क्रियाखण्डः - अध्यायः १७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


जैमिनिरुवाच-
पुनरेव गुरो ब्रूहि माहात्म्यं कमलापतेः
हरेः कथामृतं पीत्वा तृप्तिर्वै कस्य जायते ॥१॥
श्रीव्यास उवाच-
त्वत्तुल्यः कोऽपि संसारे सुकृती न हि विद्यते
यतः केशवमाहात्म्यं श्रोतुमिच्छसि भक्तितः ॥२॥
नारायणकथा रम्या पुनात्येवं जगत्त्रयम्
श्रोतारं पृच्छकं चैव वक्तारं च द्विजोत्तम ॥३॥
शृणु लक्ष्मीपतेर्वत्स माहात्म्यं पापनाशनम्
कथयामि समासेन चतुर्वर्गफलप्रदम् ॥४॥
भक्त्या परमया विष्णुमेकाहमपि योऽर्चयेत्
जन्मकोटिकृतं पापं सद्यस्तस्य हरेद्धरिः ॥५॥
पुण्यात्मा स कथं मर्त्यो येन नाराधितो हरिः
स कथं पातकी यस्य भक्तिर्नारायणे प्रभौ ॥६॥
अस्ति सर्वपुरश्रेष्ठं पुरुषोत्तमसंज्ञकम्
पुरं सर्वगुणैर्युक्तं सर्वदेव गणाश्रयम् ॥७॥
सर्वेषामेव तीर्थानां वरिष्ठं तन्निगद्यते
यतस्तस्मिन्पुरे रम्ये साक्षाद्वसति केशवः ॥८॥
तत्र भद्रतनुर्नाम पूर्वमेकोऽभवद्द्विजः
सुन्दरः प्रियवादी च पवित्रकुलसंभवः ॥९॥
संप्राप्तयौवनो विप्रः सुंदरः काममोहितः
परलोकभयं त्यक्त्वा वारस्त्रीनिरतोऽभवत् ॥१०॥
न वेदाध्ययनं चक्रे पुराणानि च सर्वशः
तत्याजोत्तमसंज्ञां च पाखंडजनसङ्गमात् ॥११॥
अयाज्यदानग्राही च परद्रव्यापहारकः
अभवद्धर्मनिन्दी च स विप्रः पापतत्परः ॥१२॥
तत्याज ब्राह्मणाचारं तथैव सत्यभावनम्
गुरूणामतिथीनां च पूजनं ब्राह्मणाधमः ॥१३॥
यद्यत्पापतरं कर्म तत्तदेव विधीयते
न च पुण्यतमं कर्म कदाचित्तेन जैमिने ॥१४॥
एकदा कृतपापोऽसौ लोकलज्जाभयान्वितः
श्राद्धं चकार विप्रो वै श्राद्धभक्तिविवर्जितः ॥१५॥
वारनारीमिति प्राह गतः स निशि तद्गृहम्
ब्राह्मण उवाच-
एतद्विशालजघने पितृश्राद्धदिनं मम ॥१६॥
आयातस्त्वद्गुणैर्बद्धस्तथापि निलयं तव
पश्य रात्रिमिमां कांते सर्वलोकभयावहाम् ॥१७॥
स्रवदंबुदसंघातं परिव्याप्तं नभःस्थलात्
नवांबुलुप्तमार्गायां त्वद्गुणाकृष्टमानसः ॥१८॥
अस्यामपि विभावर्यां तवाहं गृहमागतः
मेघविद्युत्प्रतीपेन कामेनार्थोपदेशिना ॥१९॥
त्वद्गुणाध्यानविश्वास आगतोऽहं निशि प्रिये
त्वामदृष्ट्वा क्षणमपि प्रीतिर्मे नहि जायते ॥२०॥
अपि दुःखेन हे तन्वि त्वां द्रष्टुमहमागतः
तीर्थतोयाभिषेकेन कांते किं मे प्रयोजनम् ॥२१॥
त्वत्प्रेमतीर्थतोयेन सिक्तः प्राप्तोऽस्म्यहं दिवि
परत्र सुखदां सेवामाराध्य मम किं फलम् ॥२२॥
जीवतैव मया स्वर्गः प्राप्यते त्वत्प्रसादतः
अपकीर्तिभयात्कांते श्राद्धकर्मकृतं गृहे ॥२३॥
अस्मिञ्छ्राद्धे मम श्रद्धा स्वल्पापि न हि गम्यते
त्वं मे जपस्तपस्त्वं मे त्वं मे नीतिश्च सुन्दरि ॥२४॥
त्वामेकामेव संसारे सर्वभावेन सुन्दरि
प्रपन्नोऽसि सदाऽहं ते आज्ञापय करोमि किम् ॥२५॥
सुमध्यमोवाच-
त्वया पुत्रेण तातस्तु पुत्रहीन इवाभवत्
पितृश्राद्धदिनेऽपि त्वं मैथुनं कर्त्तुमिच्छसि ॥२६॥
दुर्मते मैथुनं यस्तु कुरुते पितृवासरे
रेतोभोजिन एव स्युः पितरस्तस्य सोऽपि च ॥२७॥
कुरुते मैथुनं मूढो मोहात्पितृदिने यदि
तच्छ्राद्धं राक्षसग्राह्यं भवेन्नास्त्यत्र संशयः ॥२८॥
मय्यद्धा गदितं यत्ते यथा स्नेहेन मानसम्
तथा यदि भवेद्विष्णौ तदा प्राप्नोति किं नहि ॥२९॥
यमदंडांतरस्थायि जीवितं च शरीरिणाम्
तथापि पातकं मूढ कुरुषे निर्भयः सदा ॥३०॥
जलबुद्बुदवन्मूढः क्षणविध्वंसि जीवितम्
किमर्थं शाश्वतधिया कुरुषेच्छुरितं सदा ॥३१॥
ललाटे लिखितं यस्य मृत्युरित्यक्षरद्वयम्
स कथं कुरुते पापं समस्तक्लेशदायकम् ॥३२॥
अहो माया महाविष्णोरेका बलवती क्षितौ
यतः पापं प्रकुर्वाणः सततं हर्षितो द्विज ॥३३॥
स्थानं पापाय मे देहि निजदेहे दुराश्रये
दहत्याश्रममेधो हि वीतिहोत्र इव ज्वलन् ॥३४॥
व्यास उवाच-
दैवप्रेरितपापाच्च तयेत्युक्तं सुवेश्यया
मनसा चिंतयामास ब्राह्मणः कृतपातकः ॥३५॥
धिग्धिङ्मां च महापापं मूढं पातकिनां वरम्
वेश्याया एव तज्ज्ञानं तन्मे नास्ति दुरात्मनः ॥३६॥
ब्राह्मणस्य कुले शुद्धे जन्म संप्राप्य वै मया
आत्मघातकरं पापं नित्यमेव कृतं महत् ॥३७॥
जातो यदा ध्रुवो मृत्युर्मृते स्वामी यदा यमः
अविवेकतया पापं कथं तर्हि करोम्यहम् ॥३८॥
जपस्तपस्तथा होमो वेदाध्ययनमेव च
विप्राचारोऽतिथेः पूजा गुरुभक्तिर्द्विजार्चनम् ॥३९॥
पितृयज्ञादिकं कर्म पूजा च कमलापतेः
मया न चक्रे कस्माद्वै भविष्यत्युत्तमा गतिः ॥४०॥
मार्कंडेयं महात्मानं सर्वधर्मविदां वरम्
तुष्टाव स द्विजो वाचा प्रणम्य भुवि दण्डवत् ॥४१॥
ब्राह्मण उवाच-
नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीवनमोऽस्तुते
नारायणस्वरूपाय नमस्तुभ्यं महात्मने ॥४२॥
नमो मृकण्डपुत्राय सर्वलोकहितैषिणे
ज्ञानार्णवाय वै तुभ्यं निर्विकाराय वै नमः ॥४३॥
स्तुतस्तेनेति विप्रेण मार्कंडेयो महातपाः
उवाच परमप्रीतः सर्वशास्त्रार्थपारगः ॥४४॥
मार्कंडेय उवाच-
तव भक्त्याऽतितुष्टोऽस्मि महाभाग वरं वृणु
तवाभिलषितं सद्यः साधयिष्यामि नान्यथा ॥४५॥
ब्राह्मण उवाच-
अहं पापात्मनां श्रेष्ठो द्विजाचारविवर्जितः
परहिंसान्वितो नित्यं परस्त्रीनिरतः सदा ॥४६॥
मया मूढेन विप्रेन्द्र सदा पापं कृतं महत्
नामुत्रापि कृतं पुण्यं कदाचिदपि सादरम् ॥४७॥
संसारसागरे घोरे दुःखदेऽत्यंत भैरवे
कथं भवति निस्तारो महापातकिनो मम ॥४८॥
मार्कंडेय उवाच-
कृतपापोऽपि विप्रेन्द्र त्वं हि पुण्यात्मनां वरः
यतो बुद्धिरियं जाता त्वयि संसारदुर्ल्लभा ॥४९॥
पुण्यात्मनां पुण्यदृष्टिर्वर्धते प्रतिवासरम्
पापात्मनां पापदृष्टिर्वर्द्धते तु दिनेदिने ॥५०॥
पापत्मनापि भवता पापदृष्टिर्निवार्यते
अतस्तुभ्यं जगन्नाथः प्रसन्न इव लक्ष्यते ॥५१॥
पापं कृत्वापि यो मर्त्यः पापाद्भूयो निवर्तते
तमुत्तरं नरं प्राहुः पूर्वजन्मार्चिताच्युतम् ॥५२॥
निजभक्तं महाविष्णुर्दृष्ट्वा पापरतं प्रभुः
ददाति विपुलां बुद्धिं यथा भवति सद्गतिः ॥५३॥
अतस्त्वं ब्राह्मणश्रेष्ठ प्रतिजन्माच्युतार्चकः
अचिरेणैव भद्रं ते भविष्यति न संशयः ॥५४॥
यद्यत्पृष्टं त्वया विप्र मत्तः श्रोष्यसि तं नहि
यतो नित्यक्रियाकालो मम संप्रति वर्तते ॥५५॥
दांतोनाम द्विजः कश्चिदस्ति सर्वार्थतत्ववित्
कथयिष्यति तत्सर्वं स च तस्याश्रमं व्रज ॥५६॥
तेनोपदिष्टोऽसौ विप्रो मार्कंडेयेन धीमता
दांताश्रमं ययौ क्षिप्रं पवित्रमतिसुन्दरम् ॥५७॥
अश्वत्थैश्चंपकैश्चैव बकुलैः प्रियकैस्तथा
अन्यैश्च पुष्पितैर्वृक्षैः शोभितं सुमनोहरम् ॥५८॥
प्रफुल्लकुसुमामोदं परिव्याप्तदिगंतरम्
गुञ्जद्भ्रमरसंघातं फलशब्दातिशब्दितम् ॥५९॥
मन्दंमन्दं वहद्वायुशीतलं चैव वारि च
शतश्वापदसंकीर्णं शिष्योपशिष्यसंकुलम् ॥६०॥
तस्याश्रमं ततो विप्रः प्रविश्यातिमनोहरम्
ददर्श दांतं तत्वज्ञं सर्वशिष्यगणैर्वृतम् ॥६१॥
स्तुत्वा तं ब्राह्मणश्रेष्ठ दांतं नारायणात्मकम्
ववंदे चरणौ तस्य शिरसा स द्विजोत्तमः ॥६२॥
दांत उवाच-
कस्त्वं भद्र समायातः किमस्त्यत्र प्रयोजनम्
ब्रूहि तत्त्वं तु मां स्तौषि हेतुना केन सांप्रतम् ॥६३॥
भद्रतनुरुवाच-
ब्राह्मणोऽहं महाभाग ब्राह्मणाचारवर्जितः
नाम्ना भद्रतनुः ख्यातो विहिताखिलपातकः ॥६४॥
संसारपापविच्छेदः कथं मे पापिनो भवेत्
एतन्मे कथय ब्रह्मन्यतस्त्वं सर्वतत्ववित् ॥६५॥
दांत उवाच-
शृणु विप्र परं गुह्यं तवस्नेहान्मयोच्यते
येन संसारपाशस्य विच्छेदो भवते नृणाम् ॥६६॥
त्यज पाखंडसंसर्गं संगं भज सतां सदा
कामं क्रोधं च मोहं च लोभं च दर्पमत्सरौ ॥६७॥
असत्यं परहिसां च त्यज यत्नादपि द्विज
स्मरन्नामानि सततं महाविष्णोर्महात्मनः ॥६८॥
संमार्जनं द्विजश्रेष्ठ तथोपलेपनं पुनः
मार्गशोभां च दीपं च केशवायतने कुरु ॥६९॥
कुरु ब्राह्मणसेवां च ज्ञातिसेवां च सर्वदा
कुर्वन्न तोयदानं च नित्यं पंचमहाध्वरान् ॥७०॥
कथां शृणु हरेर्मंत्रं जप त्वं द्वादशाक्षरम्
कर्माण्येतानि सवाणि कुर्वतस्तव सत्तम ॥७१॥
भविष्यत्युत्तमं ज्ञानं ज्ञानान्मोक्षमवाप्स्यसि ॥७२॥
ब्राह्मण उवाच-
यान्येतानि त्वया ब्रह्मन्प्रोक्तानि शुभदानि वै
तेषां विवरणं ब्रूहि किं मोहो दंभमत्सरौ ॥७३॥
किमसत्यं च का हिंसा दयाशांतिर्दमश्च कः
समदृष्टिश्च का प्रोक्ता का पूजा कमलापतेः ॥७४॥
अहोरात्रश्च कः प्रोक्तः किं विष्णुस्मरणं तथा
के वा पंचमहायज्ञाः को मंत्रो द्वादशाक्षरः ॥७५॥
एषां विवरणं सर्वं ब्रूहि ब्राह्मणसत्तम
तथा तव प्रसादेन प्राप्नोमि परमं पदम् ॥७६॥
दांत उवाच-
ये वेदसंमतं कार्यं त्यक्त्वान्यत्कर्म कुर्वते
निजाचारविहीना ये पाखंडास्ते प्रकीर्तिताः ॥७७॥
निजाचारग्राहिणो ये कुर्वते वेदसंमतम्
पापाभिलाषरहिताः सज्जनास्ते प्रकीर्तिताः ॥७८॥
योऽभिलाषः सदा स्त्रीषु विभवोपार्जनादिषु
वर्त्तते ब्राह्मणश्रेष्ठ स काम इति कथ्यते ॥७९॥
समाकर्ण्यात्मनो निन्दां यस्तापो हृदि जायते
स क्रोध इति विज्ञेयः सर्वधर्मावघातकः ॥८०॥
परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते
अभिलाषो द्विजश्रेष्ठ स लोभ इति कीर्तितः ॥८१॥
मम माता मम पिता ममेयं गृहिणी गृहम्
एतदन्यन्ममत्वं हि स मोह इति कीर्तितः ॥८२॥
अहं महात्मा धनवान्न तुल्यः कोऽपि भूतले
इदं यज्जायते चित्ते मदः प्रोक्तः स कोविदैः ॥८३॥
निंदंति मां सदा लोका धिगस्तु मम जीवनम्
इत्यात्मानं वदेद्यस्तु धिक्कारः स च मत्सरः ॥८४॥
यथार्थकथनं यच्च सर्वलोकसुखप्रदम्
तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् ॥८५॥
ऐश्वर्यं दारपुत्राद्या यान्त्यमुष्यकदा क्षयम्
इति या जायते चित्ते सा हिंसा परिकीर्तिता ॥८६॥
यत्नादपि परक्लेशं हर्तुं यद्धृदि जायते
इच्छाभूमिर्द्विजश्रेष्ठ सा दया परिकीर्तिता ॥८७॥
या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः
कुत्सितात्कर्मणोऽन्यत्र यच्चित्ताविनिवारणम् ॥८८॥
संकीर्तितो दमः प्राज्ञैः संमतस्तत्वदर्शिभिः
दुःखे सुखे च विप्रेन्द्र या तुष्टिर्वर्तसे सदा ॥८९॥
तथा शत्रौ च मित्रे च समदृष्टिर्हि सा स्मृता
नैवेद्यगंधपुष्पाद्यैः श्रद्धया पुरुषो हरेः ॥९०॥
योऽर्चनं कुरुते विप्र सा पूजा परिकीर्तिता
मध्याह्ने चैव रात्रौ च लंघनं यद्विधीयते ॥९१॥
तद्विज्ञेयमहोरात्रं पूर्वापरदिनाशनम्
आत्मनः केशवस्यापि द्वयोरपि च सत्तम ॥९२॥
यदेकीकरणं तच्च विष्णुस्मरणमुच्यते
ब्रह्मयज्ञो नृयज्ञश्च देवयज्ञश्च सत्तम ॥९३॥
पितृयज्ञो भूतयज्ञः पंचयज्ञाः प्रकीर्तिताः
नमो भगवते वासुदेवायोङ्कारपूर्वकम् ॥९४॥
महामंत्रमिमं प्राहुस्तत्वज्ञा द्वादशाक्षरम्
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम ॥९५॥
यज्ज्ञात्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम्
ततः प्रतिदिनं विप्र नाम्नामष्टोत्तरं शतम् ॥९६॥
पठित्वा कमलाभर्तुर्दुर्ल्लभं मोक्षमाप्स्यसि
भद्रतनुरुवाच-
ब्रूहि लक्ष्मीपतेर्विष्णोर्नाम्नामष्टोत्तरं शतम् ॥९७॥
दांत उवाच-
शृणु विप्र प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम्
सहस्रनाम चाकृष्य सारं विष्णोः परात्मनः ॥९८॥
अष्टोत्तरशतं नाम्नां महापातकनाशनम्
पठितव्यं यथा ध्यात्वा शृणु ध्यानं मयोच्यते ॥९९॥
अतसीकुसुमाकारं प्रफुल्लकमलेक्षणम्
गवांचरणधूलीभिर्भूषिताखिलविग्रहम् ॥१००॥
गोपुच्छवालपाशेन मंडितोत्तममस्तकम्
वंशीध्वनिपरिन्यस्तरुचिरौष्ठपुटं प्रभुम् ॥१०१॥
गोगोष्ठवासिभिः स्निग्धैः शिशुभिः परिवारितम्
पीतांबरं स्मरमुखं ध्यायेत्कृष्णास्यमुत्तमम् ॥१०२॥
ॐनमोऽस्य कृष्णाष्टोत्तरशतनाम्नां वेदव्यासऋषिरनुष्टुप्छंदः
श्रीकृष्णो देवता श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥१०३॥
नमः कृष्णः केशवश्च केशिशत्रुः सनातनः
कंसारिर्धेनुकारिश्च शिशुपालरिपुः प्रभुः ॥१०४॥
देवकीनन्दनः शौरिः पुण्डरीकनिभेक्षणः
दामोदरो जगन्नाथो जगत्कर्ता जगन्मयः ॥१०५॥
नारायणो बलिध्वंसी वामनोऽदितिनन्दनः
विष्णुर्यदुकुलश्रेष्ठो वासुदेवो वसुप्रदः ॥१०६॥
अनंतः कैटभारिश्च मल्लजिन्नरकांतकः
अच्युतः श्रीधरः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः ॥१०७॥
गोविन्दो वनमाली च हृषीकेशोऽखिलार्तिहा
नृसिंहो दैत्यशत्रुश्च मत्स्यदेवो जगन्मयः ॥१०८॥
भूमिधारी महाकूर्मो वराहः पृथिवीपतिः
वैकुण्ठः पीतवासाश्च चक्रपाणिर्गदाधरः ॥१०९॥
शंखभृत्पद्मपाणिश्च नन्दकी गरुडध्वजः
चतुर्भुजो महासत्वो महाबुद्धिर्महाभुजः ॥११०॥
महोत्सवो महातेजा महाबाहुप्रियः प्रभुः
विष्वक्सेनश्च शार्ङ्गी च पद्मनाभो जनार्दनः ॥१११॥
तुलसी वल्लभोऽपारः परेशः परमेश्वरः
परमक्लेशहारी च परत्र सुखदः परः ॥११२॥
हृदयस्थोंऽबरस्थो यो मोहदो मोहनाशनः
समस्तपातकध्वंसी महाबलबलांतकः ॥११३॥
रुक्मिणीरमणो रुक्मिप्रतिज्ञाखण्डनो महान्
दामबद्धः क्लेशहारी गोवर्द्धनधरो हरिः ॥११४॥
पूतनारिर्मुष्टिकारिर्यमलार्जुनभञ्जनः
उपेन्द्रो विश्वमूर्तिश्च व्योमपादः सनातनः ॥११५॥
परमात्मा परब्रह्म प्रणतार्तिविनाशनः
त्रिविक्रमो महामायो योगविद्विष्टरश्रवाः ॥११६॥
श्रीनिधिः श्रीनिवासश्च यज्ञभोक्ता सुखप्रदः
यज्ञेश्वरो रावणारिः प्रलंबघ्नोऽक्षयोऽव्ययः ॥११७॥
सहस्रनाम्नां चैतत्ते नाम्नामष्टोत्तरं शतम्
विष्णुप्रीतिकरं सर्वं सर्वपापविनाशनम् ॥११८॥
दुःस्वप्ननाशनं चैव ग्रहपीडाविनाशनम्
सर्वरोगक्षयकरं परमैश्वर्यदं तथा ॥११९॥
सर्वोपद्रवविध्वंसि सर्वकर्मफलप्रदम्
मया प्रोक्तं द्विजश्रेष्ठ वैष्णवप्रीतिहेतवे ॥१२०॥
त्रिसंध्यं यः पठेन्नित्यं भक्तितः पुरतो हरेः
शतमष्टोत्तरशतं नाम्नां तुष्टः सदा हरिः ॥१२१॥
श्राद्धे च यःपठेदेतद्भक्तिमान्वैष्णवो जनः
संतुष्टाः पितरस्तस्य प्रयांति परमं पदम् ॥१२२॥
यज्ञकाले पठेद्यस्तु देवताराधने तथा
दानकाले च यात्रायां स वै तत्फलमाप्नुयात् ॥१२३॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम्
विद्यार्थी लभते विद्यां स्तवस्यास्य प्रकीर्तनात् ॥१२४॥
ये पठंति हरेर्भक्त्या नाम्नामष्टोत्तरं शतम्
नाशुभं विद्यते तेषां कदाचिदपि भूतले ॥१२५॥
दांत उवाच-
गच्छ ब्राह्मण भद्रं ते प्रोक्तेन विधिना मया
समाराध्य हरिं भक्त्या परमं क्षेममाप्स्यसि ॥१२६॥
एवं प्रबोधितस्तेन दांतेन परमार्थिना
तस्मिन्क्षेत्रवरे पुण्ये हरिपूजापरोऽभवत् ॥१२७॥
नित्यं तु भक्त्या विप्रोऽसौ पंचाहानि च जैमिने
दांतप्रोक्तेन विधिना चकार हरिपूजनम् ॥१२८॥
ज्ञात्वा भक्तिं हरिस्तस्य सुदृढां करुणामयः
आविर्बभूव सहसा कोटिसूर्यइवांशुमान् ॥१२९॥
तं दृष्ट्वा जगतामीशं कमलाप्रियमच्युतम्
ववंदे शिरसा विप्रस्तत्पादकमलद्वये ॥१३०॥
अथासौ ब्राह्मणश्रेष्ठो हर्षनिर्भरमानसः
कृताञ्जलिर्जगन्नाथमस्तौषीत्कमलापतिम् ॥१३१॥
दृष्टिं हरे दुरितगामपि मे कृपालां भक्तिं निजां प्रति विभो शुभदामनैषीः
तस्मादहं विहितविस्तरपातकोऽपि ग्राम्यस्त्वयाकारि पुमानिवाद्य ॥१३२॥
रुष्टे त्वयि त्रिदशवंदितपादयुग्मे दृष्टिः प्रयाति दुरितं खलु मानवस्य
तुष्टे च याति सुकृतं प्रति सैव दृष्टिर्ज्ञातं मयैव परमेश्वर केवलं च ॥१३३॥
त्वां वच्मि नाथ भवतः स्मरणं प्रभावं यस्माद्व्रजामि निखिलार्जितपातकोऽपि
स्थानं जगाम परमं त्रिदशैकलभ्यमारुह्य शुद्धकनकच्छुरितं विमानम् ॥१३४॥
त्वत्पादपद्मसलिलस्य सदागुणाढ्यो व्याधः स वेत्ति कनिकः कृतसर्वपापः
त्वद्वेश्ममार्जनफलं जगदेकनाथ यज्ञध्वजः क्षितिपतिः सुरवंदितश्च ॥१३५॥
वेश्मोपलेपनफलं भवतो मुरारे सृष्टिस्थितिप्रलयकारण ईश्वरस्य
जानाति पन्नग रिपुध्वज यज्ञमाली भ्राता च तस्य कृतपापभयः सुमाली ॥१३६॥
हरिं प्रदक्षिणीकृत्य भवंतं यत्फलं भवेत्
धर्म एव स जानाति नान्यः कश्चिज्जगत्त्रये ॥१३७॥
तव चित्तं दयां नाथ गदितुं भुवि कः क्षमः
त्वां विद्ध्वापि शरैर्व्याधो जगाम परमं पदम् ॥१३८॥
निंदित्वापि जगन्नाथ भवंतं त्रिदशेश्वरम्
शिशुपालो ययौ मोक्षं तव भक्तस्य का कथा ॥१३९॥
ब्रह्मरूपेण येनासौ त्वया सृष्टमिदं जगत्
त्वयि तस्मिन्महाविष्णो रमतां मम मानसम् ॥१४०॥
सर्वो विष्णो त्वयानेन क्रियते जगतः क्षयः
रुद्र रूपेण संसारे तस्मै तुभ्यं नमोऽस्तु मे ॥१४१॥
यस्मादल्पतमं नास्ति यस्मान्नास्ति महत्तमम्
येन व्याप्तं जगत्सर्वं त्वया तस्मै नमोऽस्तु ते ॥१४२॥
नेत्राभ्यां यस्यदेवस्य सूर्योऽजनि दिवाकरः
मुखादग्निश्च जायेत तव तस्मै नमोऽस्तु ते ॥१४३॥
यस्य श्रोत्राद्वायवोऽपि जाताः प्राणाश्च केशव
तव तस्मै सुरश्रेष्ठ नमोऽस्तु मम सर्वदा ॥१४४॥
लक्ष्मीर्यस्य सदा क्रोडे श्यामाङ्गस्य सुनिर्वृता
सौदामिनीव मेघस्य तव तस्मै नमोऽस्तु ते ॥१४५॥
गंतुं महिम्नां सीमानं ब्रह्माद्या अपि निर्जराः
न शक्नुवंति वै यस्य तव तस्मै नमोऽस्तु ते ॥१४६॥
धर्माणां स्थापनार्थाय विनाशाय च पापिनाम्
युगेयुगे यः प्रभवेत्तस्मै तुभ्यं नमोऽस्तु मे ॥१४७॥
मायया मोहितं येन जगदेतन्महात्मना
क्षिणोति मायया शंभुर्यस्तस्मै ते नमोऽस्तु मे ॥१४८॥
भक्तिमात्रेण यस्तुष्टो न धनैर्न स्तवैस्तथा
न दानैर्न तपोभिश्च तस्मै तुभ्यं नमोऽस्तु मे ॥१४९॥
गवां च ब्राह्मणानां च साधूनां च हितं तथा
कृपां च कुरुते यस्तु तस्मै तुभ्यं नमोऽस्तु मे ॥१५०॥
अनाथानां च बंधूनां योगिनां दुःखिनां तथा
दुःखं हरति यो देवस्तस्मै तुभ्यं नमोऽस्तु मे ॥१५१॥
मनुष्येषु च देवेषु गजेषु सकलेषु च
वर्तते यः समत्वेन तस्मै तुभ्यं नमोऽस्तु मे ॥१५२॥
यस्मिंस्तुष्टे पर्वतोऽपि सद्य एव तृणायते
शैलीयते तृणं रुष्टे तस्मै तुभ्यं नमोऽस्तु मे ॥१५३॥
पुण्यानां च यथा पुण्ये निजे पुत्रे यथा पितुः
यथा पत्यौ सतीनां च तथा त्वयि ममास्तु वै ॥१५४॥
यूनां चित्तं यथा स्त्रीषु लुब्धानां च यथा धने
क्षुधितानां यथा चान्ने तथा त्वयि ममास्तु वै ॥१५५॥
घर्मार्तानां यथा चन्द्रे शीतार्तानां रवाविति
तृषार्तानां यथा तोये तथा त्वयि ममास्तु वै ॥१५६॥
यन्मया बुद्धिहीनेन गुरुस्त्रीगमनं कृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१५७॥
अवध्यानां वधो यस्तु मायामोहवता कृतः
तत्पातकं क्षयं यातु भवंतंपश्यतो मम ॥१५८॥
अपेयपानं च मया विहितं परमेश्वर
तत्पातकं क्षयं यातु भवं तं पश्यतो मम ॥१५९॥
अप्सुयोनौ तथा तोये यद्रेतः सेचनं कृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६०॥
भ्रूणहत्या कृता या च रेतसां सेचनं भुवि
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६१॥
विश्वासघातकं यञ्च अज्ञात्वा मा यया कृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६२॥
असत्यवचनं यच्च मया प्रोक्तं क्षणे क्षणे
तत्पातकं क्षयं यातु भवंतं पश्यतोमम ॥१६३॥
सतां निंदा कृता या च परहिंसा च सर्वदा
तत्पातकं क्षयंयातु भवंतं पश्यतो मम ॥१६४॥
श्लेष्मा च कफकं चैव यद्वक्त्रे च मया कृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६५॥
वनस्पतिगते सोमे यत्कृतं तरुघातनम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६६॥
पथि देवालये गोष्ठे मूलमंत्रं च यत्कृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६७॥
अभक्तिर्वितता या च पितुर्मातुश्च केशव
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१६८॥
स्नानार्थं भोजनार्थं च गच्छन्यस्तु निवारितः
तत्पातकंक्षयंयातुभवंतंपश्यतोमम ॥१६९॥
एकादश्यांसुरश्रेष्ठयन्मयाभोजनंकृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७०॥
अतिथिर्गृहमागच्छन्पूजितो न मया प्रभो
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७१॥
द्वादश्यां च दशम्यां च कृतं यच्च द्विभोजनम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७२॥
निवारणं कृतं यच्च पानार्थं धावती गवाम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७३॥
असमाप्य परित्यक्तं व्रतमारभ्य यन्मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७४॥
कूटसाक्ष्यं निरुक्तं यन्मित्रवात्सल्यतो मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७५॥
ऋतुकालाभिगमनं निजपत्न्यां कृतं न यत्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७६॥
असंस्कृते गृहे यच्च भोजनं विहितं मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७७॥
ग्रामयाचकवृत्तिश्च या मया नृहरे कृता
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७८॥
दण्ड्यमाने मया भूपे प्रभुत्वं यत्कृतं प्रभो
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१७९॥
पौराणिककथामध्ये यो विघ्नो विहितो मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८०॥
आदरेण मया या च परपाककथा श्रुता
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८१॥
अश्वत्थच्छेदनं यच्च धात्र्याश्च च्छेदनं कृतम्
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८२॥
दधिदुग्धघृतानां च विक्रयो यः कृतो मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८३॥
आशां दत्वा परेभ्यश्च कृता सा निष्फला मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८४॥
द्विजाश्च याचकाश्चैव कोपदृष्ट्या मयेक्षिताः
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८५॥
जीवनोपायदातारः कोपान्निर्भर्त्सिता मया
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ॥१८६॥
बहुनात्र किमुक्तेन बहुजन्मार्जितानि च
क्षयं गतानि पापानि भवंतं पश्यतो मम ॥१८७॥
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं जगत्पते ॥१८८॥
इत्युक्त्वाऽसौ द्विजो भक्त्या पुलकांचितविग्रहः
पपात जैमिने विष्णोश्चारुपादांबुजद्वये ॥१८९॥
श्रीभगवानुवाच-
उत्तिष्ठोत्तिष्ठ ते विप्र तुष्टोऽस्मि तव भक्तितः
किंतेऽभिलषितं ब्रूहि तत्ते दास्याम्यहं ध्रुवम् ॥१९०॥
भद्रतनुरुवाच-
परमेश्वरगोविन्द दयालो परमाच्युत
यत्संप्रति मया प्राप्तं तत्केन भुवि लभ्यते ॥१९१॥
तथाप्येकं वरं याचे मुरारे तव सन्निधौ
जन्मजन्मनिमे भक्तिस्त्वय्यस्तु सुदृढा प्रभो ॥१९२॥
मया कृतमिदं स्तोत्रं यः पठेद्भक्तितो नरः
तस्याभिलषितं सर्वं प्रसन्नस्त्वं प्रदास्यसि ॥१९३॥
श्रीभगवानुवाच-
दत्तोऽयं ते वरः कोऽपि विप्र नास्त्यत्र संशयः
किंतु त्वया सह प्राज्ञ सख्यं कर्तुं मयेष्यते ॥१९४॥
न मे सेवकयोग्यास्ते भवानहमिह द्विज
अतः सख्यं प्रविवृतं त्वया सह मयाधुना ॥१९५॥
व्यास उवाच-
ततो नारायणो देवो दयालुर्भक्तवत्सलः
चकार जैमिने सख्यं तेन पुण्यात्मना सह ॥१९६॥
निजकण्ठगतां मालां ददौ तस्मै मुदा हरिः
सोऽपि विप्रो ददौ भक्त्या हरेस्तुलसिकास्रजम् ॥१९७॥
प्रसार्य चतुरो बाहूंस्तमालिंगितवान्हरिः
स विप्रोऽपि मुदा विष्णुं तमालिंगितवान्प्रभुः ॥१९८॥
इत्थं कृत्वा हरिः सख्यं तेनाग्रजन्मना सह
भक्तिग्राही दयालुः स तत्रैवांतरधीयत ॥१९९॥
ततः प्रतिदिनं तत्र क्षेत्रे च पुरुषोत्तमे
आरेभे कंदुकक्रीडां हरिस्तेनाग्रजन्मना ॥२००॥
कदाचिद्दुर्बलं दृष्ट्वा तं विप्रं करुणामयः
उवाच वाचं विप्रर्षेमित्रवात्सल्यतो हरिः ॥२०१॥
श्रीभगवानुवाच-
सखे कथं दुर्बलस्त्वं हृतं केन धनं तव
हृदि का वा च ते चिन्ता सखे तद्वक्तुमर्हसि ॥२०२॥
भद्रतनुरुवाच-
त्वत्प्रीतये जगन्नाथ नित्यमेव मया तपः
क्रियते तेन मे गात्रं याति दुर्बलतां प्रभो ॥२०३॥
श्रीभगवानुवाच-
यथा त्वयि प्रसन्नोऽस्मि कस्मिंश्च न तथा सखे
कायक्लेशं पुनः कस्मात्करोषि द्विजसत्तम ॥२०४॥
दुर्बलं त्वां समालोक्य हृदि मे जायते व्यथा
कायक्लेशमतः सर्वं जहीहि द्विजसत्तम ॥२०५॥
निजोत्तरीयैर्निजवस्त्रभूषण्सुचारुचामीकरकुड्मलाभ्याम्
स्वहस्तराजद्वलयैश्च विप्रः स्वयं सुरेशेन च मंडितोऽसौ ॥२०६॥
किरीटमानीय निजाल्ललाटात्पादाच्च पादांगदयुग्ममीशः
सुवर्णहारं निजकंठदेशात्तस्मै ददौ विप्रवराय कृष्णः ॥२०७॥
तैर्भूषणैः श्रीहरिणा प्रदत्तैर्विभूषितोऽयं सुकृती द्विजन्मा
क्रीडेत्सदा कंदुककेलिवेत्ता कृष्णेन कृष्णांबुजसुंदरेण ॥२०८॥
तमेकदा भूषणभूषिताड्गं तांबूलरागारुचिरोष्ठयुग्मम्
दिव्यांबरं चारुतरोत्तरीयं स्मेराननं तत्र ददर्श दांतः ॥२०९॥
दांत उवाच-
भद्र भद्रतनोऽद्यापि पापदृष्टिं न मुंचसि
दृष्ट्वापि भवतः कार्यं निंदितं सकलैर्जनैः ॥२१०॥
शिष्यः कृतस्त्वं यस्मान्मे सर्वमेव हि भूषणम्
अहंयुश्चापि दुःशीलो निर्दयः पापतत्परः ॥२११॥
गुरुकीर्तिविनाशी च पंचैते शिष्यपांसुलाः
अभक्तो बहुभाषी च तथा चंचलमानसः ॥२१२॥
परोक्षगुरुनिंदाकृत्प्रोक्ताः शिष्याधमा इमे
चरित्रमुत्तमं ज्ञात्वा शिष्यः कार्यो विचक्षणैः ॥२१३॥
यतो दुर्जनगा विद्या गुरूणां चापि दुःखदा
कीर्तिदास्तैश्च या विद्या निरुक्तास्तत्वदर्शिभिः ॥२१४॥
ता वै दुर्जनगाः सद्यो गुरोर्घ्नंति यशस्तरुम्
पापेभ्यः पुण्यकर्माणि न रोचंते कदापि च ॥२१५॥
न रोचते मक्षिकाभ्यः सुगन्धिचंदनं यथा
यथा मिष्टान्नपानेन न हि तृप्यंति गर्दभा ॥२१६॥
दुर्जना न हि तृप्यंति यथा धर्मस्य चिंतया
अपकीर्तिभयाल्लक्ष्मीर्धर्मश्च सर्वकामदः ॥२१७॥
कदाचिन्न भजेद्दुष्टं भजेद्वा गच्छति क्षयम्
प्रतिजन्मनि या विद्या भाग्येन लभते परा ॥२१८॥
कदाचिल्लभते वापि तदा त्वं तरते विधिः ॥२१९॥
भद्रतनुरुवाच-
सत्यं ब्रवीषि विप्रर्षे नास्मि शास्त्रविशारदः
मया शिष्येण ते क्वापि नापकीर्तिर्भविष्यति ॥२२०॥
त्वत्प्रसादाद्दिवजश्रेष्ठ सर्वाभिलषितं मम
सिद्धिं प्रतिगतं यस्मात्त्वमेको भुवि दुर्ल्लभः ॥२२१॥
दांत उवाच-
किं तेऽभिलषितं विप्र सिद्धिं प्रतिगतं वद
अचिरेणैव तपसां कथमुद्यापनं कृतम् ॥२२२॥
भद्रतनुरुवाच-
स्वल्पश्रमैरपि प्राप्तं मया संदर्शनं हरेः
यस्याज्ञया गुरो त्यक्तं मया नित्यक्रियादिकम् ॥२२३॥
निजोत्तरीयं वस्त्रं च सुवर्णकलशद्वयम्
स्वहस्तवलयं चापि स्वललाटकिरीटकम् ॥२२४॥
निजपादतुलाकोटिं निजमुक्तावलीं ददौ
तथा मे भगवान्विष्णुः सुप्रीतो द्विजसत्तम ॥२२५॥
मया सह स कृत्वास्ते सख्यं सेवकदुःखहा
करोमि कंदुकाक्रीडां गुरो तेन सहानिशम् ॥२२६॥
एतन्मे वचनं श्रुत्वा गच्छामि न हि यद्यपि
प्रतीत्या च मया प्रोक्तं तथापि तव सन्निधौ ॥२२७॥
दांत उवाच-
सप्तवर्षसहस्राणि भक्त्या परमया मया
आराधितोऽपि मे विष्णुर्दर्शनं न ददौ विभुः ॥२२८॥
अहो विष्णुं समाराध्य पंचाहान्येव सत्तम
त्वया संदर्शनं प्राप्तं दैवतैरपि दुर्ल्लभम् ॥२२९॥
धन्योऽसि त्वं कृतार्थोऽसि साक्षाद्देवस्त्वमुच्यते
यतस्त्वया सह स्वामी प्रेम्णा सख्यं चकार ह ॥२३०॥
यदा मयि तव स्नेहो विद्यते द्विजसत्तम
कथं कथय मे विप्र दुर्ल्लभं विष्णुदर्शनम् ॥२३१॥
व्यास उवाच-
इत्युक्तो गुरुणा विप्रो विपिने निजमाश्रमम्
जगाम विस्मितो धीमान्विष्णुभक्तिपरायणः ॥२३२॥
अथान्यस्मिन्दिने गत्वा कंदुकक्रीडनं कृतम्
उवाचेति जगन्नाथं दयालुं विनयान्वितः ॥२३३॥
भद्रतनुरुवाच-
गुरुर्हि मम देवेंद्र तव दर्शनमिच्छति
काज्ञा ते तिष्ठतो ब्रूहि दयालो कमलापते ॥२३४॥
एकांतभक्तो विप्रोऽसौ तव पद्मनिभेक्षण
अतस्तस्मै सुरश्रेष्ठ दर्शनं दातुमर्हसि ॥२३५॥
श्रीभगवानुवाच-
अनेकजन्म विप्रेन्द्र भक्त्या परमया त्वया
पूजितोऽहमतो दत्तं दर्शनं ते मयाऽधुना ॥२३६॥
कतिचिद्दिवसांतेन मामभ्यर्च्य द्विजः स च
मां द्रष्टुमिच्छति प्राज्ञस्त्वदृश्यं दैवतैरपि ॥२३७॥
मम सोऽपि महाभक्तो मत्सपर्यापरायणः
मम संदर्शनं तस्मात्कदाचिद्द्विज लप्स्यति ॥२३८॥
व्यास उवाच-
इति तस्य वचः श्रुत्वा स विप्रः कमलापतिम्
इत्युवाच पुनर्भक्त्या केशवं क्लेशनाशनम् ॥२३९॥
भद्रतनुरुवाच-
अनुग्रहोस्ति देवेश यदा मयि जगत्पते
तदा मे संमुखे देहि दर्शनं भक्तवत्सल ॥२४०॥
अयाचत गुरुर्देव तव दर्शनदक्षिणाम्
अहो मे गुरवे दत्वा दर्शनं पाहि मां प्रभो ॥२४१॥
श्रीभगवानुवाच-
यदा नूनं त्वयोत्सृष्टा मत्संदर्शनदक्षिणा
तदा गुरुं समानीय दर्शनं मम कारय ॥२४२॥
इत्याज्ञप्तस्ततस्तेन गुरोराश्रममुत्तमम्
ययौ भद्रतनुः प्रीत्या पुनः स्वगुरुरागतः ॥२४३॥
तस्मिन्विप्रे समायाते दान्ते दातृवरे हरिः
आत्मानं दर्शयामास सर्वलक्षणसंयुतम् ॥२४४॥
ततो हरिं समालोक्य स विप्रो हरिभक्तिकृत्
बद्धाञ्जलिस्तमस्तौषीद्धर्षबाष्पविलोचनः ॥२४५॥
दांत उवाच-
दयालो कमलाकांत शरणागतपालक
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥२४६॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः
अद्य मे सफलं सर्वं प्राप्तं त्वद्दर्शनं मया ॥२४७॥
पूर्वमालोचितं यद्यद्वचनं श्रीपते प्रभो
सिंधुकोटिगभीरस्य प्रसृतं पुरतस्तव ॥२४८॥
स्तोत्रं तन्नास्ति संसारे वागीशस्य जगत्पतेः
येन स्तोत्रेण ते प्रीतिं जनयिष्यामि चेतसि ॥२४९॥
रक्षरक्ष प्रभो रक्ष मां प्रसीद जगत्पते
त्वद्दासदासदासानां दासत्वेनापि मां वृणु
व्यास उवाच-
ततः प्रहस्य देवेशो भक्तिग्राही दयामयः
करारविंदं तन्मूर्ध्नि दत्वा प्राहेति जैमिने ॥२५०॥
श्रीभगवानुवाच-
मद्भक्तोऽसि द्विजश्रेष्ठ प्राप्तं मद्दर्शनं त्वया
मत्प्रसादेन भद्रं ते सर्वमेव भविष्यति ॥२५१॥
व्यास उवाच-
तमालिङ्ग्य ततो दांतं प्रेम्णा भद्रतनुं च तम्
तत्रैवांतर्दधे विप्र सहसा परमेश्वर ॥२५२॥
तस्मिन्क्षेत्रवरे पुण्ये दुर्ल्लभे पुरुषोत्तमे
क्रियायोगैर्हरिन्दृष्ट्वा दांतो धाम परं ययौ ॥२५३॥
सोऽपि भद्रतनुर्विप्रो हरिभक्तिपरायणः
आयुषोंते ययौ मोक्षं देवानामपि दुर्ल्लभम् ॥२५४॥
एकाहमपि यो भक्त्या पूजयेत्परमेश्वरम्
बहुजन्मकृतं पापं प्रीतिः संवर्द्धते हरौ ॥२५५॥
अद्यापि त्रिदशाः सर्वे ब्रह्माद्या अपि जैमिने
प्रभावं न हि जानंति हरिभक्तस्य भूतले ॥२५६॥
कर्मभूमिरियं विप्र स्वर्गादपि च दुर्ल्लभा
यत्र विष्णुं समभ्यर्च्य मर्त्याः स्युः सुरवंदिताः ॥२५७॥
शक्राद्यास्त्रिदशाः सर्वे सुपुण्यक्षयभीरवः
अन्योन्यमपि जल्पंतोऽनिशं च द्विजसत्तम ॥२५८॥
भूय एव गमिष्यामः कर्मभूमिं कदा वयम्
कदा तत्र करिष्यामः पूजां श्रीकमलापतेः ॥२५९॥
अतिधन्या इमे लोका अस्मत्तोऽपि महत्तराः
दुर्ल्लभे भारते वर्षे पूजयंति हरिं प्रभुम् ॥२६०॥
अहो भारतवर्षस्य कः शक्तो गुणभाषणे
यत्राराध्य हरिं पूर्वं वयं देवत्वमागताः ॥२६१॥
इत्थं देवगणाः सर्वे वासवाद्या द्विजोत्तम
नित्यं भारतभूभागं प्रशंसंति शुभप्रदम् ॥२६२॥
तत्र जन्म समासाद्य येन नाराधितो हरिः
तत्तुल्यः कोऽपि संसारे कोऽपि दृष्टः श्रुतो न च ॥२६३॥
सत्यं सत्यं पुनरपि गद्यते सत्यमेव तत्
विश्वात्मानं सकृदपि मानवा येऽर्चयंति च ॥२६४॥
अप्यश्रांतं द्विज सुदृढया कर्मभूमौ च भक्त्या
मुक्ताः पापैः सुकररचितैर्यांति कैवल्यमाशु ॥२६५॥

इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तमक्षेत्रे भद्रतनुवरप्रदानं
नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : October 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP