःखदाः ।
न जाग्रदृष्टिपथगाः किन्तु तत्काल कल्पिताः ॥७९॥

स्वप्ने स्वस्थस्य जीवस्य वासनानन्त्यमीश्वरः ।
उपादानीकृत्यमुख्यैः पूर्वोक्तैरेव तैजसः ॥८०॥

कल्पयित्वा बहूनर्थान्दर्शयत्यखिलेश्वरः ।
स्वप्नः सत्यस्ततो यस्मात्भावीनफलसूचकः ॥८१॥

शेषादिसर्वजीवानां योग्यकाले तथा चरन् ।
तैजसः स्वप्नकृच्चेति जनस्य स्वप्नकृद्भवेथ् ॥८२॥

तत्तमोगुणमादाय प्राज्ञस्तसूक्ष्महृद्गतः ।
जीवस्य लिङ्गबद्धस्य पादस्थस्य जगद्गुरोः ॥८३॥

ध्यानावस्थां ददात्येवमेकास्यो देह्वयोनितः ।
लिङ्गबद्धं ग्रसन्नर्धं मूर्छावस्थां प्रयच्छति ॥८४॥

लिङ्गबद्धं मुखेस्थाप्य प्राज्ञोत्यल्पोन्यरूपतः ।
यदाश्लिष्यति तं देवः तदा निद्रां प्रयच्छति ॥८५॥

प्राज्ञो जीवेश्वरस्तं वै विना जीवोक्षमः स्मृतः ।
प्राज्ञः कण्ठस्थितं प्राप्य जीवानां स्वप्नदो भवेथ् ॥८६॥

जीवं गृहीत्वा दक्षाक्षिगतोसौ जग(जागृ)दीश्वरः ।
न प्राज्ञतेजसौ धातुः स्वप्ननिद्रा प्रवर्तकौ(का ?) ॥८७॥

ध्यानावस्थां विना तस्य तत्तद्दुष्कर्म वर्जनात् ।
प्राज्ञं जीवेश्वरं प्राहुः स सर्वहृदिसङ्गतः ॥८८॥

सांशजीवं स वै प्राज्ञो रूपैण्यैकेन पादयोः ।
हृदिसंस्थाप्य सूक्ष्मान्यरूपेणादाय चेतनं ॥८९॥

सलिङ्गं स यदा विश्वे नैकीभूतो भविष्यति ।
सोणुः प्राज्ञोहृदिस्थेन एकीभूतो भवेद्यदि ॥९०॥

ध्यानावस्थां सञ्जनयत्यपि जीवपतिप्रभुः ।
विश्वादयो निरंशानां अवस्था त्रितयप्रदाः ॥९१॥

विना ऋजून्सर्वसुरान्भुविजातान्जगद्गुरुः ।
अवस्थात्रयसंयुक्तान्कुर्वन्ति प्राज्ञपूर्वकाः ॥९२॥

ऊर्ध्वलोकस्थितानान्तु सदा जागृत्प्रवर्तकः ।
एवं सूक्ष्मशरीरेण ब्रह्माणमसृजद्विभुः ॥९३॥

एवं सङ्कर्षणो वायोः जयायां सूक्ष्मदेहकृत् ।
वासुदेवः सरस्वत्याः ब्रह्माणमकरोत्पतिं ॥९४॥

सङ्कर्षणस्तु भारत्याः मुख्यप्राणं व्यधात्पतिं ।
सरस्वत्याश्च भारत्याः प्रद्युम्नः सूक्ष्मदेहकृथ् ॥९५॥

तयोस्ताभ्यां सूक्ष्मतनू विपशेषौ बभूवतुः ।
सूत्रनामा तदावायुः ब्रह्मा पुरुषनामकः ॥९६॥

वेदादि सर्वनित्यानां अर्थानां जीवसन्ततेः ।
नित्यानामपि सृष्टौ हि तावुभावाभिमानिनौ ॥९७॥

ते भार्ये तौ विनाकश्चनार्थोपि स्थितिमर्हति ।
ब्रह्मा निरभिमानित्वात्शरीर्यप्यशरीरवान् ॥९८॥

अशरीरो वायुरभ्रं विद्युदित्यादि नामभिः ।
परशुक्लत्रयं वाच्यं योगात्ते सर्वमानिनः ॥९९॥

अथानिरुद्धः कालेन ब्रह्मवाय्वोः सभार्ययोः ।
त्रिचतुस्त्वेकविंशत्यवारं सूक्ष्मशरीरकृथ् ॥१००॥

त्रिवारमेकविंशत्सवारं सूक्ष्म(तनुप्रदः)तनुं प्रदात् ।
अनिरुद्धो विपादीनां नीलादीनां तथैव च ॥१०१॥

सौपर्ण्यादि त्रयाणाञ्च कालदेशक्रमेण च ।
इन्द्रादि पुष्करान्तानां तात्विकानां अशेषतः ॥१०२॥

एकविंशतिवारन्तु अनिरुद्धस्तु सूक्ष्मकृत् ।
यदा यस्य च सूक्ष्माप्तिस्तत्पूर्वक्षण एव च ॥१०३॥

तत्तज्जीवगणस्यासु लिङ्गवैषम्यमित्यपि ।
पञ्चसप्तभिर्मासैर्बाह्यमानेन सर्वशः ॥१०४॥

तात्विकानां तु देवानां सूक्ष्मसृष्टिरभूद्धरेः ।
ततो स सत्वतमसः वैषम्यावस्थयायुतां ॥१०५॥

जडाख्यां प्रकृतिं सम्यक्चेष्टयामास विश्वसृट् ।
ततो बिन्दुत्रयं जातं सत्वं चेति रजस्तमः ॥१०६॥

ऊर्ध्वदेशे सत्वबिन्दुः रजोबिन्दुस्ततोप्यधः ।
तदधोभूत्तमो बिन्दुः स्थूलश्चाद्यास्त्रिबिन्दवः ॥१०७॥

श्रीभूदुर्गेति रूपा मा क्रमात्रिगुणमानिनी ।
विष्णुब्रह्माशिवश्चेति बिन्दुक्रमनियामकाः ॥१०८॥

ब्रह्मवायू सभार्यौ द्वौ त्रिरूपावभिमानिनौ ।
सत्वादिबिन्दुषु श्रीश्च श्रिता नश्वरेषु वै ॥१०९॥

रजस्तमो बिन्दुगतवैषम्ये जगदीश्वरः ।
ब्रह्मा सङ्कर्षणात्मा तु समुधृत्य ररक्षतुः ॥११०॥

ततो विष्णुः सत्वबिन्दुगतः संवर्धयत्यजः ।
सत्वावरणमाद्यं च चक्रे तत्र वृतोद्यमं ॥१११॥

रजोविन्दुगतो ब्रह्मनामकस्तदधस्तने ।
देशे द्वितीयावरणं राजसस्यैव नामकं ॥११२॥

तमोबिन्दुस्थितो रुद्रस्तामसावरणं व्यधात् ।
तद्धि द्वितीयावरणं रजसस्यैव गर्भगं ॥११३॥

विष्णुब्रह्मशिवौ द्वौ द्वौ ब्रह्मवायू सभार्यकौ ।
श्रीभूदुर्गास्वाद्यमाद्य तृतीयावरणेषु हि ॥११४॥

तत्तदात्मस्थूलदेहत्रिगुणेष्वभिमानिनौ ।
आद्यं शुक्लं द्वितीयं तु रक्तं नीलं तृतीयकं ॥११५॥

रजोगुणस्यवैषम्या त्रिगुणावरणान्तरे ।
महदावरणं चक्रे ब्रह्मनामा स भूपतिः ॥११६॥

चतुर्थावरणं तत्र विष्णुब्रह्मशिवात्मकः ।
जाताभ्यां ब्रह्मवायुभ्यां जतौ द्वौ द्वौ त्रिरूपकौ ॥११७॥

सभार्यौ ब्रह्मवायू च महत्तत्वाभिमानिनौ ।
महत्तत्वनियन्तेशः आनन्दाख्यो हरिः स्वयं ॥११८॥
आनन्दनाम्नस्तनयौ ब्रह्मवायू महद्गतौ ।
रजोगुणस्य वैषम्यात्सर्वांशेन मतः कलाः ॥११९॥

राजसांशेनेन्द्रियाणां दशानां च कलास्तथा ।
तामसांशेन तन्मात्राः कलाः पञ्चमहद्गताः ॥१२०॥

अभवन्ताः कला नित्यं षोडशापि सदातनः ।
महत्तत्वाद्विकुर्वाणाद्ब्रह्मणः स्थूलदेहतः ॥१२१॥

आनन्दवशगाज्जातस्त्वहङ्कारस्त्रिवृन्मतः ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥१२२॥

उद्यद्रविप्रभावत्वान्महताहं त्रिवर्णकः ।
वैकारिकस्तु सत्वांशजातः शुक्ल उदहृतः ॥१२३॥

तैजसो राजसांशोत्थः रक्तवर्णः प्रकीर्तितः ।
मनो हृषीकाणि मात्राः पूर्वं सूक्ष्मस्वरूपतः ॥१२४॥

महत्तत्वगताह्येता अहङ्काराश्रिताः क्रमात् ।
गायत्रीशो विधिः सत्वे विरिञ्चस्तु रजोगुणे ॥१२५॥

सावित्रीशो भवत्यद्धा तमसि ब्रह्मनामकः ।
सरस्वतीशो वसति तादृग्रूपत्रयोत्थितौ ॥१२६॥

त्रिरूपौ वै ब्रह्मवायू तन्नामानौ महद्गतौ ।
विद्यादिभिस्त्रिभिस्तासु गायत्र्यादिषु तिसृषु ॥१२७॥

क्रमाद्ब्रह्मा च वायुश्च शेषश्चासन्हरीच्छया ।
विपशेषौ सभार्या च महद्राजे रजोत्रिधार् ॥१२८॥

हर्याज्ञयैवत्रिविधाहंरेष्वभिमानिनः ।
विद्याद्युत्थैर्ब्रह्मपूर्वैस्त्रिभिः रुद्रस्त्रिरूपकः ॥१२९॥

सभार्यस्त्रिविधाहङ्कृन्मानीतुस्थूलदेहकः ।
महत्तत्वस्य गर्भस्थमहदावरणं मतं ॥१३०॥

लक्ष्मीनारायणो ब्रह्मवायू भार्यासमन्वितौ ।
उक्तेषु वक्ष्यमाणेषु सर्वतत्वेषु सर्वदा ॥१३१॥

वसन्ति तान्विना शेषवीशाद्या नक्षमा क्वचित् ।
वैकारिकाद्धि कुर्वाणान्मनस्तत्वं जगद्गुरुः ॥१३२॥

सृष्ट्वाहङ्कारगर्भस्थं चकार पुरुषर्षभः ।
तैजसात्तु विकुर्वाणात्हरिणा चेन्द्रियाणि च ॥१३३॥

ज्ञानशक्तीनि पञ्चापि कर्मशक्तीनि पञ्च च ।
सृष्टा भावीनि काले तु सृज्यं वै भूतपञ्चकं ॥१३४॥

यत्र यत्र स्थाप्यमीशस्तत्रतानि क्रमाद्व्यधात् ।
आकाशं तु विकुर्वाणात्स्पर्शमात्रमभूद्धरेः ॥१३५॥

ततो वायुं समुत्पाद्य वाय्वावरणमातनोत् ।
वायोश्चैव विकुर्वाणाद्रूपमात्रं ह्यभूत्ततः ॥१३६॥

ततो वह्निं समुत्पाद्य वह्न्यावरणमातनोत् ।
वह्नेरपि विकुर्वाणाज्जलमात्रं व्यधाद्धरिः ॥१३७॥

ततः सलिलमुत्पाद्य जलावरणमाचरत् ।
जलावृत्ते विकुर्वाणात्तु गन्धमात्राभवद्विभोः ॥१३८॥

ततः पृथ्वीं सनिर्माय चक्रे भूम्यावृतिं हरिः ॥१३९॥

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे अष्टमोऽध्यायः

N/A

References : N/A
Last Updated : January 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP