संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| दशमोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - दशमोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता दशमोऽध्यायः Translation - भाषांतर श्रीहंस उवाचसर्वत्र भाविःऋजवो विष्णोर्वायोर्भवन्ति हि ।अण्डान्तर्बहिस्था वा नानैर्जन्म लभन्ति ते ॥१॥व्यामोहायासुराणान्तु अन्यजा इव भान्ति ते ।ब्रह्मापरोक्षिणःसर्वे रुद्राद्याः भावितात्विकाः ॥२॥अहङ्कारेश्वरैर्वायुजातैर्जता भवन्ति हि ।उत्तमैःसर्वनीचानां सृष्टिरङ्गेर्धदेशतः ॥३॥एवं क्रमात्सृष्टिरुक्ता व्युत्क्रमेण लयः स्मृतः ।अण्डोर्ध्वदेशतत्वेशा अत्र पूर्वोक्तरीतितः ॥४॥सुप्रारब्धा बहुविधा दोषसम्बन्धवर्जिताः ।ये ये यथा यथा जाताः सृष्टिकाले भवन्ति हि ॥५॥गुणसृष्ट्युत्तरं जाताः सर्वेस्थूलशरीरिणः ।अंशानन्दबलज्ञानदेशकालापरोक्षकाः ॥६॥लयसृष्टिपदावेश गुणलक्षणकान्तयः ।एवं चतुर्दशमहातारतम्याः प्रकीर्तिताः ॥७॥वेदेषु देशकालेषु लिङ्गदेहेषु चाक्षरे ।प्रकृतौ सर्वजीवानां महत्तत्वगुणत्रये ॥८॥अंशा ऋजूनां सन्त्येव विपाद्यंशा न तेषु हि ।अहङ्कारे विपाद्यंशा न तत्रेन्द्रादिकांशकाः ॥९॥नीचनीचामरमनो देहादिषु सुरोत्तमाः ।वसन्त्यंशैर्ननीचास्तु स्वोत्तमेषु विशन्ति हि ॥१०॥अण्डादन्तर्बहिस्त्वेवमंशोत्था तारतम्यधीः ।विधेः सर्वाङ्गसायुज्यं वाण्याः वाचिमनस्यपि ॥११॥स्वोत्पत्यङ्गेषु देवानां सायुज्यं दिशतीश्वरः ।उत्तमानां महानन्दा नीचनीचेषु सङ्गताः ॥१२॥शतांशादवरा नीचानन्दादुत्तमगामि तत् ।शतांशादुत्तमा मुक्तौ श्वेतद्वीपादिषु स्फुटं ॥१३॥त्रिषु स्थानेषु श्रीभागे चिन्मात्रानन्दमूर्जितं ।भूदुर्गाभागयोः प्राप्तव्यानन्द(दं शुद्ध) सात्विकैः ॥१४॥देहैर्भोगोचितानन्त शुद्धसात्विकवस्तुभिः ।भूदुर्गाभ्यां कल्पितैस्तैर्भगवान्भक्तसन्ततेः ॥१५॥उत्तमानां स बहुलं नीचानामल्पमेव च ।तत्तद्योग्य निजानन्दं ददाति पुरुषः स्वराठ् ॥१६॥मुक्तौ स्वोत्तम भोग्योरु मुदपेक्षाल्पिकस्य तु ।न विद्यते हि स्वानन्दपूर्णस्य न पुनर्जनिः ॥१७॥दुःखाज्ञानानादिकं भूयो भग्नलिङ्गस्य नेष्यते ।शतशब्दो दशसहस्रपरं प्राप्तं वदन्ति हि ॥१८॥उत्तमानां बलं भूरिनीचानामल्पमेव तु ।गर्भोदकागतः शेषः मूर्ध्नैकेनाखिलं भुवं ॥१९॥स द्वीपाब्धिसरिच्छैलां धत्ते सर्षपवत्सदा ।तं वै शेषं सहस्रास्यं वायुकूर्मो महाबलः ॥२०॥धत्ते पुच्छाग्रतः शक्रपूर्वाः शेषाद्बलावराः ।बहवो गोमहिष्याद्या एक कुञ्जर भोजने ॥२१॥यावत्तावत्कूर्महस्तितोप्येते हि कोटिशः ।मिलिता अपि नागेन योद्धुमर्हति न क्वचितु ॥२२॥तथोत्तमसुरैर्नीचसुराः कोटिसहस्रशः ।मिलिताः प्रथनेनेशाः किमुमर्त्यास्तु राक्षसाः ॥२३॥अतो बलेन सर्वेषां तारतम्यं विवेचितं ।अनालोच्यानन्तकल्पेष्वण्डान्तर्बहिरास्थितं ॥२४॥अतीतं वर्तमानं चानागतं वस्तु सञ्चयं ।सदा करतलामलकवद्वेत्ति विष्ण्वनुग्रहाथ् ॥२५॥अनादि नित्यानधिकान्निर्विशेषादनन्तरान् ।सोपि नारायणगुणानालोच्याप्यतिकालतः ॥२६॥अनन्तकल्याणगुणपूर्णस्यानन्तभागतः ।विभक्तानन्तभागैकभाग ज्ञप्तौ न हि क्षमः ॥२७॥विनेश्वरगुणज्ञानेज्ञानं ऋजुगणस्य हि ।अतीतानागतजगद्विषयीकरणे क्षमं ॥२८॥आलोच्य वैष्णवज्ञानेप्यधिकं सर्वजीवतः ।विपशेषादिकज्ञानं सर्वदालोचनादपि ॥२९॥स्वोत्तमैर्भिन्नजगतः विषयीकरणे क्षमं ।न भवेदेकदेशेन जानन्त्येते न चान्यथा ॥३०॥जडञ्चाचेतनं वापि शिवाद्याः पुष्करान्तिमाः ।लिङ्गबद्धाः पदस्थाश्च भाविनश्चापरोक्षिणः ॥३१॥अण्डान्तरे बहिश्चापि तात्विका बहुरूपतः ।स्थिता अपि न जानन्ति साकल्येन जगद्गतं ॥३२॥अनादिसर्वजीवानां ज्ञानं तद्विविधं मतं ।स्वारूपिकं च बाह्यञ्च नित्यं स्वारूपिकं मतं ॥३३॥अजन्यं शाश्वतं विष्णोः बन्धस्य वशगं सदा ।जीवङ्गेशाधीनमायावशगं क्रमयोगतः ॥३४॥साधनेन व्यञ्ज्यमानमामुक्त्यन्तं ततः परं ।एकप्रकारमज्ञानं रहितं स्वोत्तमाश्रिताथ् ॥३५॥ज्ञानाच्छतगुणन्यूनरं इश्वरे वा जगत्यलं ।अनन्तवेदोक्तगुणान्विष्णेर्जानाति पद्मभूः ॥३६॥पदस्थो वा विमुक्तो वा तदन्ये तद्गुणस्थिताः ।क्रमेणैव शतंन्यूनज्ञानं विष्णोरुपासकाः ॥३७॥प्राकृतोप्राकृतशरीराश्रितस्य ऋजोःसदा ।मनस्यनित्यं यज्जन्यं पुनः पुनरपि स्फुटं ॥३८॥तद्बाह्येवृत्तिरुपं च यथार्थं सर्वदापि च ।तेषां पञ्चविधज्ञानं क्वचिदेव न सर्वदा ॥३९॥दैत्यावेशादि शून्यास्ते सदा दुर्विषयोज्झिताः ।साक्षीन्द्रियैः सहाप्येतल्लिङ्गसूक्ष्मेन्द्रियावृतैः ॥४०॥स्थूलेन्द्रियैः सुविषयासक्तैः प्रात्यक्षकी मतिः ।यदार्थैव तया दोषशून्या सद्युक्तिजा मतिः ॥४१॥युक्तिजन्यं तु यज्ञानमानुमानिकमीरितः ।प्रत्यक्षमनुमानञ्च आगमस्तस्य साधनं ॥४२॥यथार्थैव तथा वेदशास्त्रार्थश्रवणादपि ।मनोजातं स्वागमजं यथार्थज्ञानमेव हि ॥४३॥देशादवरदेशेतु क्रमात्तत्वेषु संश्रिताः ।तत्वव्यापारकाले तु स्वरूपोचितशक्तयः ॥४४॥यथागमसमुद्भूतं त्रिविधं परिकीर्तितं ।ज्ञानं मनःसमुद्भूतं बाह्यकार्यमितीरितं ॥४५॥यत्प्रत्यक्षानुमानं च आगमस्तस्य साधनं ।जीवः प्रमाताविषया अर्थास्ते कारणामताः ॥४६॥रूद्रादीनान्तु यज्झानं बाह्यं मनसि सम्भवं ।प्रत्यक्षाद्यैस्त्रभिः सद्भिः साधनैरप्यनित्यकं ॥४७॥क्वचिद्यथार्थं तज्ञानमयथार्थं क्वचिद्भवेत् ।कर्मदेवाजानजाद्याः देवदासाः क्रमावराः ॥४८॥देवगन्धर्वपर्यन्ताः सांशाः सर्वे प्रकीर्तिताः ।निरंशास्ते सदामर्त्यगन्धर्वाद्या स्तृणान्तिमाः ॥४९॥जीवा एषां स्वरूपन्तु ज्ञनं नित्यं यथार्थकं ।उत्तमोत्तमतो न्यूनं अयथार्थादिकं क्रमाथ् ॥५०॥बाह्यं जन्यमनित्यं च यथार्थं प्रायशः सदा ।रिश्वरे वा जगति वा क्रमादल्पावगाहि च ॥५१॥इति ज्ञाने तारतम्यं देवेषूच्चावचेष्वलं ।महद्गणत्रयेष्वंशाः ऋजूनां सन्ति चोन्नते ॥५२॥देशे तत्र न रुद्रादि देवांशास्तदधस्तने ।देशेहङ्कृतिरुद्रादि देवांशाःसन्ति सर्वदा ॥५३॥तत्रेन्द्राद्या न तिष्ठन्ति ततोप्यवरदेशगाः ।भूताव्यतीनां मर्यादा यद्देशे यादृशीरिता ॥५४॥कलाषोडशतद्गाश्च तत्तदा वृत्तिसन्तताः ।मनः शब्दः श्रोत्रवाचां कलास्त्वाकाशसन्तताः ॥५५॥त्वक्स्पर्शपाणिसंज्ञास्तु कलावायुसमाश्रिताः ।नेत्ररूपाङ्घ्रिसंज्ञास्तु कलास्तेजः शरीरगाः ॥५६॥रसनारसगुह्यानां कलावारिसमाश्रिताः ।गन्धघ्राणोपस्थकला पृथिव्यावरणाश्रिता ॥५७॥मनोमात्रेन्द्रियकला भूतेषु क्रमयोगतः ।तदाधिकारा हरिणा शक्राद्याः पुष्करान्तिमाः ॥५८॥सूक्ष्मस्थूलोत्पत्तिकाले उत्तमास्तूर्ध्वदेशगाः ।नीचनीचास्तूच्चदेशस्थितोच्चोच्चसुराश्रयाथ् ॥५९॥देशादवरदेशे तु क्रमात्तत्वेषु संस्थिताः ।तत्वव्यापारकाले तु स्वरूपोचितशक्तयः ॥६०॥इति देशोचित महातारतम्यं वदन्ति हि ।देवमानेनाब्दशतं पौर्वापर्यव्यवस्थया ॥६१॥ऋजूनां च जनिः प्रोक्ता सहस्राब्दान्तरामताः ।विपाद्यास्तु तथेन्द्राद्या दशसाहस्रवत्सरैः ॥६२॥क्रमात्पौर्वापर्यजाताः कालान्नीचोच्चभाविनः ।अथ सर्वस्यापरोक्षतारतम्यं विविच्यते ॥६३॥तृणादिसर्वजीवानां स्वरूपोद्धार आगते ।काले तत्तद्योग्यजीवसाधनोचितकालके ॥६४॥हरिश्च श्रीब्रह्मवायू सभार्यौ च तदाज्ञया ।एतदन्यद्वीपवर्षजायामानान्हि सर्वशः ॥६५॥स्वकर्मवशगान्स्वर्गान्तरिक्षधरान्चरन् ।नानायोनिगतान्जीवानतलाद्याधरस्थितान् ॥६६॥उद्धर्तुकामो भगवान्भारते जनयिष्यति ।तत्र मानुषयोन्युत्थांस्तत्रापि ब्राह्मणोत्तमान् ॥६७॥तत्र सर्वस्वरूपोरुव्यक्तिकारककर्मणा ।संयोज्य सर्वसद्योग्यज्ञानदानगुरूत्तमान् ॥६८॥भिन्नदेशे भिन्नकाले योजयत्यखिलं हरिः ।तृणादिमर्त्यपर्यन्तगन्धर्वास्ते ह्यनन्तशः ॥६९॥निरंशास्ते प्रतीकालम्बनास्ते कर्मयोगिनः ।देवगन्धर्वपूर्वास्त्वाजानजान्ता समस्तशः ॥७०॥अप्रतीकालम्बना सांशाः क्रमोच्च ज्ञानयोगिनः ।प्रतीकस्थं शरीरस्थं पश्यन्तीति तथाह्वयाः ॥७१॥प्रतीकाद्बहिरीशस्य दर्शानात्कर्मदेवताः ।अप्रतीकालम्बनाश्च प्रायोविज्ञानयोगिनः ॥७२॥एषामण्डान्तरे जन्मापरोक्षादि प्रशस्यते ।निरंशाः पक्वकाले तु उत्क्राम्यैव महरादिगाः ॥७३॥एषां लये स्वोत्तमेषु प्रवेशो नैव विद्यते ।देवगन्धर्वपूर्वाणां भूमावुत्क्रमणाल्लयः ॥७४॥महालये स्वोत्तमेषु प्रवेशः लूक्ष्मदेहतः ।उत्क्रमानुत्क्रमान्योगिनोह्यतत्वेश्वरवशान्जगुः ॥७५॥पुष्करान्ता तात्विकाश्च क्वापि नोत्क्रमणाल्लयाः ।यान्ति स्थूलशरीरैस्ते स्वोत्तमेषु विशन्ति हि ॥७६॥ताननुक्रमणान्याहुः योगिनो भक्तियोगिनः ।सत्कर्मज्ञानभक्ती च सर्वेषां सर्वदापि हि ॥७७॥अवश्यकास्ते सर्वेपि तत्तत्प्राचुर्यतस्तथा ।निरंशाःसत्साधनायोचितजन्मसहस्रतः ॥७८॥ज्ञानन्तु दशभिः प्राप्य सद्भक्तिं त्रिभिराप्य च ।दृष्ट्वा हृदिस्थं मुच्यन्ते ह्यतस्ते कर्मयोगिनः ॥७९॥सत्कर्मकृत्वा निष्काम्यं लभन्ति गुरुसन्तती ।अतात्विका देवदासाः सत्कर्मशतजन्मभिः ॥८०॥कृत्वा दशसहस्रोरुजन्मभिर्ज्ञानमाप्य च ।भक्तिं त्रिशतकैराप्य मुच्यन्ते ज्ञानयोगिनः ॥८१॥अतस्ते कर्मदेवतास्तदूर्ध्वं भक्तियोगिनः ।तृणाद्याः स्वहृदिस्थं तं पश्यन्त्युचितजन्मभिः ॥८२॥दीपकान्तिविशिष्टेशं न देवान्नैव मर्त्यगं ।घटिकार्धं शरीरे वा मुक्तौ शक्तिस्तु तादृशी ॥८३॥चिन्मात्रोपासनाशक्तिः नैवाधिकगुणोत्तरे ।तेषारं इदृश एवं स्यातपररोक्षो हि नाधिकः ॥८४॥रामकृष्णादि रूपाणि बहिः पश्यन्त्यपि क्वचित् ।मानुषत्वेन पश्यन्ति अपरोक्षेन संस्मृतः ॥८५॥स्थूलहृद्गापरोक्षास्तु बाह्यस्तादपरोक्षकाः ।स्वस्वरूपस्थजीवाभस्वतन्त्रस्य च दर्शनं ॥८६॥स्वरूपाभ्यापरोक्षस्तु सर्वेषामेवमेव हि ।पादोनघटिकामात्रं स्वरूपे प्राकृते हृदि ॥८७॥पश्यन्ति क्रिमिकीटाद्याः प्रदीपप्रभया हरिं ।स्वरूपचक्षुषादृष्टिः अपरोक्ष इतीर्यते ॥८८॥वेद देशाक्षरोकालो जीवेशौ प्राकृतेन्द्रियैः ।न वेद्या हि स्वरूपेण वेद्या एव प्रकीर्तिताः ॥८९॥भक्त्या हरिप्रसादेन नष्टेत्वज्ञानपञ्चके ।रत्नवद्भासुरे लिङ्गे सूक्ष्मदेहेस्थितस्य तु ॥९०॥जीवस्य चक्षुषी व्यक्तो भवतः स्वेन पश्यति ।तेजोमयस्वरूपस्थं स्थूलहृद्गं क्रमेण तु ॥९१॥यवमात्रं हरिन्तार्णाः कीटाद्याः बदरीमितं ।अङ्गुष्टाग्रमितं वृषाः प्रदीपदशसन्निभं ॥९२॥हरिं पश्यन्ति घटिकामितं कालं रमापतिं ।समं दीपं चिदानन्दं चिदानन्दात्मकं मृगाः ॥९३॥खगाश्च पशवो गावः हृद्गं जीवगतं हरिं ।प्रदीपशतभायुक्तं घटिकार्धतदर्धकं ॥९४॥सच्चिदान्द आत्मेति मानुष्यैर्ध्यैयरिश्वरः ।विद्युद्वन्मानुषा विद्युर्दशविद्युन्मितं नृपाः ॥९५॥राजानस्तद्विगुणाभं सूर्यमण्डलवत्सुराः ।गन्धर्वाः पितरःसूर्यशतसन्निभमीश्वरं ॥९६॥गोप्यः कृष्णाङ्गसङ्गार्हाः पञ्चसाहस्रसूर्यभं ।आजानजादशसाहसस्रार्काभं त्वग्निजा अपि ॥९७॥चतुर्लक्षाधिकाशीतिलक्षजीवगणेष्वपि ।दशैव पुरुषाः प्रोक्तास्तात्विकास्तेषु पञ्च च ॥९८॥पर्जन्यादवराः पञ्च पुष्करादुत्तमा मताः ।सस्त्रीकाःसोमहीना अण्डादन्तर्बहिस्थिताः ॥९९॥त्रिंशच्चारणरक्षांसि सप्ततिः सर्वजातिषु ।अन्तरालेतु पद्मोत्था ब्रह्मायावद्धितिष्ठति ॥१००॥तावत्संवत्सरगत प्रतिप्रतिदिनेष्वपि ।सांशा अतात्विकाः सर्वेसंख्यया वक्ष्यमाणया ॥१०१॥मितास्तु प्रतिकल्पेपि पदस्था ह्यपरोक्षिणः ।उर्वश्याद्याह्यप्सरसः शतंशा स्व(स्वष्ट)संख्यया ॥१०२॥मिता अजानजैस्तुल्याः कर्मदेवसमापराः ।शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ॥१०३॥अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योवराः क्रमात् ।गन्धर्वास्तु शतं तेषु अष्टौ तुल्याश्च कर्मजैः ॥१०४॥शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ।तेष्वेव तावत्विष्टाभिः शतकं कर्मजैः समं ॥१०५॥तदन्ये आजानजेभ्यस्तुल्या अग्निसुता अपि ।द्व्यष्टौसहस्राणि शतन्त्रिंशच्चारणरक्षसां ॥१०६॥साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ।शतं सिद्धाजानजाख्या पश्यन्ति हृदि जीवगं ॥१०७॥कोटिसूर्यप्रभं कर्मदेवा हृद्गं बहिस्थितं ।द्विसप्तलोकसमितं ते प्रतीकावलम्बनाः ॥१०८॥मर्त्याः द्विघटिकामात्रं त्रिनाड्यन्तं नृपोत्तमाः ।तथा मानुषगन्धर्वाश्चतुर्नाड्यन्तमीश्वरं ॥१०९॥षण्णाड्यन्तं सुगन्धर्वा गोप्यायामान्तमञ्जसा ।शतोनशतकोट्यस्तु ऋषयोग्निसुता अपि ॥११०॥साजानजादशघटिकामितं कालं जगद्गुरुं ।पश्यन्ति कर्मदेवास्तु मध्याह्नान्तं परेश्वरं ॥१११॥स्वोत्तमस्पर्धयाहीनाः दुष्प्रारब्धविवर्जिताः ।भावरूपाज्ञानशून्याः दैत्यावेशविवर्जिताः ॥११२॥पूर्वोक्तकान्त्याकाले तं पश्यन्ति जगदीश्वरं ।पूर्वोक्तदोषरहितास्तात्विकाःसर्वदा हरिं ॥११३॥पश्यन्तिदिवपर्यन्ता दोषा एते हि नीचकैः ।उत्तमेषूत्तमेष्वल्पास्तथा चान्यतरामताः ॥११४॥ब्रह्मणो दोष सम्बन्धो न क्वापि क्व चद्दृश्यते ।राजानो मर्त्यगन्धर्वपूर्वा षट्दशपूर्वकान् ॥११५॥शतं दशसहस्रांश्च लक्षकोटिमितान्गुणान् ।विष्णोर्गुणानर्बुदांश्च सर्वानपि ततोधिकान् ॥११६॥अनन्तवेदोक्तगुणान्ब्रह्मोपास्यति नेतरः ।मर्त्योच्चा हृदि देवांश्च पदस्था पीठदेवताः ॥११७॥तथावरणगान्देवान्पश्यन्त्यपि च मण्डलं ।सुषुम्नां सप्तकमलान्यपि तद्गहरीश्वरे ॥११८॥स्थानेशं चैव मूलेशं राजानो मर्त्यगायकाः ।इडापिङ्गलनाडिस्थान्क्रमोच्चान्सर्वदेहगान् ॥११९॥तत्वेशां स्तद्गतहरेः रूपाणि अ(नि)खिलान्यपि ।ध्यात्वोपास्य विमुच्यन्ते देवा आजानजाह्वयाः ॥१२०॥इमे ते च प्रतीकस्थ हरिपादावलम्बिनः ।कर्मदेवा अतत्वेशा अपि रूपाणि सर्वशः ॥१२१॥उपास्यापि विराड्रूपं मुच्यन्ते समुपास्य च ।अप्रतीकालम्बनास्ते तु कर्मदेवाः सुरा अपि ॥१२२॥त्यक्तलिङ्गस्य मुक्तस्य तृणकीटादिकस्य च ।स्वरूपदेह ते सर्वे दशयोजनसन्तता ॥१२३॥वृक्षादीनां मृगादीनां ततो द्विगुणरुग्भवेत् ।विमुक्तानान्तु मर्त्यानां शूद्रादीनामतः परं ॥१२४॥एकद्वित्रिचतुष्पादाधिकरुक्सन्तताः सदा ।राजन्यामर्त्यगन्धर्वास्ततोद्वित्र्याधिकप्रभाः ॥१२५॥परितो मेरुतुल्यात्विट्देवगन्धर्वसन्ततेः ।चिरान्तो पितरो मुक्ता भुवर्लोकान्तकान्तयः ॥१२६॥गोप्यः कृष्णाङ्घ्रिसङ्गार्हाः उपसन्तति दीप्तयः ।आजनाजातत्समाश्च स्वर्गान्ता तत्प्रकाशिनः ॥१२७॥यस्य यस्य च जीवस्य प्रकाशो यत्र चेरितः ।दैवाद्बहिर्दृष्टिगतो भाति मर्त्योच्चवद्धरिः ॥१२८॥न सच्चिदानन्दतनुर्बाह्यदृग्गोचरो भवेत् ।दृष्ट्वोपास्य विमुच्यन्ते कर्मदेवा विराट्तनुं ॥१२९॥तादृज्जोतिस्तावदन्तं विष्णुं पश्यति चक्षुषा ।स्वारूपिकेण बाध्येन नैव पश्यन्ति चेश्वरं ॥१३०॥पश्यन्ति नैवोपास्यन्ति ब्रह्माण्डे व्याप्तमीश्वरं ।पुष्कराद्यास्तु शक्रान्ताः पूर्वोक्ताखिलरूपिणं ॥१३१॥अण्डाद्बहिः पृथिव्यादि मनस्तत्वादि सन्ततेः ।दृष्ट्वाध्यात्वोपास्य सर्वे मुक्तिं यास्यन्ति कालतः ॥१३२॥अहङ्कारगतं द्रष्टुमीशानोपासने क्षमाः ।पुष्कराद्या महेन्द्रान्ताः क्रमादधिककान्तयः ॥१३३॥कोट्यर्बुदार्काभं देवं वामदेवादयो हरिं ।उपास्याहङ्कारतत्वव्याप्तसत्तनुमीश्वरं ॥१३४॥मुच्यते च महत्तत्वे तमस्यपि ततं हरिं ।पश्यन्तीवारुणीपूर्वा नेष्यन्ति तमसिस्थितं ॥१३५॥अनन्तार्करुचा सत्वावृत्यन्तं व्याप्तमव्ययं ।उपास्य गीर्मुक्तिमेति ततोप्यधिकरुक्ततः ॥१३६॥वासुदेवावरणगं ब्रह्मा पश्यति नेतरः ।यावत्पश्यन्ति तं जीवं तावत्सामान्यरुक्स हि ॥१३७॥यावनुपास्यो वै विष्णुस्तावत्तेषां विशेषभा ।ब्रह्मणो नैव सामान्यरुग्विशेषप्रभो हि सः ॥१३८॥अत्यल्पसुखरूपांशा जीवानां योग्यतावसन् ।यादृशी भारमायास्तु व्याप्तायाः सर्वदेशगा ॥१३९॥भानुप्रभागता दीपप्रभा यद्वन्न रोचते ।तथा विष्णुप्रभानुन्नामाप्रभा नैव रोचते ॥१४०॥एवं नीचप्रभास्वोच्चप्रभासु प्रविलीयते ।तथापि च यथार्थज्ञा मुक्ताप्तै तत्ववेत्तमाः ॥१४१॥यो यावतीं हरौ कान्तिं वेत्यसौ तच्छतांशभाक् ।प्रभात्येव प्रकाशस्य तारतम्यं विदुत्तमाः ॥१४२॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे दशमोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP