संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| एकादशोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - एकादशोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता एकादशोऽध्यायः Translation - भाषांतर श्रीहंस उवाचपुरुषेषु ब्रह्मवायू विपादिषु रमापतिः ।पुं रूपेण विशेषावेशादिकं सर्वदा हरिः ॥१॥करोति स्त्रीषु मा वागीर्वायुस्त्री(षु)स्वरूपतः ।विशेषावेशकृद्विष्णुः योग्यतायानुयोगतः ॥२॥आविष्टस्तूत्तमेष्वेकः विशेषात्मा तु तैः सुरैः(स्वकैः) ।जीवैरसाध्य सुमहत्कर्मकार यतीश्वरः ॥३॥उत्तमोत्तमजीवेषु आवे(दे)शो यादृगिष्यते ।न तथा नीचजीवेषु तस्मात्तेह्यल्पशक्तयः ॥४॥पदस्थेषु सुरेष्वेवमावेशो नैव मुक्तिगः ।न निरंशेषु चावेशाः सांशेष्वाजानजेष्वपि ॥५॥वायोः सर्वावतारेषु विशेषावेश एव हि ।स्वरूपलिङ्गसूक्ष्मेषु स्थूलदेहेषु सर्वदा ॥६॥रक्षार्थं सर्वतत्वेषु सर्वदा वसतीश्वरः ।आवेशो(थ) न तथा विष्णोर्विशेषाख्यः सुरेष्वपि ॥७॥क्वचिद्व्यक्तिं क्वचिद्रासं सप्तावेशोण्डजेष्वपि ।अण्डादूर्ध्वं सदादे(से)वेष्वन्तः ऋजुषु चेष्यते ॥८॥नीचेषूत्तमदेवानां आवेशः क्वचिदिष्यते ।बलार्थमसुरेष्वेव(ष्वीरः) आवेशं कुर्वति प्रभुः ॥९॥आदादाज्ञा तेन दृप्ता सुरैर्नष्टा हरीच्छया ।भवन्ति नित्यदा विष्णुः सुरेष्वन्तर्हितो हि सः ॥१०॥ज्ञानानन्दबलाद्याये गुणाः साधारणा मताः ।तृणादि ब्रह्मपर्यन्तेष्वपि माया हरावपि ॥११॥तथापि नीचनीचेषु गुणादीपौपमाश्रिताः ।साधरणाः सजातीयाः विजातीया विलक्षणाः ॥१२॥स्वन्तन्त्रत्वं स्वरमणत्वं सुगुणव्याप्तिता तथा ।परापेक्षादि शून्यत्वं(राहित्यं) नियन्तृत्वं जगद्गुरौ ॥१३॥सृष्ट्यादि कर्तृताद्यास्तु विजातीया हरौ मताः ।अक्ष(र)त्वादयो मायां नैव ते ब्रह्मणि स्फुटं ॥१४॥ऋजुत्वं प्राकृतोच्चत्वं नित्यार्थेष्वभिमानिता ।सर्वाधिपत्यता लिङ्गदेहे कार्यवशीत्वता ॥१५॥निष्काम्ययोग्यतापूर्वाः विजातीया इतिस्मृताः ।एते हरीरयोः प्रोक्ताः नैव ते विपशेषयोः ॥१६॥एवमेषूत्तमेषूक्ताः विजातीया न नीचगाः ।सत्यनन्तत्वतस्त्वेषामुक्तिर्नैव हि शक्यते ॥१७॥कर्मदेवान्समारभ्य ब्रह्मा तेषु शरीरिषु ।चक्रशङ्खादयोरेखाः शरशक्त्यङ्कुशादयः ॥१८॥प्रासतोमरतिर्यङ्कहलभाग्योमृतादयः ।गोविन्द्यातिलगोधूमछत्रचामरतोरणाः ॥१९॥ध्वजोर्ध्वव्यजनाकारा आन्दोलागतवानिनः ।मच्छकच्छपसिंहाद्याः वृषरत्नधरादयः ॥२०॥गरुत्मच्छेषमुखरा रेखा दक्षके पदे ।पुंसान्तु दक्षिणेपादे स्त्रीणां वामे वसन्ति हि ॥२१॥धेनुशङ्खगदारेखाः वामे पुंसां शुभा मताः ।नीचेष्वङ्गन्यूनरूपाः उत्तमेषूच्चरूपकाः ॥२२॥सम्पूर्णाः सर्वदारेखाः प्राणे मायां हरावपि ।तत्राप्युच्चक्रमोच्चास्ति रेखाः चोच्चत्वहेतवः ॥२३॥षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।सप्तपाद चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ॥२४॥शरीराङ्गेषु साधूनां पञ्चस्थानेषु दीर्घतां ।हृस्वत्वं पञ्चसु तथा सप्तस्थानेषु रक्तिमा ॥२५॥षडौन्नत्यं यस्य सम्यक्पृथुता त्रिषु यस्य तु ।गम्भीरता च लघुता त्रिषु स्थानेषु भाति वै ॥२६॥स सुलक्षणसम्पन्नः स तु ज्ञानप्रदो गुरूः ।मर्त्योत्तमेषु वै विंशल्लक्षणानि भवन्ति हि ॥२७॥क्रमेणैकैकशो वृद्धान्यपि सलक्षणानि च ।सर्वाणि परिपूर्णानि लक्षणानि विधीरयोः ॥२८॥शरीरे च स्वरूपे च सर्वसत्साधनेष्वलं ।अति(भि)व्यक्तानि (चो)वोच्चेषु अव्यक्तानीतरेषु च ॥२९॥अथ सृष्टौ तारतम्यं शृणुष्व प्रागथोत्तरे ।आत्मसूक्ष्मगुणस्थूलसृष्टयः प्रागुदीरिताः ॥३०॥पञ्चमात्राव्यक्तभूता वृत्तिपञ्चकतः क्रमात् ।प्रागुक्त भावरूपाज्ञानपञ्चकमभूत्ततः ॥३१॥भ्रान्तिर्भौतिकदेहानां व्यक्तायोनिष्वपि क्वचित् ।अण्डादूर्ध्वमियं सृष्टि रसं सृष्टेति कीर्त्यते ॥३२॥महदाद्यण्डपर्यन्तः सर्ग इत्यभिधीयते ।संसृष्टमण्डं तद्गञ्च समस्तं सम्प्रकीर्तितं ॥३३॥अनुसर्गं जनाः प्राहुः अण्डान्तर्यदजोत्थितं ।महदाद्याः सुराः सर्वेप्यण्डसृष्टावशक्तयः ॥३४॥अस्तुवन्पुरुषं सार्धं सप्तत्रिंशच्छरन्मयं ।कालं ततो हरिः सर्वतत्वजातं तदन्तकैः ॥३५॥भाग्यैरादाय संयोज्यैरेकीभूतं करोत्यजः ।तच्च त्रेधा विभज्येशः तेष्वाद्यं भागमीश्वरः ॥३६॥गृहीत्वा विष्णुनामेशस्तन्निगीर्य श्रियं स्वयं ।वीर्यं तदात्मकं तस्यामाधत्त पुरुषेश्वरः ॥३७॥पृथिव्यावृत्तिमध्ये तु सुषुवेण्डं विधेस्तनुं ।पञ्चाशत्कोटिविस्तारमण्डंसृष्ट्वा जगद्गुरुः ॥३८॥सर्वचिच्चैत्यसहितो वीराणामण्डमाविशत् ।ब्रह्माण्डे जलसम्पूर्णे सर्वलोकाश्रयो भवेथ् ॥३९॥स विष्णुः पद्मनाभाख्यो भूदण्डसलिले शुभे ।प्राकृतेः स्वस्वरूपेणात्यभिन्नो हीश्वरो हरिः ॥४०॥सर्वाभरणसम्पन्नः सहस्राङ्घ्र्यक्षिबाहुकः ।प्राक्(प्रत्यक्)शिरास्तूर्ध्वमुखः शिश्ये पीताम्बरः समः ॥४१॥अण्डसृष्ट्यादिमेकाले तत्वजातात्त्रिधा कृतात् ।अद्यादण्डमभूदन्यं पद्मनाभोग्रसद्विभुः ॥४२॥तत्सृष्टं भूप्रदानं नाभौ स्थाप्य हिरण्मयं ।पद्मं व्यजनयत्तस्य कन्दात्भूमिरथोभवथ् ॥४३॥सप्तद्वीपसमुद्रादि तमोघनजलान्विता ।पञ्चाशत्कोटिविस्तीर्णाप्यण्डमध्यप्रदेशगा ॥४४॥लक्षयोजनसंख्याकपृथुलातिधृढाश्रया ।पञ्चविंशत्कोटिमितलक्षोनं गर्भवार्यधः ॥४५॥योजनानां तदुपरि स्थापिताभूरभूद्धरेः ।भूनामा भूमिगो विष्णुगर्भवार्येस्तदाह्वयः ॥४६॥वक्ष्यमाणेषु चोक्तेषु जडचित्सु तदाह्वयः ।आधारो रक्षकः सर्वनामा सर्वभृदीश्वरः ॥४७॥मेरुस्तन्मध्यगो भूमेश्चतुरस्रो हिरण्मयः ।योजनानां लक्षमितः उच्छ्रायाद्रत्नसानुकः ॥४८॥अथ षोडशसाहस्रयोजनायामरिरितः ।तावता भूरिमानःसहमेकःसर्वसुरालयः ॥४९॥ऊर्धं तद्विगुणायामः सहस्राशीतियोजनैः ।चतुर्भिरधिकैर्भूमेरुच्छ्रितः सर्वतः शुभं ॥५०॥मेरोः पूर्वाद्यष्टदिक्षु लोकपाल सदांस्यलं ।सन्त्येवसर्वभद्राणि सार्धताद्विसहस्रकैः ॥५१॥चतुरस्राणि तन्मध्ये तच्चतुर्गुणविस्तरं ।ब्रह्मणस्तु सदस्यानि रत्नहेममयानि च ॥५२॥तेष्विन्द्रोग्निर्यमः क्रव्यात्वरुणानि लयक्षपः ।शिवश्चेति सभार्यास्ते साङ्गाः सपरिवारकाः ॥५३॥तन्मदध्ये मण्टपस्तस्य विधेराज्ञाकरास्तथा ।तत्र वाणीश्वरोनन्त भुजगस्य सुशिरस्ककः ॥५४॥लोकपालसदो मध्ये विन्ध्योदिक्षु चतुस्रुषु ।समनाः सर्वतोभद्रा तारसार्धाष्टसहस्रकाः ॥५५॥मन्दारपारिजाताद्याः दिव्यपुष्पफलश्चदाः ।सरित्सरोवराण्यत्र कञ्जादिसुमवन्त्यपि ॥५६॥नानानारीसेवितानि हंसादि द्विजवन्त्यपि ।आजानजसमानैकजातीयपरिचारकैः ॥५७॥सेवितोद्रिवरोभास्वद्दीप्य दिव्यद्रिगोचरः ।दिव्याभरणवस्त्राद्यैः अलङ्कृतसुराद(ल)यः ॥५८॥तस्य पूर्वाद्यष्टदिक्षु मन्दरो मेरुमन्दरः ।सुपार्श्वः कुमुदश्चेति अवषटम्भनगाः क्रमाथ् ॥५९॥ते सहस्रस्त्रिका यामाः सहस्रदशकोच्छ्रिताः ।चूतजम्बूकदम्बाश्चन्यग्रोधस्तेषु भूरुहाः ॥६०॥एकादशशतोच्चास्ते गजोपमफलान्विताः ।सुवर्णरत्नसंकाशाः शतशाखा समावृताः ॥६१॥तत्र नाना पक्षिगणाः सगन्धकुसुमछदाः ।तेषां तूपरितः स्वर्णरत्नमन्दारभूमिषु ॥६२॥नन्दनं चैत्ररथकं वैभ्राजकमितीरितं ।वनान्यवर्णनीयानि सर्वतोभद्रसंज्ञकं ॥६३॥तेषु वै कामिकाः सिद्धाः चरन्ति ललनान्विताः ।तेषु सञ्चरतां सौख्यं अधिकं न श्रमादयः ॥६४॥एषां फलैर्निपतितैः विशीर्णैः शुभ्रसद्रसैः ।निर्यद्रसमुद्भूताश्चतस्रश्च चतसृषु ॥६५॥द्विलक्षवृत्त दीर्घस्थाः जरा दुर्गन्ध दुःसहाः ।नीलः श्वेतः शृङ्गवांश्च मेरोरुत्तरतो नगाः ॥६६॥योजनानां नवसहस्रायामाक्ष्मातलस्य च ।मर्यादागिरयःसर्वे प्रत्यक्सागरदीर्घकाः ॥६७॥उश्च्रयाद्धशसाहस्राः पृथुला द्विसहस्रकाः ।निषधो हेमकूटश्च हिमवानिति दक्षिणे ॥६८॥पूर्वमानेनोक्तभुवः मर्यादा गिरयोमताः ।विस्तारादुच्छ्रयाद्धैर्घ्यान्नीलादीनां समाः क्रमाथ् ॥६९॥नानासिद्धगणैः सेव्याः सर्वरत्न समाकुलाः ।पूर्वस्यां दिशि मेरोस्तु गन्धमादनपर्वतः ॥७०॥प्रतीच्यां दिशि मेरोस्तु माल्यवान्नाम भूधरः ।आनीलनिषधायामौ पर्वतौ देवपूजितौ ॥७१॥तौ पूर्वसमितौ दिवौ सर्वसद्वृक्षशोभितौ ।चतुर्दिक्ष्वपि मेरोस्तु नवसाहस्रयोजनैः ॥७२॥विस्तृतं भूतलं चेलावृतवर्षं वदन्ति हि ।रम्यको हिरण्मयश्चैव कुरुवर्षादयस्त्रयः ॥७३॥वर्षानीलाद्यद्रिभिस्ते विभक्ता स्वर्णभूमयः ।गन्धमादनतः पूर्वभूमौ भद्राश्चवर्षके ॥७४॥माल्यवत्पश्चिमेकेतुमाल्यवर्षः प्रकीर्तितः ।हरिकिंपुरुष भारतवर्षास्तु क्रमयोगतः ॥७५॥दक्षिणे निषधाद्यद्रिविभक्तभूमयः क्रमात् ।वैवस्वतो मनुर्मर्त्योपासको रम्यकेश्वरः ॥७६॥अर्यमाः पितृपः कूर्मोपासकस्तु हिरण्मये ।भूमिरादिवराहस्य भार्या वै कुरुवर्षगा ॥७७॥हयास्योपासको भद्रश्रवाः भद्राश्च वर्षके ।रत्याकामेनार्चितौ द्वौ कृतिप्रद्युम्नसंज्ञकौ ॥७८॥केतुमाल्ये स्त्रीजनार्च्यो न जीवं भद्रके खलु ।प्रह्लादोपासितो नारसिंह्मोपि हरिवर्षगः ॥७९॥हनुमत्पूजितो रामः नाथः किंपुरुषस्य तु ।भद्राश्वाद्दक्षिणे वर्षे भारताख्यो गुणाधिकः ॥८०॥नराभिमानि शेषांश भारतस्यास्य चानुजः ।नारायणो दक्षपुत्र्याः(त्र्यां) मूर्त्याधर्मसमुत्थितौ ॥८१॥तौ नारदस्य च ऋषेः ज्ञानदौ लोकपूजितः ।इलावृत्ते मेरुपूर्वदिशि सव्यापसव्यगौ ॥८२॥जठरो देवकूटश्च मेरुपृष्ठे च पूर्वतः ।गन्धमादन संस्पृष्टौ स्वर्णरत्नमयौ समौ ॥८३॥विस्तारात्तूच्छ्रयाच्च योजना द्विसहस्रकौ ।नवसाहस्रसद्भूमिमध्ये जठरनीलयोः ॥८४॥भूर्देवकूटनिषधमध्यस्थात्तावती मता ।षट्सहस्रान्तरभुवौ गन्धमादनमन्दरौ ॥८५॥तिर्यक्तद्विगुणा भूमिः मेरुपूर्वस्थगोत्रयोः ।कैलासकरवीरौ द्वावेवं मेरोस्तु दक्षिणे ॥८६॥पवनः परियात्रश्च द्वौ मेरोः पश्चिमाश्रयौ ।शृङ्गश्च मकरश्चैव मेरोरुत्तरतस्तथा ॥८७॥निषधान्तौ दक्षिणवुत्तरौ नीलसंमितौ ।पाश्चात्यौ माल्यवत्सृष्टौ पूर्वगाद्रीवमानतः ॥८८॥एतैरखिलावृतोवर्षो विभक्तश्चाष्वधामलः ।सुकुमारं वनं रम्यं सर्वत्र्यैण्यैव तेष्वलं ॥८९॥तेषु चेवास्त्रियः पृष्टापूर्वाध्यष्टं दिगुन्मुखाः ।अषटरूपैरादिशेषः सहस्रवदनः प्रभुः ॥९०॥वसत्यस्य महारुद्रः सांबश्चाष्टतनुः स्वयं ।सदोपास्त इति शेषं तद्गं सङ्कर्षणं परं ॥९१॥पनरष्टतनुः शम्भुः भवान्याभस्मगो भवः ।तेष्वष्टभवनेष्वेव सदारमति शङ्करः ॥९२॥प्रारब्धकर्मणा सापि पतिं रमयति स्फुटं ॥९३॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे एकादशोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP