क्रियाखण्डः - अध्यायः १३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
ज्येष्ठे मासि द्विजश्रेष्ठ भगवंतं जनार्दनम्
पूजयेद्भक्तिभावेन जलैः संस्नाप्य शीतलैः ॥१॥
उद्वर्तनं च दातव्यं सुगन्ध्यामलकं तथा
तैलं सुंगंधं हरये ग्रीष्मकाले दिनेदिने ॥२॥
सुवासिते शीतले च मन्दिरेऽतिमनोरमे
प्रत्यहं कमलाकांतं स्थापयेज्जनमंडपे ॥३॥
न रौद्रदेशे विप्रेन्द्र सधूमे इंधनालये
न सूतिकागृहे चैव स्थापयेत्कमलापतिम् ॥४॥
चामरैर्वीजितः श्वेतैः सुदीर्घैः कमलापतिम्
ज्येष्ठे मासि द्विजश्रेष्ठ सुप्रीतः किं न यच्छति ॥५॥
मयूरपुच्छव्यजनैर्निदार्घैर्वीजितो हरिः
ददात्यभिमतं सर्वमचिरेणैव सत्तम ॥६॥
तालवृंतकवातेन पवित्रांबरवायुना
यै ग्रीष्मे वीज्यते विष्णुस्ते सर्वे स्वर्गगामिनः ॥७॥
यो गात्रलेपनं कुर्यात्सुगन्धीयैश्च कर्दमैः
ग्रीष्मे हरिं चंदनैश्च स विशेन्माधवीं तनुम् ॥८॥
उष्मागमे द्विजश्रेष्ठ स मुक्तो नात्र संशयः
प्रफुल्लकुसुमोद्याने तुलसीकानने तथा ॥९॥
संध्यायां स्थापयेद्विष्णुं देशे धीरसमीरणे
स्रग्भिः पाटलपुष्पाणां येन विष्णुरलंकृतः ॥१०॥
ज्येष्ठे मासि स विज्ञेयो अश्वमेधसहस्रकृत्
यस्तु मुक्तावलिं दद्याद्ग्रीष्मे वै श्रीपतेर्जनः ॥११॥
भूपालत्वं हरिस्तस्मै यच्छेज्जन्मनि जन्मनि
यस्तु मण्डयति ग्रीष्मे श्रीकृष्णं मणिमालया ॥१२॥
तस्य पुण्यफलं विप्र वदतो मे निशामय
यावद्ब्रह्मा सृजत्येतज्जैमिने सकलं जगत् ॥१३॥
तिष्ठेद्विष्णुपुरे तावन्मणिमालाविभूषितः
सुवर्णाभरणैर्यस्तु रजताभरणैस्तथा ॥१४॥
कृष्णं मंडयति ग्रीष्मे सोऽपि तत्फलमाप्नुयात्
विचित्रं यस्तु पर्यंकं सगंडूकं प्रयच्छति ॥१५॥
हरये देवदेवाय न स दुःखी कदाचन
ग्रीष्मकाले न देयानि गुरूणि वसनानि च ॥१६॥
हरये ब्राह्मणश्रेष्ठ देयं तन्वंशुंकं शुचि
यस्त्वच्युतफलैर्दिव्यैः सुगंधैः पूजयेद्धरिम् ॥१७॥
अंते शक्रपुरं गत्वा सपिबेदमृतं मुदा
प्रियालानां फलैर्दिव्यैर्योऽर्चयेत्कमलापतिम् ॥१८॥
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः
निदाघे हरये यस्तु यवागूमतिशीतलाम् ॥१९॥
नानाव्यंजनसंयुक्तां श्रद्धया वैष्णवो जनः
आषाढे मासि विप्रेन्द्र देवदेवं जगद्गुरुम् ॥२०॥
दधिभिः स्नापयित्वा च पूजयेद्भक्तितो बुधः
मातुः पयोधरपयः पुनस्तेन न पीयते ॥२१॥
घनागमे घनश्यामं कदंबकुसुमैर्हरिम्
आराधयति विप्रर्षे पराङ्गतिमवाप्नुयात् ॥२२॥
कदम्बपुष्पमालाभिर्मण्डपं ज्वलनोपमम्
यस्तस्य ब्राह्मणश्रेष्ठ वाजिमेधफलं भवेत् ॥२३॥
सुगन्धैः केतकीपुष्पैः पूजितः कमलापतिः
सर्वदुःखं हरत्येव मानवानां द्विजोत्तम ॥२४॥
पनसानां फलैर्दिव्यैः सुपक्वैर्घृतमिश्रितैः
पूजितो भगवान्विष्णुर्दद्यादैश्वर्यमुत्तमम् ॥२५॥
आषाढे मासि दध्यन्नं हरये प्रतिवासरम्
श्रद्धया वैष्णवो दद्यान्मुक्तिमिच्छन्द्विजोत्तम ॥२६॥
कृष्णाय नवनीतं यो ददाति वैष्णवो जनः
विशुद्धः सकलैः पापैर्ब्रह्मलोकं स गच्छति ॥२७॥
शेफालिकाप्रसूनैश्च यूथिकाकुसुमैस्तथा
योऽर्चयेत्परमात्मानं सगच्छेत्परमं पदम् ॥२८॥
प्रफुल्लमालतीपुष्पैः सुगन्धैर्योऽर्चयेद्धरिम्
तत्पुण्येनास्य तत्पुण्यं येन नो भविता द्विज ॥२९॥
कंदपुष्पैश्च बकुलैर्जगद्बंधुं जनार्दनम्
अर्चयन्सकलं कामं प्राप्नोति भुवि मानवः ॥३०॥
महामहाप्रसूनैश्च तथा कुरुबकैर्हरिम्
प्रफुल्लैः पूजयेद्यस्तु तस्य तुष्टः सदा हरिः ॥३१॥
सैरीयकैश्च यो विष्णुं प्रसूपुष्पैश्च योऽर्चयेत्
करवीरप्रसूनैश्च स याति हरिसन्निधिम् ॥३२॥
श्रावणे चैव यो दद्याल्लाजान्घृतसमन्वितान्
हरये तस्य विप्रर्षे गृहे श्रीःस र्वतोमुखी ॥३३॥
भाद्रे मासि द्विजश्रेष्ठ नारायणमनामयम्
श्रद्धया पूजयेत्प्राज्ञश्चतुर्वर्गप्रदायकम् ॥३४॥
निर्मिते नूतनागारे सर्वोपद्रववर्जिते
स्थापयेत्पुण्डरीकाक्षं भगवंतं जनार्दनम् ॥३५॥
दंशैश्च मशकैश्चापि प्रकीर्णे मक्षिकादिभिः
हरिं पुरातनागारे स्थापयेन्न हि मानवः ॥३६॥
सकर्दमे पतद्द्वारे गलद्भित्तौ गृहे तथा
हरिं न स्थापयेत्प्राज्ञो वर्षासु परमेश्वरम् ॥३७॥
विष्ण्वाल्ये द्विजश्रेष्ठ प्रकुर्याद्यस्तु मानवः
चन्द्रातपं विचित्रं च चन्द्रलोकं स गच्छति ॥३८॥
रात्रौ नानाविधैर्धूपैर्मन्दिरे जगतीपतेः
दंशाश्च मशकाश्चैव पूजाकाले निवारयेत् ॥३९॥
मंसारिकाभिः प्रावृत्य मंचशायिनमच्युतम्
प्रावृषि स्थापयेद्विष्णुं निशायां दिव्यमंदिरे ॥४०॥
कह्लारपत्रैर्देवेशं सुगंधैर्नूतनैस्तथा
मुमुक्षुः पूजयेन्मर्त्यो भाद्रे मासि दिनेदिने ॥४१॥
न भाद्रे केतकीपुष्पैः पूजितव्यो जनार्दनः
यतो भाद्रपदेमासि केतकी स्यात्सुरा समा ॥४२॥
पक्वैस्तालफलैर्दिव्यैर्योऽर्चयेद्यदुनंदनम्
गर्भवासमहादुःखं स भूयो लभते न च ॥४३॥
संयुक्तं घृतदुग्धाभ्यां पक्वतालं मुरारये
यो दद्याच्छ्रद्धया मर्त्यः स गच्छेन्मन्दिरं हरेः ॥४४॥
भाद्रे मासि द्विजश्रेष्ठ हरये तालपिष्टकम्
सघृतं वैष्णवो दद्यात्केवलप्राप्तिहेतवे ॥४५॥
मासि भाद्रपदे विप्र न कुर्याच्छाकभक्षणम्
न रात्रौ भोजनं कुर्यान्मुमुक्षुर्वैष्णवो जनः ॥४६॥
आश्विने मासि विप्रेन्द्र केशवं क्लेशनाशनम्
यत्तोयं दीयते विप्र पूर्वाह्णे हरये जनैः ॥४७॥
पीयूषमिव तत्तोयं गृह्णाति कमलापतिः
मध्याह्ने दीयते यच्च तत्तोयं चक्रपाणये ॥४८॥
तत्तोयमिव वेत्तव्यं तद्गृह्णाति द्विजोत्तम
अपराह्णे च यत्तोयं गोविन्दाय प्रदीयते ॥४९॥
तत्तोयं रक्ततुल्यं स्यान्न गृह्णाति ततो हरिः
अतएव द्विजश्रेष्ठ पूर्वाह्णे हरिमर्चयेत् ॥५०॥
समस्तं लभते कामं केशवस्यानुकंपया
एकवस्त्रेण विप्रेन्द्र न कुर्यात्पूजनं हरेः ॥५१॥
कुर्याद्वापि तथा पूजां न गृह्णाति च केशवः
अधौतेन च वस्त्रेण यः पूजां कुरुते हरेः ॥५२॥
विफला सा च पूजा स्यान्न च विष्णुः प्रसीदति
यैस्त्वबद्धशिखैः पूजा क्रियते चक्रिणो जनैः ॥५३॥
पूजाफलं नाप्नुवंति बलिग्राह्या च सा भवेत्
असंस्कृतगृहे पूजा क्रियते जगतीपतेः ॥५४॥
सा पूजा ब्राह्मणश्रेष्ठ बलिग्राह्या भवेत्खलु
स्नानं देवार्चनं चैव दानं च पितृपूजनम् ॥५५॥
तिलकेन विना विप्र कुरुते न विचक्षणः
तिलकान्यगृहीत्वा यत्पुण्यकर्म विधीयते ॥५६॥
भस्मीभवति तत्सर्वं कर्ता च नारकी भवेत्
शङ्खचक्रगदापद्मैरङ्कितं यस्य दृश्यते ॥५७॥
शरीरं ब्राह्मणश्रेष्ठ विज्ञेयः सोऽच्युतः स्वयम्
यो लिखेद्दक्षिणे बाहौ शङ्ख पद्मे च वैष्णवः ॥५८॥
सव्ये चक्रं गदां चैव स विष्णुर्नात्र संशयः
पङ्कजं दक्षिणे बाहौ शङ्खस्योपरि यो लिखेत् ॥५९॥
पातकं सकलं तस्य क्षणादेव तु नश्यति
चक्रोपरि गदां यस्तु लिखेत्सव्ये भुजे द्विज ॥६०॥
तं वंदंते द्विजश्रेष्ठ शक्राद्या अपि निर्जराः
मुरारिपादयुग्मं च स्वललाटे लिखेद्बुधः ॥६१॥
पापात्मापि च तं दृष्ट्वा मुक्तो भवति पातकात्
अष्टाक्षरं महामंत्रं मत्स्यं कूर्मं च यो हृदि ॥६२॥
लिखेत्स वैष्णवश्रेष्ठः पुनाति भुवनत्रयम्
कृष्णायुधांकितं यस्य शरीरं स्याद्दिनेदिने ॥६३॥
तस्य कृष्णो जगन्नाथो ददाति परमं पदम्
कृष्णायुधांकिततनुर्यत्कर्म कुरुते नरः ॥६४॥
शुभं वाप्यशुभं वापि तत्सर्वमक्षयं भवेत्
दानवा राक्षसाश्चैव भूतवेतालकास्तथा ॥६५॥
पिशाचाः पन्नगाश्चापि यक्षविद्याधरास्तथा
किन्नरा गुह्यकाश्चैव ग्रहा बालग्रहास्तथा ॥६६॥
कूष्माण्डाश्चैव डाकिन्यस्तथान्ये विघ्नकारकाः
सर्वे भीत्या पलायंते दृष्ट्वा कृष्णायुधाङ्कितम् ॥६७॥
द्वीपाश्च द्वीपिनश्चैव तथान्ये वनवासिनः
दृष्ट्वैव प्रपलायंते भयात्कृष्णायुधांकितम् ॥६८॥
कामलाद्या महारोगा देहदेहावपातिनः
कृष्णायुधांकिततनुं भक्त्या पश्यति यो जनः ॥६९॥
कृष्णदर्शनतुल्यस्य फलं प्राप्नोति मानवः
त्रिपत्रीकृतदूर्वाभिरश्विने योऽर्चयेद्धरिम् ॥७०॥
दूर्वावत्संततिस्तस्य अविच्छिन्ना प्रवर्तते
आश्विने मासि यो दद्याद्धरये कर्कटीफलम् ॥७१॥
शोको न जायते तस्य कदाचिद्धृदये द्विज
कार्तिके च समायाते सर्वमासोत्तमे शुभे ॥७२॥
दामोदरं देवदेवं भक्त्या प्राज्ञः प्रपूजयेत्
कार्तिके मासि विप्रेन्द्र विष्णुप्रीणनहेतवे ॥७३॥
यथोक्तविधिना प्राज्ञः प्रातःस्नानं समाचरेत्
आमिषं मैथुनं चैव कार्तिके मासि यस्त्यजेत् ॥७४॥
जन्मान्तरार्जितैः पापैर्मुक्तो याति पराङ्गतिम्
तुलाराशिगते सूर्ये प्रातःस्नानं द्विजोत्तम ॥७५॥
हविष्यं ब्रह्मचर्यं च महापातकनाशनम्
आमिषं मैथुनं चैव कार्तिकेमासि सेवते ॥७६॥
जन्मजन्मनि विप्रेन्द्र स भवेद्ग्रामशूकरः
द्विभोजनं परान्नं च तैलं च वैष्णवो जनः ॥७७॥
आयाते कार्तिके मासि यत्नादपि परित्यजेत्
दामोदराय नभसि दीपं यस्तु प्रयच्छति ॥७८॥
फलं तस्य प्रवक्ष्यामि समासेन शृणु द्विज
ब्रह्महत्यादिभिः पापैर्विमुक्तः क्लेशदायकैः ॥७९॥
दामोदरपुरं गत्वा तिष्ठेत्कोटियुगावधि
दीपं ज्वलंतं नभसि त्रिदशा वासवादयः ॥८०॥
विलोक्य हर्षिताः सर्वे वदंतीति परस्परम्
असौ पुण्यात्मनां श्रेष्ठः केशवार्चनतत्परः ॥८१॥
प्रदीपं कार्तिके मासि यतो यच्छति चक्रिणे
कार्तिके मासि विप्रेन्द्र तस्य तुष्टः सदा हरिः ॥८२॥
दद्यादक्षयदीपं यः कार्तिके हरिमंदिरे
दिनेदिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥८३॥
तुलसीदललक्षैर्यः कार्तिके पूजयेद्धरिम्
लक्षैकवाजिमेधस्य मानवो लभते फलम् ॥८४॥
बिल्वस्य दललक्षेण योऽर्चयेद्विष्णुमव्ययम्
परमं मोक्षमाप्नोति प्रसादाज्जगतीपते ॥८५॥
यत्किञ्चित्कार्तिकेमासि विष्णुमुद्दिश्य दीयते
तदक्षयं भवेत्सर्वं सत्यमेतन्मयोच्यते ॥८६॥
घृताक्तं सुरपत्रं यः कार्तिके मासि वैष्णवे
दद्याद्दिनेदिने विप्र तस्य विष्णोः पुरे स्थितिः ॥८७॥
प्रफुल्लपद्मपत्रेण सितेनाप्यसितेन वा
योऽर्चयेत्कमलाकांतं तस्य किं भुवि दुर्ल्लभम् ॥८८॥
द्विजाग्र्यः कार्तिके मासि हरये येन पङ्कजम्
न दत्तं तेन किं विप्र विष्णवे दैत्यजिष्णवे ॥८९॥
एकमेवांबुजं हृत्वा ददाति कैटभारये
तस्मै किं भगवान्विष्णुर्न ददाति श्रियः पतिः ॥९०॥
कमलैः कार्तिके मासि येन नाराधितो हरिः
जन्मजन्मनि तद्गेहे कमला न हि तिष्ठति ॥९१॥
पद्मबीजानि यो दद्यात्केशवाय महात्मने
स जायते विप्रकुले शुद्धे च प्रतिजन्मनि ॥९२॥
ब्राह्मणस्य कुले जातश्चतुर्वेदसुहृद्भवेत्
धनवान्बहुपुत्रश्च कुटुंबानां च पोषकः ॥९३॥
नास्ति पद्मसमं पुष्पं जैमिने सत्यमुच्यते
येन संपूज्य गोविन्दं पापात्मापि च मोक्षभाक् ॥९४॥
पद्मपुष्पस्य माहात्म्यं विशेषादुच्यते मया
सेतिहासं द्विजश्रेष्ठ सावधानं निशामय ॥९५॥
आसीदेकः प्रजा नाम ब्राह्मणः सर्वशास्त्रवित्
हरिपादांबुजे यस्य मनोभृङ्ग सदा स्थितिः ॥९६॥
देवानां ब्राह्मणानां च गुरूणां चैव सर्वदा
कृता पूजा द्विजश्रेष्ठ कार्याकार्यशतान्यपि ॥९७॥
परद्रव्यं विषं चैव परस्त्रीषु स्वमातृवत्
कृतं तेनैव यच्चैवं तथा मित्रे च शात्रवे ॥९८॥
आयांतमतिथिं दृष्ट्वा स विप्रः परमार्थवित्
भृशं मानं न चाप्नोति याचकं च द्विजोत्तमम् ॥९९॥
सर्वयज्ञाः कृतास्तेन व्रतानि सकलानि च
संसारसागरं घोरमपारंच तितीर्षुणा ॥१००॥
एकदा स द्विजश्रेष्ठो हरिभक्तिपरायणः
स्वमृत्युं च निजां जातिं चिंतयामास चेतसा ॥१०१॥
अहं पूर्वं स्थितः को वा किं वा कर्म कृतं पुरा
कथं वा जन्म संप्राप्तं गमिष्यामि क्व वा पुनः ॥१०२॥
इति संचिंत्य विप्रोऽसौ निःश्वस्य च पुनः पुनः
विज्ञातुं पूर्ववृत्तांतं शिवक्षेत्रं जगाम ह ॥१०३॥
तत्र बद्धाञ्जलिर्विप्रो भक्त्या परमया युतः
तुष्टाव शंकरं देवं वाचा मधुरया शिवम् ॥१०४॥
ब्राह्मण उवाच-
नमस्तुभ्यं महादेव नमस्ते परमेश्वर
नमस्ते शंकरेशान नमस्ते वरद प्रभो ॥१०५॥
नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायिने
नमस्ते सर्वभूतानां हृदम्बुजनिवासिने ॥१०६॥
जगत्स्रष्ट्रे नमस्तुभ्यं जगत्पित्रे नमो नमः
नमः संहराकर्त्रे च पशूनां पतये नमः ॥१०७॥
मनस्ते वह्निनेत्राय नमस्ते वह्निचक्षुषे
नमस्ते चन्द्रनेत्राय सूर्यनेत्राय वै नमः ॥१०८॥
नमस्ते भस्मभूषाय नमस्ते कृत्तिवाससे
नमोऽस्थिमालिने तुभ्यं नीलकंठाय वै नमः ॥१०९॥
नमस्ते पंचक्त्राय नमस्ते शूलपाणिने
कन्दर्पदर्पविध्वंसकारिणे भीममूर्तये ॥११०
नमस्ते देवदेवाय नमस्ते त्रिपुरारये
पार्वतीपतये तुभ्यं नमस्ते भीममूर्तये ॥१११॥
बाणभक्त्यातिसंतुष्ट मानसाय नमोस्तु ते
बहुरूपाय वै तुभ्यं विश्वरूपाय वै नमः ॥११२॥
गङ्गाधराय वै तुभ्यं दक्षयज्ञविनाशिने
प्रेतानां पतये तुभ्यं नमस्तुभ्यं पिनाकिने ॥११३॥
ईशानाय नमस्तुभ्यं मनीषाय नमो नमः
तुभ्यं नमोऽस्तु दृश्याय अदृश्याय नमो नमः
नमश्चिन्त्याय वै तुभ्यमचिन्त्याय नमोनमः ॥११४॥
ब्रह्मा त्वमेव त्रिदशैकनाथस्त्वमेव विष्णुस्तपनस्त्वमेव
त्वमेव सोमः सकलार्त्तिहारी नमो नमस्ते परमेश्वराय ॥११५॥
तस्यस्तवं समाकर्ण्य शंकरो लोकशंकरः
आविर्बभूव सहसा प्रसन्नः परमेश्वरः ॥११६॥
आविर्भूतं समालोक्य सर्वदेवनमस्कृतम्
ववंदे चरणौ तस्य स विप्रोऽत्यंतभक्तिमान् ॥११७॥
भूयोऽपि स द्विजश्रेष्ठो हर्षनिर्भरमानसः
कृताञ्जलिर्महादेवं तुष्टाव वरदं प्रभुम् ॥११८॥
ब्राह्मण उवाच-
यं न पश्यंति देवेशं देवा अपि सवासवाः
पश्यामि तमहं साक्षान्महाभाग्यमिदं मम ॥११९॥
ध्यानावस्थितचित्तेन योऽदृश्यः परमेश्वरः
पश्यामि तमहं साक्षान् साध्यं किमपरं मम ॥१२०॥
त्वन्नामस्मरणादेव महापातकिनोऽपि च
गच्छंति परमं स्थानं समीक्षे तमहं प्रभुम् ॥१२१॥
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि च भाग्यवान्
नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वर ॥१२२॥
महादेव उवाच-
भवतोऽनेन वाक्येन तुष्टोऽस्मि द्विजसत्तम
वरं वृणु महाभाग वरं दित्सुरहं खलु ॥१२३॥
ब्राह्मण उवाच-
भवंतं परमात्मानमदृश्यं दैवतैरपि
साक्षात्पश्याम्यहं नाथ किं कार्यमपरैर्वरैः ॥१२४॥
तथापि त्वं महादेव वरं दित्सुः कृपामयः
पृच्छामि यदहं किंचित्तद्ब्रूहि परमेश्वर ॥१२५॥
कोऽहं तस्थौ पुरा देव किं वा कार्यं कृतं पुरा
संसारसागरे नाथ पतितोऽस्मि कथं प्रभो ॥१२६॥
कर्मणा प्राप्यते देहो देही पापेन लिप्यते
पुनः पापप्रभावेण प्राप्यते विषमा गतिः ॥१२७॥
प्रभावैः कर्मणां केषां जन्म प्राप्तमिदं मया
नानादुःखप्रदं नाथ प्रसन्नो ब्रूहि शंकर ॥१२८॥
पापमूलमिदं जन्म जन्म दुःखस्य कारणम्
ज्ञातुमिच्छाम्यहं तस्मात्पूर्ववृत्तांतमात्मनः ॥१२९॥
स्थितोऽहं जननी कुक्षौ जनठरानलतापितः
मूत्रविष्ठाप्रकीर्णे च विपाकेन च कर्मणाम् ॥१३०॥
गर्भवाससमं दुःखं संसारे न हि मन्यते
कथं मयानुभूतं तत्प्रभो भक्तार्तिनाशन ॥१३१॥
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते
असारे मायया विष्णोर्मोहिते पातकाश्रये ॥१३२॥
दुस्तरे बंधुहीने च कामक्रोधादिसंयुते
शोकरोगप्रदे चैव जन्ममृत्युप्रदे तथा ॥१३३॥
अपारे जगतामीश पतितोऽस्मि कथं शिव
एतत्सर्वं विभो ब्रूहि यदि ते मय्यनुग्रहः ॥१३४॥
महादेव उवाच-
यद्यप्येतद्दिवजश्रेष्ठ गुह्याद्गुह्यतरं महत्
अप्रकाश्यं तथापि त्वां भक्तं प्रतिवदाम्यहम् ॥१३५॥
पुरा त्वं ब्राह्मणः श्रेष्ठ शबरान्वयसंभव
दण्डपाणिरिति ख्यातः स्थितः सल्लोकदुःखदः ॥१३६॥
परलोकभयं त्यक्त्वा विवेकैः परिवर्जितः
दस्युवृत्तिं प्रपन्नार्ति परमक्लेशदायिनीम् ॥१३७॥
दस्युवृत्तिगतं दृष्ट्वा भवंतमतिनिर्दयम्
अपरे भ्रातरः सर्वे बभूवुस्ते च दस्यवः ॥१३८॥
तेषां नामानि विप्रेन्द्र भातॄणां निगदाम्यहम्
यैः सार्द्धं भवता पूर्वं भ्रातृभिर्दस्युता कृता ॥१३९॥
दंडी दंडायुधश्चैव दत्तवान्दत्तभूस्तथा
सुंदडो दंडकेतुश्च भ्रातरः षट्प्रकीर्तिताः ॥१४०॥
तैर्भ्रातृभिर्महाघोरैर्दयाभिः परिवर्जितः
दंडेन भवता नित्यं सर्वे व्यग्रीकृता जनाः ॥१४१॥
धनलोभेन भवता दुष्टैस्तैर्भ्रातृभिः सह
अरण्ये प्रांतरो विप्र हताः शतसहस्रशः ॥१४२॥
हत्वा च सायकैस्तीक्ष्णैर्वनस्थेन त्वया सदा
गवां क्रव्याणि भुक्त्वा च मदिराभिः सह द्विज ॥१४३॥
ततो यानविधिं सर्वे वणिजस्त्वद्भयात्तथा
तत्यजुर्विपिने तस्मिन्ननर्थः पतितः सदा ॥१४४॥
यस्य वित्तं न तद्वित्तं गृहं यस्य न तद्गृहम्
यस्य भार्या न तद्भार्या त्वयि दस्युत्वमागते ॥१४५॥
एवं स्वभ्रातृभिस्तैस्तु तस्मिन्नेव महावने
गतो वर्त्मश्रमश्रांतः स्नानार्थं सरसीं प्रति ॥१४६॥
तत्र स्नानं समाचर्य क्षुधितेन द्विजोत्तम
भक्षितानि मृणालानि भ्रातृभिस्तैर्जलानि च ॥१४७॥
अथ त्वया द्विजश्रेष्ठ कौतुकात्तत्र सत्तम
भुक्तानि पद्मपुष्पाणि प्रफुल्लानि बहूनि च ॥१४८॥
तस्मिन्नेव ततः काले ब्राह्मणो विपिनेचरः
सर्ववेदा इति ख्यातस्तत्र स्नानार्थमागतः ॥१४९॥
तत्र स्नात्वा स धर्मात्मा भगवंतं जनार्दनम्
यष्टुं त्वामकमंभोजं ययाचे विनयान्वितः ॥१५०॥
अथ त्वया च विप्रेन्द्र पद्ममेकं सुनिर्मलम्
दत्तं परमया भक्त्या पूजार्थं कमलापतेः ॥१५१॥
त्वया दत्तेन पद्मेन स च प्रीतो द्विजोत्तमः
पूजयामास तत्रैव विष्णुं सकलकारकम् ॥१५२॥
विष्णुपूजा परं दृष्ट्वा तं विप्रं सर्ववेदसम्
त्वमपि प्रहसन्विष्णुं ननन्थ च सुकामदम् ॥१५३॥
अथाभ्यर्च्य परात्मानं चतुर्वर्गफलप्रदम्
यथोक्तविधिना विप्र स जगाम यथागतः ॥१५४॥
तेनाम्बुजप्रदानेन प्रणामेन च सत्तम
विष्णुपूजादर्शनेन नष्टं ते सर्वपातकम् ॥१५५॥
ततः कियद्भिर्दिवसैस्तस्मिन्नेव महावने
संप्राप्तकालः पंचत्वं गतोऽसि त्वं द्विजोत्तम ॥१५६॥
तेनैव कर्मणा तुष्टो भगवान्करुणालयः
ददौ तुभ्यं परं स्थानं देवैरपि सुदुर्ल्लभम् ॥१५७॥
मन्वंतरसहस्राणि मन्वंतरशतानि च
भुक्तं नानासुखं तत्र कृपया कमलापतेः ॥१५८॥
ततः कर्मावसाने तु कर्मभूमिमिमां द्विज
आगत्य तैः पुण्यफलैर्जातोऽसि द्विजसंततौ ॥१५९॥
ब्राह्मणस्य कुले शुद्धे जन्म संप्राप्य सत्तम
सर्वगुणाश्रया लब्धा हरिभक्तिरचंचला ॥१६०॥
आराधितो महाविष्णुः क्रियायोगैस्त्वया प्रभुः
तुभ्यं दास्यति विज्ञानं ज्ञानान्मुक्तो भविष्यति ॥१६१॥
गच्छ ब्राह्मण भद्रं ते सुप्रीतो निजमंदिरम्
मद्दर्शनं त्वया प्राप्तं मुक्तोऽसि भवबंधनात् ॥१६२॥
व्यास उवाच-
इत्युक्त्वांतर्दधे विप्र तत्रैव जगदीश्वरः
कृतार्थो ब्राह्मणः सोऽपि जगाम भवनं स्वकम् ॥१६३॥
अथ स त्रिदिनं विष्णुं पद्मपुष्पैर्मनोरमैः
यत्नादाराधयामास स्तुत्यर्थं परमेश्वरम् ॥१६४॥
विष्णुं समाराध्य चिरं प्रसुप्तः पद्मप्रसूनैर्विचित्रैः सुपुष्पैः
ज्ञानं समासाद्य जगाम मोक्षं प्रसादतः श्रीगरुडध्वजस्य ॥१६५॥
अनिच्छयापि कमलं यच्छतः फलमीदृशम्
विष्णवे यच्छतो भक्त्या न जाने किं भवेदिति ॥१६६॥
सत्यं सत्यं पुनः सत्यं सत्यमेव मयोच्यते
कमलैर्हरिमभ्यर्च्य प्राप्यते परमं पदम् ॥१६७॥
एकमेवारविंदं यः प्रददाति मुरारये
तस्य नास्ति पुनर्जन्म संसारेषु भयावहे ॥१६८॥
नारायणं ये च प्रफुल्लवारिजैर्दयामयं कामदमर्चयंति
एकाहमप्युत्कटपापयुक्तास्ते यांति मुक्तिं प्रति पापिनोऽपि ॥१६९॥

इति श्रीपद्मपुराणे क्रियायोगसारे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP