क्रियाखण्डः - अध्यायः २२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


जैमिनिरुवाच-
गङ्गायाः शुभ माहात्म्यं विष्णुपूजाफलं तथा
अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् ॥१॥
विप्रपादोदकस्यापि माहात्म्यं पापनाशनम्
त्वत्प्रसादाच्छ्रुतं सर्वं सेतिहासं गुरो मया ॥२॥
इदानीं मुनिशार्दूल श्रोतुमिच्छामि सादरम्
एकादश्याः फलं सर्वं सर्वपातकनाशनम् ॥३॥
कस्मादेकादशी श्रेष्ठा तस्याः को वा विधिः स्मृतः
कदाचित् क्रियते किं वा फलं तस्या वदस्व मे ॥४॥
का वा पूज्यतमा तत्र देवता सद्गुणार्णव
अकुर्वतः स्यात्को दोषस्तन्मे वक्तुमिहार्हसि ॥५॥
व्यास उवाच-
एकादश्याः फलं सर्वं वक्तुं नारायणादृते
शक्नोति नान्यो विप्रर्षे तस्माद्वच्मि समासतः ॥६॥
सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम्
सर्वेषां दमनार्थाय सृष्टवान्पापपूरुषम् ॥७॥
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम्
स्वर्णस्तेयं च वदनं गुरुतल्पगतिः श्रुतिः ॥८॥
स्त्रीहत्या नासिकं चैव गोहत्यादोष बाहुकम्
न्यासापहारण ग्रीवं भ्रूणहत्या गलं तथा ॥९॥
परस्त्रीगतबुक्काग्रं सुहृल्लोकवधोदरम्
शरणापन्नहत्यादि नाभिगर्तावधिं कटिम् ॥१०॥
गुरुनिंदा सक्थिभागं कन्याविक्रय शेफसम्
विश्वासवाक्यकथनं पायुं प्रीतिवधांघ्रिकम् ॥११॥
उपपातकरोमाणं महाकायं भयंकरम्
कृष्णवर्णं पिंगनेत्रं स्वाश्रयात्यंतदुःखदम् ॥१२॥
तं दृष्ट्वा पापपुरुषमत्युग्रं पुरुषोत्तमम्
सदयश्चिंतयामास प्रजाक्लेशहरः प्रभुः ॥१३॥
सृष्टोऽयं दुर्जनः क्रूरः स्वाश्रयक्लेशदायकः
प्रजानां दमनार्थाय सृजाम्येतस्य कारणम् ॥१४॥
अथासौ भगवान्विष्णुर्बभूव स्वयमंतकः
ससर्ज रौरवादींश्च निरयान्पापिदुःखदान् ॥१५॥
पापं यः सेवते मूढो न याति परमं पदम्
यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् ॥१६॥
एकदा भगवान्विष्णुः प्रजानां दुःखनाशनः
वैनतेयं समारुह्य जगाम यममंदिरम् ॥१७॥
तं दृष्ट्वा जगतामीशं नारायणमनामयम्
धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः ॥१८॥
यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः
उवास द्विजशार्दूल पीठे कनकनिर्मिते ॥१९॥
तत्रोपविष्टो भगवान्यमेन सह दैत्यहा
शुश्राव क्रंदनं ध्यानं दक्षिणस्यां दिशि प्रभो ॥२०॥
अथासौ कमलाकांतो विस्मयाविष्टमानसः
उवाचेति यमं तेषां कुतोऽयं क्रंदनध्वनिः ॥२१॥
यम उवाच-
देवपातकिनो मर्त्या निरयेऽत्यंतदुःखदे
स्वहस्तार्जितदोषेण सीदंति च ममालये ॥२२॥
पापवृक्षफलं विष्णो भोक्तुमत्यंतदुःखदम्
रुदंति पापिनस्तस्मात्तेषां ध्वनिरसौ महान् ॥२३
इत्युक्तः सूर्यपुत्रेण कृष्णः कमललोचनः
जगाम सहसा तत्र पापवंतो रुदंति ते ॥२४॥
तान्दृष्ट्वा पापिनो मर्त्यान्रौरवादिषु संस्थितान्
भगवांश्चिंतयामास हृदिजातदयः प्रभुः ॥२५॥
मया सृष्टाः प्रजाः सर्वा दोषेण निजकर्मणाम्
मयि स्थितेऽपि नरके सीदंत्येकांतदुःखदे ॥२६॥
एतच्चान्यच्च विप्रेन्द्र विचिंत्य करुणामयः
बभूव सहसा तत्र स्वयमेकादशी तिथिः ॥२७॥
ततस्तान्पापिनः सर्वान्कारयामास तच्छ्रुतम्
ते च सर्वे परं धाम ययुर्गलितकल्मषाः ॥२८॥
तस्मादेकादशीं विष्णोमूर्तिं विद्धि परात्मनः
समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् ॥२९॥
एकादशीं तिथिं कृत्वा पावयंतीं जगत्त्रयम्
शंकितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ॥३०॥
ततो बद्धाञ्जलिर्भक्त्या स पापपुरुषो द्विज
तुष्टाव कमलाकांतं भगवंतं जनार्दनम् ॥३१॥
तस्यस्तवं समाकर्ण्य प्रसन्नः परमेश्वरः
उवाचाहं प्रसन्नोऽस्मि किंतेऽभिमतमुच्यताम् ॥३२॥
पापपुरुष उवाच-
सृष्टो भगवता विष्णो निजानुग्रहदुःखदः
एकदश्याः प्रभावेण क्षयं प्राप्नोमि सांप्रतम् ॥३३॥
मृते मयि जगत्यस्मिन्सर्वे ते च शरीरिणः
भविष्यंति विनिर्मुक्ता भवबंधैः शरीरिणः ॥३४॥
सर्वेषु च विमुक्तेषु देहिश्रेष्ठेषु पूरुषम्
संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो ॥३५॥
क्रीडितुं यदि ते वांछा जगत्कौतुकमंदिरे
एकादशी तिथि भयात्तदा मां त्राहि केशव ॥३६॥
अन्यैः पुण्यसहस्रैस्तु मां हंतुं न हि शक्यते
शक्नोत्येकादशी पुण्या मां हंतुं वरदो भव ॥३७॥
मनुष्यपशुकीटेषु तथाऽन्येषु च जंतुषु
पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च ॥३८॥
नदीषु च समुद्रेषु वनेषु प्रांतरेषु च
स्वर्गे मर्त्ये च पाताले देवगंधर्वपक्षिषु ॥३९॥
एकादशीतिथि भयाद्भूयान्विष्णो पलायितः
कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् ॥४०॥
कोटिब्रह्माण्डमध्येषु देवदेव सनातन
एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते ॥४१॥
एकादश्यामहं कुत्र वत्स्यामि निर्भयः प्रभो
तन्मे कथय देवेश त्वयासृष्टोऽस्म्यहेतुकः ॥४२॥
व्यास उवाच-
इत्युक्त्वा पापपुरुषः क्लेशनाशनमच्युतम्
भूमौ निपत्य चक्रंद स्रवद्वाष्पविलोचनः ॥४३॥
ततः प्रहस्य भगवान्मधुकैटभमर्दनः
एकादशी भयात्त्रस्तमुवाच पापपूरुषम् ॥४४॥
श्रीभगवानुवाच-
उत्तिष्ठ पापपुरुष त्यज शोकं मुदं कुरु
एकादश्यां तिथौ यत्र तव स्थानं वदामि ते ॥४५॥
एकादश्यां समायांत्यां प्रपुनन्त्यां जगत्त्रयम्
स्थातव्यमन्नमाश्रित्य भवता पापपूरुषः ॥४६॥
अन्नमाश्रित्य तिष्ठंतं भवंतं पापपूरुषम्
न हनिष्यति मन्मूर्तिरियमेकादशी तिथिः ॥४७॥
ततो देवोऽपि विप्रर्षे तत्रैवांतर्हितोऽभवत्
कृतार्थः पापपुरुषो ययौ च स यथागतः ॥४८॥
तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः
आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ॥४९॥
संसारे यानि पापानि तान्येवैकादशीदिने
अन्नमाश्रित्य तिष्ठंति श्रीमन्नारायणाज्ञया ॥५०॥
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत्
येचान्नं भुञ्जतेऽत्रापि ते ज्ञेयाः पापिनां वराः ॥५१॥
भूयोभूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ॥५२॥
ब्रह्मक्षत्रियविट्शूद्रैरन्यैश्च द्विजसत्तम
सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा ॥५३॥
अष्टादशनिमेषास्तु काष्ठा प्रोक्ता मनीषिभिः
क्षणं त्रिंशत्कलाभिः स्यान्मुहूर्तो द्वादशक्षणैः
त्रिंशन्मुहूर्ता लोकानामहोरात्रः प्रकीर्तितः ॥५५॥
तैः पंञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम
पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः ॥५६॥
तस्मिन्मासे द्विजश्रेष्ठ पक्षयोः शुक्ल कृष्णयोः
महापातकयुक्तोऽपि करोत्येकादशीं यदि ॥५७॥
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात्
माता न प्रोच्यते माता माता ह्येकादशी तिथिः ॥५८॥
इहैव पालयेन्माता सर्वत्रैकादशी तिथिः
एकादशीव्रतं त्यक्त्वा व्रतमन्यत्करोति यः ॥५९॥
स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णाति मूढधीः
एकादशीव्रतं यैस्तु कृतं भक्तिसमन्वितैः ॥६०॥
तैस्तु यज्ञा कृताः सर्वे व्रतानि सकलानि च
एकादश्यां च भुञ्जन्ति ये मोहात्पापिनो नराः ॥६१॥
शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः
तेन धर्माः कृताः सर्वे लङ्घिता येन सा तिथिः ॥६२॥
यथा समस्तदेवानां श्रेष्ठो विष्णुः प्रकीर्तितः
तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् ॥६३॥
आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥६४॥
वृक्षाणां च यथाश्वत्थो वेदानां साम कीर्तितम्
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥६५॥
कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥६६॥
व्यासः श्रेष्ठो मुनीनां च देवर्षीणां च नारदः
तथा व्रतानां सर्वेषां श्रेष्ठमेकादशीव्रतम् ॥६७॥
यथा समस्तदानानामन्नदानं वरं स्मृतम्
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ॥६८॥
यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः
तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये ॥६९॥
इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः
मासानां कार्तिकः श्रेष्ठः पाण्डवानां यथार्जुनः ॥७०॥
यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः
तथा व्रतानां प्रवरं स्मृतमेकादशीव्रतम् ॥७१॥
वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज
कुत्राप्येकादशीतुल्यं व्रतं प्रोक्तं न कोविदैः ॥७२॥
निर्भया मानवाः सर्वे तिष्ठंति क्षितिमण्डले
एकादशीव्रतं कृत्वा किं करिष्यति भास्करिः ॥७३॥
एकामेकादशीं सम्यक्कुर्वतां किंकरो यमः
एकादशीव्रतं तस्मात्कर्तव्यं हि शुभप्रदम् ॥७४॥
एकादशीव्रतविधिं संक्षेपात्कथयाम्यहम्
समाहितमना भूत्वा शृणु सत्तम जैमिने ॥७५॥
दशम्यां प्रातरुत्थाय कर्तव्यं दंतधावनम्
ततस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ॥७६॥
ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरम्
हरिध्यानपरो भूत्वा एकभोजनमाचरेत् ॥७७॥
आमिषं लवणं चैव तथा मांसं मसूरकम्
बृहन्माषं तथा शाकं दशम्यां परिवर्जयेत् ॥७८॥
द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा
भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् ॥७९॥
निम्बपत्रं च वृंताकं दग्धं जंबीरमेव च
घृतहीनं तथा गव्यं दशम्यां परिवर्जयेत् ॥८०॥
अत्यन्तभोजनं चैव अत्यन्ताशनभोजनम्
तांबूलभक्षणं चैव दशम्यां परिवर्जयेत् ॥८१॥
दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम
द्वादश्यामपि तान्येव निषिद्धानि न संशयः ॥८२॥
दशम्यां विप्रशार्दूल द्वादश्यामपि वैष्णवः
सम्यग्व्रतफलप्रेप्सुर्न कुर्यान्निशि भोजनम् ॥८३॥
अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रती
अपराह्णे पुनः कुर्याद्विधिना दंतधावनम् ॥८४॥
सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिम्
केशवं मनसा ध्मायन्मंत्रमेतमुदीरयेत् ॥८५॥
एतद्गृहीतं गोविंद मया त्वत्पुरतो व्रतम्
सिद्धिं गच्छतु निर्विघ्नं तव पादानुकंपया ॥८६॥
अतिचंचलचित्तोऽहं लोभमोहमयो नरः
शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते ॥८७॥
इमौ मंत्रौ पठित्वा तु तमेव कुसुमांजलिम्
दत्वा नारायणायाथ दंडवत्प्रणमेद्भुवि ॥८८॥
तस्मिन्नेव गृहे विष्णोर्विष्णुस्मरणतत्परः
कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् ॥८९॥
ततः प्रभाते विमले न कुर्याद्दंतधावनम्
कल्लोलैर्मुखशुद्धिं तु कुर्याद्द्वादशभिर्बुधः ॥९०॥
नित्यक्रियां प्रकुर्वीत विष्णुपूजादिकक्रियाम्
ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः ॥९१॥
एकत्र जागरं कुर्यात्पुरतो जगतांपतेः
समातृकः सभार्यश्च सभ्राता सपिता तथा ॥९२॥
तथा सपुत्रमित्रश्च कुरुते जागरं हरेः
स तिष्ठेद्विष्णुभवने चिरं व्रतकरो द्विज ॥९३॥
शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमंदिरे
बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः ॥९४॥
तंडूलचूर्णपंकेन विष्णोरायतनेषु च
अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु ॥९५॥
पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभम्
शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयात् ॥९६॥
वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः
उद्धृत्य कोटिपुरुषान्नारायणपुरं व्रजेत् ॥९७॥
पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः
मण्डयत्यवनीपालः स लभेत्प्रतिजन्मनि ॥९८॥
पताकाप्रचलंती च यावद्भवति वायुना
तत्कर्तुः पातकं सर्वं तावदेव विनश्यति ॥९९॥
पताकावलयाः प्राज्ञैर्नानावर्णा हरेर्गृहे
स्थापितव्याः परं स्थानमिच्छद्भिर्हरिवासरे ॥१००॥
विष्णोः शिरसि यच्छत्रं धत्ते चारुतरं जनः
प्रतिजन्मनि विप्रर्षे क्षत्त्री भवति स क्षितौ ॥१०१॥
वासरे वासुदेवस्य पुष्पमंडपकृन्नरः
प्रतिपुष्पं लभेत्पुण्यं वाजिमेधशतोत्तरम् ॥१०२॥
वासुदेवदिने पुष्पैः सुंगधैर्मंडयन्बुधः
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये ॥१०३॥
यो वस्त्रगृहनिर्माणं कुरुते हरिवासरे
स सौधवासी विप्रर्षे भवति त्रिदशालये ॥१०४॥
निर्माय वस्त्रभवनं तत्र बध्नाति मानवः
श्वेतं वा लोहितं वापि कृष्णं वासोऽच्युतप्रियः ॥१०५॥
शालिग्रामशिलां तत्र प्रतिमां वा श्रियःपतेः
पञ्चामृतेन संस्नाप्य स्थापयेद्भक्तितो व्रती ॥१०६॥
आदौ स्वस्त्ययनं कुर्यात्संकल्पं च तथा बुधः
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये ॥१०७॥
भूतशुद्धिं निजां विप्र विधानं शास्त्रभाषितैः
ततश्चैकमना भूत्वा गृहीत्वा पुष्पमुत्तमम् ॥१०८॥
ध्यायन्नारायणं देवं हृदयांभोजवासिनम्
आसीनं हेमपीठे च तथा मणिमयेऽपि च ॥१०९॥
आसीनं हेमपीठे मणिमयज्वलनालंकृतं क्रीडवेशं बिभ्रल्ले
खोज्ज्वलाभ्रद्युतिरुचिरतनुं दीर्घदोर्भिश्चतुर्भिः
नित्यं विभ्राजमानं सकलकरलयैः सायुधैः पद्मनेत्रैः
पश्यंतं श्रीमुखं तच्छ्रमनुदमनिशं तं भजेऽपाङ्गदृष्ट्या ॥११०॥
आगच्छ भगवन्देवसहितः श्रीपतेः प्रिय
कर्तव्या हि मया भक्त्या सपर्यास्मिन्व्रते तव ॥१११॥
सर्वलक्षणसंपन्न लक्ष्म्या सह जगद्गुरो
अस्मिन्वरासने तिष्ठ यावत्पूजां करोमि ते ॥११२॥
समस्तलोकविख्यात कीर्ते नारायणप्रभो
कच्चित्ते कुशलं सर्वं सर्वं वद सुरार्चित ॥११३॥
पाद्यं गृहाण देवेश नारायणसुवासितम्
पादद्वयरजोहारि पवित्रमतिशीतलम् ॥११४॥
अर्घ्यं ददामि ते विष्णो दूर्वापल्लवसंयुतम्
अखंडतंडुलोपेतं पुंडरीकनिभेक्षण ॥११५॥
इदमाचमनीयं ते सुपवित्रं ददाम्यहम्
गृहाण परमानंद परमानंदवर्द्धनम् ॥११६॥
मया दत्तेन गंधेन जरासंधविनाशन
तवास्तु भूषितं गात्रं लक्ष्मीनाथ सुगंधिना ॥११७॥
ददाम्यहं पवित्रार्थं जगतामादिकारकम्
इदमाचमनं देव तद्गृहाण सुरेश्वर ॥११८॥
सृष्टोऽयं विधिना पूर्वं देवानां तुष्टिवृद्धये
अतस्तुभ्यं सुरश्रेष्ठ धूपोऽयं दीयते मया ॥११९॥
तमसः स्तोमसंहर्ता घृतपूर्णो जनार्दन
तवास्तु प्रीतये देव एष दीपो जनार्दन ॥१२०॥
सोत्तरीयमिदं वस्त्रं बस्तिश्रोणिसुशोभनम्
ददाम्यहं ते देवेश सोपवीतं जगद्गुरो ॥१२१॥
अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम्
मया निवेदितं भक्त्या गृहाण परमेश्वर ॥१२२॥
मुखदुर्गन्धहरणं कर्पूरखदिरान्वितम्
गृहाण विष्णो तांबूलं कैवल्यद महामते ॥१२३॥
विधिनानेन गोविन्दमुपहारैरनुत्तमैः
पूजयेत्संवृतो भक्त्या प्रहरेषु चतुर्ष्वपि ॥१२४॥
नानोपहारान्हरये यो यच्छेद्धरिवासरे
वित्तशाठ्यं न कर्तव्यं कर्मणां फलमिच्छता ॥१२५॥
ततस्तु व्रतिभिः सर्वैर्नारायणपरायणैः
निशि जागरणं कार्य्यं नृत्यगीतस्तवादिभिः ॥१२६॥
प्रदक्षिणं द्विजश्रेष्ठ नामानि कमलापतेः
सर्वपापविनाशीनि स्मर्तव्यानि व्रते रतैः ॥१२७॥
स्फुरंतं प्रतिवक्त्रेभ्यो हरिनामध्वनिं जनाः
शृण्वंति ते विमुक्ताः स्युर्महद्भिः पापसंचयैः ॥१२८॥
न पाखंण्डजनालापः कर्तव्यो हरिवासरे
पाखंडालापमात्रेण सर्वधर्मो विनश्यति ॥१२९॥
नारायणयशोगीतं प्रतिकंठं विनिःसृतम्
श्रुत्वा मूढा न तृप्यंति श्वानो वीणाक्वणं यथा ॥१३०॥
संतो हर्षं समायांति श्रुत्वा गीतं जगत्पतेः
समस्तपापविध्वंसि वीणाक्वाणं यथा मृगाः ॥१३१॥
गायंतं हरिगीतानि नृत्यंति नृत्यमुत्तमम्
तृप्यंति व्रतिनो दृष्ट्वा तृप्यंति कमलापतेः ॥१३२॥
व्रतिनो येन तृप्यंति विष्णोरायतने द्विज
प्रतिजन्मनि वै तेषां पशुता शाश्वती भवेत् ॥१३३॥
न ये गीतानि गायंति व्रतिनो हरिवासरे
विहीना वचनैस्ते च भ्रमंति प्रतिजन्मनि ॥१३४॥
मृदंगादीनि वाद्यानि कर्तव्यानि हरेः पुरः
यतो वाद्यैर्भवेत्तुष्टो भगवान्मधुसूदनः ॥१३५॥
कुर्वंति जागरं विष्णोर्वेदाध्ययनमुत्तमम्
पुराणपठनं वापि कर्तव्यं वैष्णवैर्जनैः ॥१३६॥
रामायणं भागवतं भारतं व्यासभाषितम्
अन्यानि च पुराणानि पाठ्यानि हरिवासरे ॥१३७॥
ये पठंति पुरो विष्णोर्ये शृण्वन्ति हरेर्दिने
प्रत्यक्षरे लभंते ते कपिलादानजं फलम् ॥१३८॥
निशि जागरणं कुर्यात्सानंदो वैष्णवो जनः
जितनिद्रो भवेत्सम्यग्ध्यायते केशवं हृदा ॥१३९॥
प्रदक्षिणाकारतया भूयोभूयो हरेर्द्दिने
निपत्य दण्डवद्भूमौ प्रणमेच्च जनार्द्दनम् ॥१४०॥
ततः प्रभाते विमले कृतपंचमहाध्वरः
हरिं संस्नाप्य दुग्धेन पूजयेद्भक्तिमान्व्रती ॥१४१॥
व्रतस्य दक्षिणां दद्यान्निजशक्त्या द्विजन्मने
ततस्तु द्वादशीमध्ये व्रती पारणमाचरेत् ॥१४२॥
पारणं कुरुते यस्तु विलंघ्य द्वादशीतिथिम्
जन्मकोट्यर्जितं पुण्यं तस्य चैव विनश्यति ॥१४३॥
द्वादशीतिथिमध्ये तु कर्तव्यं पारणं बुधैः
न कदाचित्त्रयोदश्यां व्रतस्य फलमिच्छुभिः ॥१४४॥
उपवासदिने विप्र निशायामपि वैष्णवः
उपवासफलप्रेप्सुर्यत्नात्स्वापं विवर्जयेत् ॥१४५॥
विना जागरणं नूनमुपवासो निरर्थकः
अतो जागरणं कार्य्यमुभयोरपि पक्षयोः ॥१४६॥
एकादशीव्रतं येन विधिनानेन कुर्वते
सत्यं सत्यं द्विजश्रेष्ठ सर्वे ते मोक्षगामिनः ॥१४७॥
जन्ममृत्युहरणैकनिदानं सेंद्र देवनिकरैरपि कार्यम्
वासुदेवदिवसव्रतसारं जैमिने त्वमनिशं कुरु यत्नात् ॥१४८॥

इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : October 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP