संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः २६ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः २६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २६ Translation - भाषांतर जैमिनिरुवाच-कलौ युगे महाभाग समायाते सुदारुणेभविष्यंति जनाः सर्वे कीदृशास्तद्वदस्व मे ॥१॥व्यास उवाच-आद्यं सत्ययुगं प्राहुस्तत्र विप्रादयो जनाःनारायणार्चनपराः शोकव्याधिविवर्जिताः ॥२॥सत्योक्तिभाषिणः सर्वे सदया दीर्घजीविनःधनधान्यादिसम्पन्ना हिंसादंभविवर्जिताः ॥३॥परोपकरणाश्चैव सर्वशास्त्रविदस्तथाएवंविधाः सत्ययुगे सर्वे लोका द्विजोत्तम ॥४॥राजधर्मग्राहिणश्च भूपाला जनपालनाःअहो सत्ययुगस्यास्ति को व्याख्यातुं गुणं यशः ॥५॥अधर्मोच्चारणं यत्र जनाः केऽपि न कुर्वतेत्रेतायुगे समायाते धर्मः पादोनकं गतः ॥६॥अल्पशोकान्विता लोकाः केचित्केचिदघाश्रयाःविष्णुध्यानरता लोका यज्ञदानपरायणाः ॥७॥वर्णाश्रमाचाररताः सुखिनः स्वस्थचेतसःक्षेत्रभूमिकृतः शूद्राः सर्वेब्राह्मणसेविनः ॥८॥ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाःप्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ॥९॥तपोव्रतरता नित्यं दातारो विष्णुसेविनःत्रेतायुगस्यावसाने द्वापरे युग आगते ॥१०॥द्विपादहीनो धर्मः स्यात्सुखदुःखान्विता नराःकेचित्केचित्पापरताः केचित्केचिच्च धर्मिणः ॥११॥केचित्केचिद्गुणैर्हीनाः केचित्केचिन्महागुणाःअत्यन्तदुःखिनः केचित्केचिच्च सुखिनस्तथा ॥१२॥प्रतिग्रहे ब्राह्मणश्च कदाचित्कुरुते स्पृहाम्भूभुजैर्धनलोभेन कदाचित्पीड्यते प्रजा ॥१३॥विष्णुपूजापरा विप्राः शूद्राश्च द्विजसेविनःयदा युगेयुगे धर्मः पादोनतां गतो द्विज ॥१४॥तदा व्यासो विष्णुरूपी वेदभागं चकार हकलौयुगे च विप्रेन्द्र सर्वपापैकमंदिरे ॥१५॥एकपादो भवेद्धर्मः सर्वे पापरता जनाःब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः ॥१६॥अत्यंतकामिनः क्रूरा भविष्यंति कलौ युगेवेदनिंदाकराश्चैव द्यूतचौर्यकरास्तथा ॥१७॥विधवासंगमग्नाश्च भविष्यंति कलौ युगेवृत्त्यर्थब्राह्मणाः केचिन्महाकपटधर्मिणः ॥१८॥सर्वे स्त्रैणा भविष्यंति मादकद्रव्यसेविनःसदा स्त्रीयोनिनिरताः परद्रव्यं हरंति च ॥१९॥परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाःपाखण्डसङ्गबद्धाश्च भविष्यंति कलौ युगे ॥२०॥रक्ताम्बरा भविष्यंति ब्राह्मणाः शूद्रधर्मिणःकलौ यास्यंति निर्वृत्ता उत्तमा अति नीचताम् ॥२१॥नीचाश्च धनसम्पन्ना यास्यंत्युच्चपदं प्रतिप्रदास्यंत्युपकारिभ्यो दानानि सकला जनाः ॥२२॥यत्नादपि च नेष्यंति वृषला विप्रवर्त्तनम्मित्रस्नेहाद्वदिष्यंति कूटसाक्ष्यं कलौ जनाः ॥२३॥अधर्मबुद्धिलपना धर्मबुद्धिविलापिनःपरोक्षनिंदकाः क्रूराः संमुखे प्रियवादिनः ॥२४॥साध्वीवादं वदिष्यंति भर्तारं पुंश्चली स्त्रियःपरस्त्रीहिंसकाश्चैव गोत्रविक्रयिणो द्विजाः ॥२५॥कन्याविक्रयिणश्चैव भविष्यंति कलौ युगेस्त्रीजिताः पुरुषाः सर्वे स्त्रियोऽप्यत्यंतचञ्चलाः ॥२६॥कलौयुगे भविष्यंति कलौ मर्त्या दुराशयाःअल्पसस्या वसुमती मेघाः स्वल्पोदकास्तथा ॥२७॥अकालवर्षिणश्चापि भविष्यंति कलौ युगेकलौ विड्भोजिनो गावः स्वल्पक्षीराश्च जैमिने ॥२८॥घृतहीनं च तत्क्षीरं भविष्यंति न संशयःआत्मस्तुतिपरा लोकाः परनिंदापरायणाः ॥२९॥भविष्यंति च खर्वाङ्गा बाला बह्वन्नभोजनाःपितृयज्ञं करिष्यंति दंभार्थं ब्राह्मणाः कलौ ॥३०॥सर्वे वचःस्नेहिनः स्युर्यावत्कार्यं न सिद्ध्यतिनरान्धर्मपरान्दृष्ट्वा सर्वे चोपहसंति वै ॥३१॥वर्धंत्यधर्मतो लोकास्तस्मात्पापरता जनाःदशद्वादशवर्षे च समूलोऽप्येति संक्षयम् ॥३२॥जलस्येव भविष्यंति यथा वर्षासु वृद्धयःततो लोका भविष्यंति कलौ गलितयौवनाः ॥३३॥पंचमे वापि षष्ठे वा वर्षे स्त्री गर्भधारिणीबह्वपत्याश्च पुरुषा भविष्यंत्यतिदुःखिनः ॥३४॥नेतुकामाश्च सर्वेऽपि दातुकामा न केऽपि चकलौ म्लेच्छा भविष्यंति राजानः पापतत्पराः ॥३५॥एकवर्णा भविष्यंति विषयार्थं कलौ जनाःकलेः प्रथमसंध्यायां हरिं निंदंति मानवाः ॥३६॥कलेर्मध्ये न पश्यंति हरेर्नामानि केवलेब्राह्मणाः क्षत्त्रिया वैश्या वृषलाश्च कलौ युगे ॥३७॥एकवर्णा भविष्यंति वर्णाश्चत्वार एव चयदायदा द्विजश्रेष्ठ हानिः सुकृतिनां भवेत् ॥३८॥वृद्धिश्च पापिनां नॄणां ज्ञेया वृद्धिस्तदा कलौयद्यप्ययं कलिर्घोरो मया प्रोक्तो द्विजोत्तम ॥३९॥तथाप्यस्ति महानस्य गुणो गुणवतां वरसत्ये द्वादशभिर्वर्षैर्भवेत्पुण्यस्य साधनम् ॥४०॥तदर्धेन च त्रेतायां मासेन द्वापरे भवेत्अहोरात्रेणैव विप्र भवेत्तच्च कलौ युगे ॥४१॥तस्मात्कलियुगे नॄणां मर्त्येनैवोत्तमा गतिःद्वादशाब्दैर्युगेऽन्यस्मिन्हरिमभ्यर्च्य यत्फलम् ॥४२॥तत्फलं लभते मर्त्यो हरिमुच्चार्य वै कलौहरेर्नामैकमप्यत्र कलौ वदति यो नरः ॥४३॥कलिर्न बाधते तं च सत्यं सत्यं न संशयःजैमिनिरुवाच-मनः शुद्धिविहीनत्वात्समस्तं कर्मनिष्फलम् ॥४४॥इति पूर्वं त्वया प्रोक्तं मनो विस्मयदं ममकलौ सर्वे भविष्यंति मनःशुद्धिविवर्जिताः ॥४५॥तेषां यथा भवेत्कर्म सकलं ब्रूहि तद्गुरोव्यास उवाच-यत्किंचित्कुरुते कर्म मर्त्यो धर्मं कलौ युगे ॥४६॥तदर्पयेन्महाविष्णौ भक्तिभावसमन्वितःविष्णौ समर्पितं कर्म सर्वमेवाक्षयं भवेत् ॥४७॥व्यास उवाच-इति ते कथितं सर्वं वृत्तं ब्राह्मणसत्तमयच्छ्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ॥४८॥सूत उवाच-एवं प्रबोधितस्तेन जैमिनिः परमात्मनाक्रियायोगरतो भूत्वा जगाम परमं पदम् ॥४९॥इमं क्रियायोगसारं व्यासेनोक्तं महात्मनाये पठंति जना भक्त्या शृण्वंति च मुमुक्षवः ॥५०॥ते सर्वे पातकैर्घोरैर्बहुजन्मार्जितैरपिविमुक्ताः परमां मुक्तिं लभंते नात्र संशयः ॥५१॥यद्यदिष्टं पठंत्येतच्छृण्वन्ति च मुमुक्षवःलभंते तत्तदेवाशु प्रसादात्कमलापतेः ॥५२॥श्लोकार्द्धं श्लोकमेकं वा श्लोकपादमथापि वानरः पठित्वा श्रुत्वा च लभते वांछितं फलम् ॥५३॥लिखित्वा लेखयित्वा वा यः शास्त्रमिदमर्चयेत्स विष्णुपूजनस्यैव फलं प्राप्नोति मानवः ॥५४॥इदमतिशयगुह्यं निःसृतं व्यास वक्त्राद् ??चिरतरपुराणं प्रीतिदं वैष्णवानाम्चिरममरवराद्यैर्वंदितांघ्रेर्मुरारेः सकलभुवनभर्त्तुश्चक्रिणः प्रीतयेऽस्तु ॥५५॥इति श्रीपद्मपुराणे क्रियायोगसारखण्डे व्यासजैमिनिसंवादे युगधर्मनिरूपणपूर्वकं पुराणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP