संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| त्रयोदशोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - त्रयोदशोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता त्रयोदशोऽध्यायः Translation - भाषांतर श्रीहंस उवाचये प्रोक्ता देवगन्धर्वकर्मज्ञानास्त्वतात्विकाः ।पक्वाधिकारिणो भूमेरुत्क्रान्ता महरादिषु ॥१॥स्थिता विपशेषोक्तमार्गेण स्वोत्तमेषु ते ।भोगदेहप्रतिषठास्तु अण्डान्तद्विरजातले ॥२॥(यु)त्यक्तलिङ्गास्तुर्यवशा अण्डनाश उपागते ।पराष्टमांशावशिष्टकाले श्रहरिगर्भगाः ॥३॥मुक्ता अपि न मुक्ताख्याः पुनर्ब्रह्माण्डसम्भवे ।विष्णोर्बहिर्गताः कुक्षेः शुद्धसात्वकदेहकैः ॥४॥रमादत्तैर्भोगयोग्यपूर्वोक्तानन्तसात्विकैः ।अर्थैरभ्युन्नताश्वेतद्वीपस्था हरिमञ्जसा ॥५॥दृष्ट्वा नत्वा प्रसाद्येशं मुक्ताख्यां प्राप्यचाज्ञया ।अव्याहतेष्टगतयो वैकुण्ठे शुद्धसात्विकैः ॥६॥देहैर्मोदन्ति भूदुर्गाभागयोः श्रीशलालिताः ।चिन्मात्रदेहैः श्रीभागे न चात्र जडसंस्थिताः ॥७॥वृक्षपक्षिमृगा ह्यब्धिनद्योपि नवकोटयः ।सरांसि नानाविधबद्धा अपि लोकेषु वै हरेः ॥८॥श्रीभूदुर्गाभाग एते सेवन्ते हरिमञ्जसा ।स्वाधिक्यस्य सिध्यर्थं स्वानन्दाधिक्यकाङ्क्षिणः ॥९॥केवलं लिङ्गदेहेन भोगभागे वसन्ति हि ।(भूभागे संवसन्ति हि) निरंशानां सूक्ष्मदेहाः अण्डान्तःसत्यलोकगा तु ॥१०॥अनिरुद्धादल्पकालव्यत्ययात्प्रभवन्ति हि ।लयेण्डनाशात्पुरतः नतत्सू(नाशः सू)क्ष्मतनोर्भवेथ् ॥११॥तृणादारभ्य सन्मर्त्यगन्धर्वास्त(न्त)स्य कृत्स्नशः ।एषां सूक्ष्मतनुः सृष्टिः क्रमाद्युक्तमतोलयः ॥१२॥स्रष्ट्वैष्वेवामर्त्यगन्धर्वादिकर्म्यन्ते(न्त) देवताः ।दुर्गाभागस्थानिरुद्धात्सूक्ष्मयुक्ता भवन्ति हि ॥१३॥सृष्टिक्रमाद्व्युत्क्रमेण नाशस्तत्रगताद्धरेः ।अण्डनाशात्पुरैवेते केवलं लिङ्गमात्रगाः ॥१४॥तृणाद्याशचातात्विकाश्च भूभागे संवसन्ति हि ।एषां श्रीभागपरिखाभूत श्रीविरजा जले ॥१५॥अण्डनाशात्पुराभग्नलिङ्गानां तुर्यसंश्रयं ।प्राप्तानां श्रीहरेर्गभे तदावासो भविष्यति ॥१६॥भूमावुत्क्रममाणास्तु देहन्त्यक्त्वा महर्जनाः ।तपः सत्येषु दुर्गाख्यभागे नीचोच्चकाः क्रमाथ् ॥१७॥वसन्ति देहभोगैस्ते(भोगदेहैः) निरंशानान्तु भोगतः ।शीर्णा भवन्ति हि अनिरुद्धेन ये चते ॥१८॥प्रविष्टानि भवन्ति हि अनिरुद्धेन ये चते ।अनिरुद्धे प्रविष्टानि सङ्कर्षणजयाय ते ॥१९॥सृष्टान्यतो लिङ्गमुक्ताः प्रभवन्ति ह्यतात्विकाः ।भोगेदेहैः स्वोत्तमेषु प्रविष्टाः प्रभवन्ति हि ॥२०॥गन्धर्वाणां कुबेरन्तु पितॄणां यम एव हि ।कृष्टाङ्गसङ्ग गोपीनां सर्वजातिषु सप्ततेः ॥२१॥मितानामाजानजानां सस्त्रीकाणां धनाधिपे ।तत्समानास्तु ऋषयः शतोनशतकोटयः ॥२२॥एतेषां तुलयोदक्षे ह्यग्निपुत्रगणस्य तु ।वह्नौ कर्मजदेवानां लयः स्वायम्भुवे मतः ॥२३॥तस्मिन्नेकादशमितामनवोविध्यतात्विकाः ।तात्विकौ द्वौ सप्तमाद्यौ यौ तौ मनुपदेश्वरौ ॥२४॥नारायणः स्वयं विष्णुः तापसोमनुरीरितः ।विना तान्स्त्रीन्मनून्स्वायम्भुवे लय उदीरितः ॥२५॥आद्य इन्द्रो हरिर्यज्ञः वायुधर्मोश्विनौ क्रमात् ।षष्टस्तु मन्द्रद्युम्ननामा सप्तमस्तु पुरन्दरः ॥२६॥द्वौ शचीरमणांशौ तौ षडैते तात्विकाः स्मृताः ।भावीन्द्राः कर्मजाभास्ते तेषामाद्यमनौ लयः ॥२७॥सप्तकानां ऋषीणान्तु शतस्य च लयः स्मृतः ।दक्षे धर्मे च तत्तुल्यपितॄणां सप्तकस्य तु ॥२८॥तत्समास्त्वष्टगन्धर्वास्त्वष्टोन शतयोषितः ।उर्वश्याद्यास्तत्समाहि कुबेरं प्रविशन्ति हि ॥२९॥अतो निरंशास्तूत्क्रान्ति योगिनस्तु त(नस्त)दुत्तमाः ।अतात्विकास्तु भूलोकादुत्क्रान्त महरादिगाः ॥३०॥भोगदेहैरुत्तमैस्तु भक्षिताः प्रभवन्ति हि ।उत्क्रमाणुत्क्रमेण गायन्योगिनस्तानथो जगुः ॥३१॥नित्यसंसारिणः पृथ्व्यां त्यक्त्वा स्थूलन्तु सूक्ष्मतः ।धर्मे प्रविश्यसन्त्यक्तानाद्यविद्या भवन्ति हि ॥३२॥केचिदत्रैव मुच्यन्ते केचिद्वैमेरुमूर्धनि ।वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ॥३३॥त्यक्त्वाविद्यां मिश्रपाकालये नाभौ हरेर्गताः ।स्वर्गभूम्यादिषु सृष्टौ भ्रमन्ति श्रीहरीच्छया ॥३४॥लयेऽयोग्या गर्भोदगतसङ्कर्षणाग्निना ।पाताले नित्यनरके भग्नसूक्ष्मकलेवराः ॥३५॥वायोर्गदाप्रहारेण भग्नलिङ्गास्तमोनुगाः ।लये सृष्टौ तमस्यन्धे पतन्ति श्री हरीच्छया ॥३६॥तत्वाभिमानिनो देवाः ह्यणडान्तर्बहिरूपतः ।अनुत्क्रमाः स्वोत्तमेषु विपशेषादि मार्गतः ॥३७॥त्यक्तदेहाः सूक्ष्मदेहैः सत्यलोके वसन्ति हि ।नष्टे सत्ये ब्रह्मदेहे नष्टे तैः सह पद्मजाः ॥३८॥अण्डनाश उपावृत्ते विशेषं यातितैः सह ।अत्रस्थितैःसूक्ष्मदैहैः सर्वतत्रस्थसूक्ष्मकैः ॥३९॥एकीभवन्त्येवमेकविंशत्तत्वगणा(ता) अपि ।व्युत्क्रमेण तु भूम्यादि तत्वोपादान सञ्चये ॥४०॥स्थले तथा नाभिमानिवशगे सति विष्णुना ।अन्नादि नाम्नादेवैस्तदूर्ध्वमूर्ध्वगतक्रमाथ् ॥४१॥त्यक्तान्यावरणान्येते पूर्वमानेन नाशनं ।यन्ति पूर्वोक्तमानेन अनिरुद्धादिवत्क्रमाथ् ॥४२॥सङ्कर्षणाद्विनष्टे(षु) तु सूक्ष्मदेहेषु कृत्स्नशः ।तदा सत्वार्ध श्रीभागस्थलक्ष्म्यालक्ष्म्यात्मके जले॥ ४३॥(प्रधानविरजा नद्यामित्यर्थः)नीचक्रमात्भग्नलिङ्गाः विशन्ति जठरे हरेः ।पुनरण्डे समुत्पन्ने श्वेतद्वीपे समाप्य च ॥४४॥मुक्तौ भवत्यसौ लोकः क्षीरसागरमध्यगः ।लक्ष्म्यैश्चतुषष्ठिमितैः विस्तृतं(विसृजः) पुष्कराह्वयः ॥४५॥द्वीपः क्षीराब्धिपरितो मणिवज्रमयद्युतिः ।तन्मध्यदेशपरितो वर्तुलो मानसोत्तरः ॥४६॥महीधरोयुतोन्नहः द्विसहस्रसुविस्तरः ।धृढो वज्रमयः सप्तरथचक्रं रवेः स्थितं ॥४७॥तदन्तर्मर्त्यसंसारः तद्वाह्योमर्त्यगोचरः ।द्वीपायामसमशुद्धवारिसागरवेष्टितः ॥४८॥तस्यापि परितो वज्रलेपिकास्वर्णभूः शुभा ।चतुर्लक्षन्यूनकोटिविस्तरात्तद्गतो नगः ॥४९॥लोकालोकाभिधोवर्तुलाकारो परितो गिरिः ।मणिस्वर्णमयः प्राकाराकारो निर्मलो महान् ॥५०॥स पञ्चाशत्सहस्रेतत्पञ्चाशल्लक्षविस्तृतिः ।तावतैवोच्छ्रितस्तस्मातर्धलक्षाधिकोन्नतः ॥५१॥नानावृक्षाश्रयो यत्र भाति पूर्वोदितं जगत् ।तदष्टदिक्षु शिखराण्यपि छिद्रान्वितानि च ॥५२॥शतोन्नतानि दिग्दन्तिगणास्तदुपरिस्थिताः ।तच्छिद्रवेष्टितः शुण्डादण्डैरूत्तंभयन्ति ते(तैः) ॥५३॥गोत्रन्ते चान्तरिक्षस्थाः हर्यावेशयुताः शुभाः ।ते च पूर्वाद्यष्टदिक्षु गर्भोदस्थागतं(ता) भुवं ॥५४॥ऊर्ध्वोश्चित्रैरात्महस्तैर्धरन्ति श्रीहरीच्छया ।ते मानसोत्तरे मेरौ स्वर्गे रूपान्तरस्थिताः ॥५५॥कुर्वन्ति श्री हरेराज्ञां दिक्पालानां च वाहनाः ।अनन्तरूपैर्भगवानुपरिस्तंन्नगोर्ध्वगः ॥५६॥ऊर्ध्वाधः शिखरस्पृष्टानन्तमूर्ध्वोति यो हरिः ।लोकालोकान्तराले तु सूर्येन्द्वृक्षग्रहप्रभाः ॥५७॥वसिष्ठनारदात्र्याद्यानन्तगं स्वर्णभूमिगं ।वदन्ति पूर्वद्वीपेषु यथा सूर्यो(पूर्वो)दयान्तरे ॥५८॥यथा तथैव गिरिशृङ्गे मैत्रेयपूर्वकाः ।स्वर्णभूमिमतीत्यैवस्थितमाहुर्नगोत्तमं ॥५९॥तदुक्तमाहुः पैङ्ग्याद्याः तन्नेत्याहुर्मृ(क)कुण्डजः ।मेरुलोकालोकमध्यप्रदेशस्तु त्रिकोटिकः ॥६०॥योजनानां सार्थकोटिसंमितः परिकीर्तितः ।लोकालोकध(र)भूम्यासहितः परिमाणतः ॥६१॥अन्धन्तमस्तन्नगस्य परितः सप्तकोटिकः ।यत्र मिथ्याज्ञानयुक्ताः पतन्ति शतकोटिशः ॥६१॥हरीरसुरगुर्वायर्विष्णुवैष्णवविद्विषः ।निष्कारणं साधुयोषिद्वेदशास्त्र विदूषकाः ॥६२॥भक्तिलेशविहीनाश्च नित्यनैमित्तिकोज्जिताः ।अनन्तपापकरणे भयलेशविवर्जिताः ॥६३॥जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा ।साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥६४॥प्रादुर्भावविपर्यासः तद्भक्तद्वेष एव च ।तत्प्रमाणस्य निन्दा च द्वेषा एतेखिला मताः ॥६५॥सम्प्राप्य भारते जन्म विष्णुद्वेषादि पाकतः ।यथा योग्यं वैपरीत्या परोक्षगुरुविद्विषः ॥६६॥पक्वस्वरूपविद्वेषाद्व्युदस्यात्मीय सञ्चितं ।भुक्त्वा दुष्प्रारब्धफलं पूर्णं प्रमादिका गतं ॥६७॥सुप्रारब्धफलं विष्णुद्वेषादल्पीकृतं हरेः ।भुक्त्वागामि व्युदस्यैव ह्यागामि द्वेषयाकृतः(पाकतः) ॥६८॥प्राप्तव्यदुःखमिच्छन्ति स्थूलदेहान्विषाग्निभिः ।शस्त्रत्यक्त्वा यातनाद्यैः नित्यतामिश्रनामकः(रकाः) ॥६९॥अण्डनाशात्पुरा सूक्ष्मदेहान्तत्र विसृज्य च ।वायोर्गदाघाततश्च लिङ्गभङ्गो भविष्यति ॥७०॥चिरं श्रीहर्यूरुदेशे क्ळ्प्तदुःखभुजः खलाः ।पुनरण्डे समुत्पन्ने तमस्यन्धे पतत्यलं ॥७१॥मर्त्याधमा निरंशाश्च पिशाचाः स्वल्पतामसाः ।तेषु केचित्तत्वदेवाभासरूपास्त्वधस्तने ॥७२॥स्वर्गादिषु चरन्तस्ते पापकर्माभिमानिनः ।दैत्याश्चराक्षसाश्चैव सांशास्ते बहुरूपिणः ॥७३॥रसातलस्थानिरुद्धात्प्राक्सूक्ष्मं देहमाश्रिताः ।कर्मानुवशतः स्थूलदेहान्प्राप्य महासुरैः ॥७४॥स्वयं नष्टा परान्साधून्नाशयन्ति कुसाधनैः ।तमस्यन्धे लक्षनिम्नोध्युपर्यस्थले स्थिताः ॥७५॥प्राप्तव्यदुःखं भुञ्जन्ति शुद्धं तामसविग्रहैः ।पूयासृङ्मूत्रविष्टाद्यैः तप्ततैलास्त्रशस्त्रकैः ॥७६॥अदृष्टाश्रुतदुःखाप्ति साधनोचितवस्तुभिः ।दुर्गयाकल्पितैः घोरैः निर्घाताद्यैरनेकशः ॥७७॥सिंहव्याघ्रादिरूपिण्या सह तादृक्स्वरूपवान् ।अवर्णनीयदुःखौघं वायुर्दास्यति तान्प्रति ॥७८॥तत्प्राप्तव्यमिति प्राहुः क्ळ्प्तं दुःखं ततोप्यधः ।भुञ्जन्ति स्वस्वरूपस्थं सर्वरोगव्रणादिकं ॥७९॥सर्वक्षतादिकं नित्यं पूर्णदुःखं व्रजन्त्यलं ।ततो द्विसप्तकोटिभ्यां(क्यां) घनोदः परितः स्थितं ॥८०॥यत्र नारायणोनन्ततनुरूपात्मकश्रिया ।सदा विहरति श्रीशो ब्रह्माद्यैरपि सेवितः ॥८१॥ततोर्धकोटिसमितमनन्तासनमीशितुः ।धामण्डखर्परस्पृष्ट विंशल्लक्षोच्च वेदिमथ् ॥८२॥चत्वारिंशल्लक्षामितो भूभागः परिकीर्तितः ।त्रिंशल्लक्षमितस्तूच्चः श्रीभागः सर्वतः शुभः ॥८३॥तदन्यानन्तगुणितः श्वेतद्वीपसमः स्मृतः ॥८४॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे त्रयोदशोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP