संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| सप्तमोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - सप्तमोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता सप्तमोऽध्यायः Translation - भाषांतर श्रीहंस उवाचनारीकेलफलाकारो लिङ्गदेहस्त्रिवृन्मतः ।मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा ॥१॥अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने ।न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलं ॥२॥दुःखस्पृष्टा लिङ्गबद्धाः दुःखास्पृष्टा रमैव हि ।यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना ॥३॥अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः ।तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता ॥४॥भूम्याकृता भवति सा (स्वरूपज्ञानरूपिणी)जीवानां ज्ञानरोधिनी ।स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये ॥५॥रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा ।यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल ॥६॥क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा ।भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः ॥७॥सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते ।सात्विकी राजसी चेति तामसीति समस्तशः ॥८॥योग्यानां सात्विकीबुद्धिः बहुला अन्येऽल्पके मते ।मध्यमानान्तु जीवानां राजसी तामसी मतिः ॥९॥क्रमात्बहुतरेऽन्येतु स्वल्पमात्रे भविष्यतः ।पञ्चमात्रागताज्ञानपञ्चकं लिङ्गदेहगं ॥१०॥अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् ।साक्षीन्द्रियाणां (तमसा)मनसा योगे तद्धि भविष्यति ॥११॥साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि ।बाह्या स्वारूपिकञ्ज्ञानं त्रिविधानां चितामिह ॥१२॥साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि ।बाह्यमस्वारूपिकं च कामक्रोधादिकं च यथ् ॥१३॥अनादिकामो जीवानां त्रिविधानां भविष्यति ।रजः परिच्छेदगताः ज्ञानेन्द्रियकलाः यदि ॥१४॥साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति ।अनादिकामःसा प्रोक्ता त्रिविधानां चितामिह ॥१५॥रजः परिच्छेदगताः कर्मेन्द्रियकलाः यदि ।साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकं ॥१६॥बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतं ।अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगं ॥१७॥मदीयमितिमत्वा तु बद्धो भवति चेतनः ।कालेन भारते वर्षे लब्धजन्मापि मानुषं ॥१८॥ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च ।प्रसादात्श्रीहरेः कर्म देवतानामथान्तरे ॥१९॥अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये ।अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया ॥२०॥परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च ।अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये ॥२१॥हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि ।दुःसङ्गवृद्धातण्डान्तर्लिङ्गदेहस्य नाशने ॥२२॥सतिवायोर्गदाघातादसतां कालयोगतः ।अनाद्यविद्याकामौ चानादिकर्मापि नश्यति ॥२३॥अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः ।ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे ॥२४॥अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत् ।तदा जीवस्य सर्वस्य न भवन्ति कदाचन ॥२५॥राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः ।लये तेषु रजस्येकः सत्वपार्श्वगतादश ॥२६॥भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवं ।रजोगतोणुस्तमसः सतो द्विगुणराजसं ॥२७॥राजसाणुशतांशाभाः सत्वगास्तामसाणवः ।दशापिदशतोत्कृष्टान्सात्विकाणून्लये ध्रुवं ॥२८॥नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता ।तामसी राजसी चेति साम्यावस्था द्विधा मता ॥२९॥साम्यावस्था सात्विके तु न क्वापि किल विद्यते ।द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु ॥३०॥लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः ।यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः ॥३१॥अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च ।वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते ॥३२॥यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः ।सृज्यानां सर्वजीवानां अण्डाद्बहि रथान्तरे ॥३३॥नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् ।व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च ॥३४॥साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च ।लये सत्वप्रविष्टा ये दशते राजसाणवः ॥३५॥स्वशताधिकसत्वस्थपरमाणु समन्विताः ।सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि ॥३६॥तमः परिच्छेदगत राजसाणुर्लये तु यः ।स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः ॥३७॥रजोभागं प्रविशन्ति सृष्टिकाले समागते ।लये रजोभागमध्यगतोणू राजसस्य यः ॥३८॥रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते ।प्रकृतौ लिङ्गदेहोऽपि एवं यदि गुणस्थितिः ॥३९॥साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति ।लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः ॥४०॥राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः ।युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः ॥४१॥रजोविष्टस्तामसाणुः पूर्वाणु(सत्वेण)तुलितः स्वयं ।स्वतो(सत्वाच्च) द्विगुणेनैव संयुक्तो राजसाणुना ॥४२॥तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते ।भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया ॥४३॥एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः ।दशाभिश्चैकतमसा तथा राजसतामसं ॥४४॥प्राप्यसंमिलिताःसर्वे तमो वैषम्यनामकं ।सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः ॥४५॥शुद्धेन रजसैकेन रजसायुक्त तामसः ।अणुर्यदैकीभवति रजो वैषम्य उच्यते ॥४६॥रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः ॥४७॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP