संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| प्रथमोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - प्रथमोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता प्रथमोऽध्यायः Translation - भाषांतर सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः ।यथा ससर्ज निखिलं तन्मे ब्रूहि जगद्गुरो ॥१॥श्रीहंस उवाचनारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरः स्वराट् ।ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ॥२॥तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः ।स्वरूपं नैव जानन्ति रमाब्रह्मादयोपि तु ॥३॥तथापि ते प्रवक्ष्यामि यथा जानासि तत्वतः ।पूर्णकामस्य तस्यास्य सृष्ट्याद्यैर्न प्रयोजनं ॥४॥स्वभावस्तादृशस्तस्य तदर्थं तत्करोत्यजः ।स एव भगवानात्मा चराचरनियामकः ॥५॥अण्डमावरणान्सर्वान्प्राकृतान्पुरुषोत्तमः ।सङ्कर्षणो नृसिंहेन रूपेणाग्रसदीश्वरः ॥६॥ततः सर्वान्पूर्वकल्पमुक्तान्बद्धांश्च चेतनान् ।स्वोदरे स्थाप्य भगवान्स्वप्रकाशोऽस्वपत्सुखी ॥७॥दशावरणसंयुक्तब्रम्हाण्डस्य स्तिथौ मितिः ।यावत्प्रदेशस्तत्तुल्यरूपा श्रीरुदरूपिणी ॥८॥तावद्रूपवती भूमिः वटपत्राभवत्पुरा ।दुर्गा तावत्परिमिता अन्धकारस्वरूपिणी ॥९॥तदा रमाविना कश्चिन्नान्यदासीद्बहिस्थले ।शून्यनाम्नः शिशोर्गर्भे सर्वे जीवास्तदावसन् ॥१०॥तदूर्ध्वकुक्षिगा मुक्ताः प्रभवन्ति महालये ।मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नभितः ॥११॥अधोसुराः कटितटे प्राप्तदुःखास्तदूर्ध्वगाः ।वसन्ति क्ळ्प्तानन्दस्ते मुक्ता भुञ्जन्ति नेतराः ॥१२॥प्राप्तव्यान्प्रलयेनैव तेषां दास्यति माधवः ।हित्वा प्राप्तव्यमानन्दं क्ळ्प्तानन्दैकभोजिनां ॥१३॥वैकुण्ठादि विहारञ्च हित्वा गर्भस्थितिर्हरेः ।प्रलये सर्वमुक्तानां नाश इत्युच्यतेब्जज ॥१४॥सुखदुःखादि भोगार्हाः इच्छाज्ञानस्वरूपिणः ।द्वेषधर्माधर्मयत्ननिरता जीवराशयः ॥१५॥लिङ्गबद्धाः समस्ताश्च सृष्टौ जीवाश्चरन्ति हि ।साम्यावस्थामुपगताः लिङ्गदेह समन्विताः ॥१६॥लये वसन्तीशगर्भे पूर्वशक्तिस्तदानहि ।तदासर्वे गाढनिद्रामुपगच्छन्ति तादृशाः ॥१७॥लय इत्युच्यते सद्भिः न लयोस्ति स्वरूपतः ।सर्वजीवस्वरूपस्थाः ज्ञानव्यञनशक्तयः ॥१८॥मनोवृत्तिज्ञानदानशक्तिर्याश्रुतेर्मता ।लयेजीवाद्यभावेन सा शक्तिः कुण्ठिता भवेथ् ॥१९॥व्याप्तेश्वरमतिस्थानां श्रुतीनां तादृशो लयः ।अण्डादिजडजीवानां व्योमाव्याकृतसंज्ञकं ॥२०॥आश्रयं सृष्टिकालेतत्प्रलये कुण्ठितं भवेत् ।देशस्याव्याकृतस्यास्य नाश इत्युच्यते लये ॥२१॥समस्त लिङ्गदेहानां तत्तत्कर्मानुसारतः ।नानायोनि प्रापिकास्ति शक्तिः सृष्टौ लये न तु ॥२२॥सुखदुःखप्रदाशक्तिः समस्तकृतकर्मणां ।सृष्टौ लये न सा विष्णोराज्ञया कुण्ठिता भवेथ् ॥२३॥तादृशो हि लयस्तस्य न स्वरूपलयस्मृतः ।वर्णेषु सर्वभाषाभिव्यञ्जका शक्तिरिष्यते ॥२४॥सृष्टौ न सास्ति प्रलये तेषां नाशो हि तादृशः ।तमः स्थानां पूर्वक्ळ्प्तदुःखभोगो लयः स्मृतः ॥२५॥प्रकृत्यात्मकलिङ्गस्य जडायाः प्रकृतेस्तथा ।सूक्ष्माणां स्थूलकत्वानां त्रिगुणस्यापि कृत्स्नशः ॥२६॥स्रष्टृत्वशक्तिः सृष्टौ हि न लये स्यत्ततो लयः ।हित्वा जगत्सर्जनाद्यं सर्वदा श्रीपतौ रतिः ॥२७॥अतिसामीप्यसेवा हि लयो लक्ष्म्याः प्रकीर्तितः ।अनित्यस्याचेतनस्य अण्डान्तर्बहिरेव वा ॥२८॥क्रमात्सङ्कर्षणाग्नेस्तु दाहो नाश उदहृतः ।देशतः कालतो व्याप्ता वर्णासर्वेपि शाश्वताः ॥२९॥जडा च प्रकृतिर्नित्या जडरूपाणुरेव च ।देशतः कालतो व्याप्ताचिद्रूपाः श्रीहरेःसदा ॥३०॥अनन्तगुणतो नीचा गुणतोऽनन्तरिश्वरे ।लये समाश्रिताःसर्वे वसन्ति क्षीणशक्तयः ॥३१॥सम्पूर्णशक्ते भगवत्यनन्ते देशकालतः ।परमाणुमितानन्तानन्तरूपः सदा हरिः ॥३२॥तदभिन्नानन्तसूक्ष्मस्थूलरूपो हरिः परः ।समस्तजीवरूपोरुसूक्ष्मस्थूलस्वरूपकः ॥३३॥समस्तजडरूपानन्तानन्तरूपो जगद्गुरुः ।अनन्तानन्तरपैरप्यभिन्नो निर्गुणो हरिः ॥३४॥सर्वतः पाणिपादात्मा सर्वतोऽक्षिशिरोमुखः ।सर्वत्र सर्वेन्द्रियावान्सर्वमावृत्य तिष्ठति ॥३५॥अप्राकृतेन्द्रियानन्तरूपकः परमाद्भुतः ।असङ्गः सर्वविच्चैव निर्गुणो गुणपूरितः ॥३६॥बहिरन्तश्च भूतानां अचरश्चर एव च ।अव्यक्तोव्यक्तरूपश्च साधुःसत्साक्षिगोचरः ॥३७॥एकोप्यनेकवद्भाति नित्यसत्यो महासुखः ।अनन्तवेदगम्यश्च सृष्ट्याद्यष्टकृदीश्वरः ॥३८॥स्वतन्त्रोवर्णनीयोरुरुपानन्तस्तु चित्तनुः ।स्वानन्तानन्तचिन्मात्रदेहमध्यैकदेशगः ॥३९॥योगनिद्रामुपगतो विनिद्रोऽस्वपदीश्वरः ।अण्डस्यावरणस्योपचयं दग्ध्वा लये हरिः ॥४०॥उपादानं प्रकृत्यैकीभूतं कृत्वा नृकेसरी ।अनिरुद्धादि मुखगं सङ्कर्षण नृसिंहतः ॥४१॥सर्वसूक्ष्मशरीरोपचयं दग्ध्वाखिलेश्वरः ।तदुपादानभूतानि लिङ्गैरेकीकरोत्यजः ॥४२॥तदास्तरणरूपाभूः श्रीर्भार्यारूपिणी परा ।दुर्गा प्रावरणाकारा हरेरमिततेजसः ॥४३॥स्वानेव सुगुणान्भुञ्जनसुप्ताभूत्सुसुप्तवत् ।मुक्ताभुक्तोदरो विष्णुः अनन्तानन्तभानुरुक् ॥४४॥स्वप्रकाशोस्वपद्योगनिद्रयावटपत्रगः ।सृष्टिकाले सर्वजीवाः नानादुःखसमाकुलाः ॥४५॥भ्रमन्ति सर्वजीवानां तत्तच्छ्रमनिवृत्तये ।लये स्वापं प्रापयति लिङ्गबद्धान्स्वदेहगान् ॥४६॥अनादियोग्ताकर्मभावाज्ञानाकुलान्बहून् ।सृज्यान्विलक्षणान्तारतम्यस्थान्त्रिविधात्मकान् ॥४७॥स्वल्पनिद्रान्महानिद्रान्गढनिद्रासमन्वितान् ।चिन्मात्रानन्दभुङ्मुक्तान्सदा दुःखभुजोऽसुरान् ॥४८॥तमःसंस्थान्सदा बद्धान्जठरे स्थाप्य केशवः ।वटपत्रे स्वपद्देवो निद्रामाचरतीव सः ॥४९॥तेषु सृज्यान्स्वयं सृष्ट्वा यथायोग्यफलं विभुः ।सुखं मिश्रं तथा दुःखं दातुमैच्छल्लयान्तिमे ॥५०॥लयास्यष्टमो भागो लयान्तिम उदाहृतः ।लये समालिङ्य हरिं विनिद्रा परमेश्वरी ॥५१॥निद्रिते वा सदानन्दवारिधिं समुपाश्रिता ।लयष्टमांशे श्रीदेवी अस्वतन्त्रा स्वतन्त्रतः ॥५२॥प्रबुद्धाचाज्ञया विष्णोः स्तोतुं समुपचक्रमे ।देशतः कालतोऽनन्ता गुणानन्त्यविवर्जिता ॥५३॥ब्रह्मवाय्वोः कोटिगुणैः अधिका विष्णुवल्लभा ।लये सृष्टौ सर्वनित्यपदार्थेष्वभिमानिनी ॥५४॥सृष्ट्याद्यष्टकरी विष्णोः आज्ञयानन्तरूपिणी ।छायेव सूक्ष्मस्थूलोरु रूपं विष्णुं समाश्रिता ॥५५॥विष्णोरनन्तवेदेषु प्रोक्तान्तदधिकानपि ।गुणान्संजानती साक्षात्सर्ववेदाभिमानिनी ॥५६॥अवर्णणीयसौन्दर्या सर्वजीवाभिमानिनी ।शुभ्रेषु मुक्तियोग्येषु शुभ्रा (मुक्ता) श्रीरभिमानिनी ॥५७॥रक्तेषु सर्वबद्धेषु रक्ताभूरभिमानिनी ।नीलेष्वयोग्यजीवेषु नीला दुर्गाभिमानिनी ॥५८॥प्रकृति प्रकृतौ साम्यवैषम्यादि प्रवर्तका ।अछिन्ना भगवद्भक्ता जडेषु जडरूपिणी ॥५९॥चित्सुचिद्रूपिणी स्त्रीषु स्त्रीचेष्टादि प्रवर्तका ।पुरुषाकृतिरुत्कृष्टा पुंभावपरिवर्जिता ॥६०॥अव्यक्ततत्कार्यमय देहशून्या तथाविधा ।स्वयं श्रीः विष्णुभावज्ञा वेदैस्तुष्टाव वेदविथ् ॥६१॥ते वेदाः ऋग्यजुःसामाथर्वणाः श्रीहरेर्वशाः ।चत्वारोपि पृथग्जात्या अनन्ता दोषवर्जिताः ॥६२॥उदात्तादि स्वरार्थादि वर्णक्रमसमागमाः ।विसर्गबिन्दुपूर्वोरुशब्दयोग्यगुणोच्चयैः ॥६३॥अनन्तकालमरभ्यरिषद्वेत्यासवर्जिताः ।सांशा समस्तदेशेषु व्याप्ताः शुद्धजडाः सदा ॥६४॥गुणाख्यानपरा विष्णोः शब्ददोषविवर्जिताः ।ज्ञतज्ञापकता तेषु विपरीतार्थवक्तृता ॥६५॥अस्पष्टत्वादयस्तेषु वाददोषानसन्त्यलं ।ध्वनिरूपा सृष्टिकाले वाक्स्था वाग्देवतावशाः ॥६६॥लये लक्ष्मीवशाः सृष्टौ ब्रह्माद्यैरभिमानिभिः ।रक्षिताः प्रलये सृष्टावेकरूपा भवन्ति हि ॥६७॥अनन्तानन्तसंख्याताः विष्णोः ज्ञाने च साधकाः ।सर्वदेशगतानन्ता कण्ठस्थास्तस्य शार्ङ्गिणः ॥६८॥कण्ठेनोद्गीयमनास्ते जीवानां योग्यतावशात् ।तत्तत्स्वरूपविज्ञानव्यञ्जकाः श्रीहरीच्छया ॥६९॥वृत्तिज्ञानोत्पादशौण्डाः अ(योग्या)थाज्ञानाममबोधकाः ।शब्दरूपाःसाक्षियुक्तमनः श्रोत्रैकगोचराः ॥७०॥सर्वशब्दात्मकहरेः बिम्बस्य प्रतिबिम्बकाः ।शब्दरूपा वेदगता दुर्गा सानन्तरूपिणी ॥७१॥पुरुषोद्बोधितुं ज्ञात्वा तुष्टाव पुरुषं परं ।अनन्तात्मानन्तशक्तिः ओं(आ)कारादि श्रुतिव्रजान् ॥७२॥नित्यान्सव्यञ्जयन्तेषां सृष्टौ दुर्गामुपादिशत् ।प्रलयस्याष्टमे भागे वेदस्रष्टुर्जगत्पतेः ॥७३॥ओं(अ)कारः प्रथमो व्यक्तो बभूव भगवन्मयः ।ॐआनादबिन्दू च घोषशान्तातिशान्तकाः ॥७४॥यत्स्वरूपाश्च विश्वाद्याः यद्वाच्या यद्गताः पराः ।ओङ्कारवाच्यः पुरुषः पुत्रास्ते नित्यचिन्मयाः ॥७५॥ते विश्वतैजसप्राज्ञतुर्यात्मान्तरात्मनां ।परमात्मज्ञानात्मकानां रूपाणां वाचका हरेः ॥७६॥तारप्रणवशब्दाभ्यां वाच्य ओङ्काररिरितः ।नारायणाष्टाक्षराख्यः तरगर्भाक्षरैरभूथ् ॥७७॥अभिव्यक्तोथ विश्वादिर्व्यक्तविश्वादयोखिलाः ।नारायणमनोर्वाच्याः देवताः परिकीर्तिताः ॥७८॥तारगर्भाक्षरैराद्यैश्चतुर्भिरभवन्मनुः ।व्याहृत्याख्योऽनिरुद्धाद्याः विश्वाद्युत्था तदीरिताः ॥७९॥तारगर्भाक्षरैर्व्यक्ताः वर्णाः पञ्चाशदीरिताः ।अकौचटौतपौ तद्वद्यशौ अष्टा उदाहृताः ॥८०॥अष्टवर्णाः अकारोत्थाः अचः षोडशसंमताः ।पञ्चवर्णाः कवर्गस्य उकारोत्थाः प्रकीर्तिताः ॥८१॥मकारोत्थाश्चवर्गस्य पञ्चवर्णाः प्रकीर्तिताः ।टवर्गपञ्चवर्णास्तु नादोत्था इति संमताः ॥८२॥पञ्चवर्णास्तवर्गस्य बिन्दुव्यक्ता उदाहृताः ।पवर्गपञ्चवर्णास्तु घोषतः सम्भवन्ति हि ॥८३॥यवर्गस्य चतुर्वर्णाः व्यक्तिं यास्यन्ति शान्तितः ।अतिशान्ताच्छवर्गस्य पञ्चवर्णाःसमुत्थिताः ॥८४॥कषयोगादभिव्यक्तः क्षोप्यन्योक्षर उच्यते ।पञ्चाशतान्तुवर्णानां तारवर्णाष्ट दैवतैः ॥८५॥विश्वादिभिः क्रमाद्व्यक्ताः अजाद्या देवतामताः ।अज आनन्द इन्द्रेश उग्र ऊर्ज ऋतम्भरः ॥८६॥ॠघःळ्शौ लॄजिरेकात्मैर ओजोभृदौरसः ।अन्तोर्धगर्भः कपिलः खपतिर्गरुडासनः ॥८७॥घर्मोङ्गसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः ।झडितारिञमष्टङ्की ठलको डरको ढरी ॥८८॥णात्मातारस्थपोदण्डी धन्वी नम्यः परः फली ।बलिर्भगोमनुर्यज्ञो रामो लक्षीपतिर्वरः ॥८९॥शान्तसंवित्षड्गुणश्च सारात्मा हंसलालुकौ ।अकाराद्यैःसर्ववर्णैर्वाच्या एते प्रकीर्तिताः ॥९०॥क्षवाच्यो नृसिंहस्तु सर्वजीवनियामकः ।एकपञ्चाशद्वर्णात्मा मतृकामन्त्ररिरितः ॥९१॥नारायणाष्टवर्णाश्च चतुर्व्याहृतिभिः क्रमात् ।वासुदेवद्वादशार्णमन्त्रोभून्महदात्मकः ॥९२॥केशवाद्याः द्वादशैव तन्मन्त्राक्षर देवताः ।त्रिवारं विष्णुनैवोक्तान्मन्त्रान्नारायणादभूथ् ॥९३॥गयत्री ब्रह्मःऋषिका द्विगुणाद्वादशाक्षरात् ।केशवाद्याश्चतुर्विंशत्गायत्रीवर्णदेवताः ॥९४॥गायत्र्याः पौरुषं सूक्तं सूक्तान्मन्त्रास्तु वैष्णवाः ।पुंसूक्तप्रतिपाद्यस्तु पुरुषो हरिरीरितः ॥९५॥विष्णुमन्त्रोदितो विष्णुः सर्वात्मा परिकीर्तितः ।प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ॥९६॥गायत्री ब्रह्मःऋषिका पुंसूक्तं वैष्णवं तथा ।अष्टावेते महामन्त्राः वैदिकाःसर्वसिद्धिदाः ॥९७॥पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः ।दुर्गयानन्तरूपिण्यानन्त वेदोदितो हरिः ॥९८॥तयार्थितोऽखिलाध्यक्षः स्वात्मासृष्टिमचीक्ळ्पथ् ॥९९॥इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP