संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः २४ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः २४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४ Translation - भाषांतर सूत उवाच-एकादश्याः फलं श्रुत्वा सुप्रीतो जैमिनिस्ततःकृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुम् ॥१॥जैमिनिरुवाच-विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मयातुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनम् ॥२॥व्यास उवाच-इन्द्राद्यैर्दैवतैः सर्वैस्तुलसी भगवत्यसौसंसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा ॥३॥स्वर्गे मर्त्ये च पाताले तुलसी दुर्ल्लभा सताम्चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिः करोति वै ॥४॥यत्रैकस्तुलसीवृक्षस्तिष्ठत्यपि च सत्तमतत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः ॥५॥केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिःपत्रवृंते शिवस्तिष्ठेत्तुलस्याः सर्वदैव हि ॥६॥लक्ष्मी सरस्वती चैव गायत्री चंडिका तथासर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वंसति च ॥७॥इन्द्रो ऽग्नि शमनश्चैव नैरृतिर्वरुणस्तथापवनश्च कुबरेश्च तच्छाखायां वसंत्यमी ॥८॥आदित्यादि ग्रहाः सर्वे विश्वेदेवाश्च सर्वदावसवो मुनयश्चैव तथा देवर्षयोऽखिलाः ॥९॥कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतलेतुलसीदलमाश्रित्य तान्येव निवसंति वै ॥१०॥तुलसीं सेवते यस्तु भक्तिभावसमन्वितःसेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा ॥११॥छिन्दंति तृणजालानि तुलसीमूलजानि येतद्देहस्थां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः ॥१२॥ग्रीष्मकाले द्विजश्रेष्ठ सुगंधैः शीतलैर्जलैःतुलसीसेचनं कृत्वा नरो निर्वाणमाप्नुयात् ॥१३॥चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छतिविशेषतो निदाघेषु स मुक्तः सर्वपातकैः ॥१४॥वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनःसिंचयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः ॥१५॥प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत्सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः ॥१६॥कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमःतस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला ॥१७॥गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम्संमार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु ॥१८॥रजांसि तत्र यावंति दूरीभूतानि जैमिनेतावत्कल्पसहस्राणि मोदते विष्णुना सह ॥१९॥प्रदीपं यस्तु संध्यायां स्थापयेत्तुलसीतलेस याति मंदिरं विष्णोः कुलकोटिसमन्वितः ॥२०॥गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षतिशिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा ॥२१॥तुलस्यारोपणं यस्तु भक्तितः कुरुते नरःस मृतः परमं मोक्षं प्राप्नोत्येव न संशयः ॥२२॥प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमःस विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम् ॥२३॥तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितःआयुर्बलं यशोवित्तं संततिस्तस्य वर्द्धते ॥२४॥तुलसीस्मरणेनैव सर्वपापं विनश्यतितुलसीस्पर्शनेनैव नश्यंति व्याधयो नृणाम् ॥२५॥योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम्तच्छरीरांतरस्थायि पापं नश्यति तत्क्षणात् ॥२६॥तुलसीकाष्ठसंभूतां मालां वहति यो नरःतद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते ॥२७॥तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्गंगायाः स्नानजं पुण्यं लभते नात्र संशयः ॥२८॥दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम्समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत् ॥२९॥येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैःधर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः ॥३०॥स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयंति तुलसीं हरितुष्टिकर्त्रीम्तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र ॥३१॥यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याःकुर्वंति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवंति नूनम् ॥३२॥यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना चतत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ॥३३॥यात्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनम्यात्राफलं सकलमेव हरिप्रसादात्तस्याशु सिद्ध्यति वचः सुदृढं ममैतत् ॥३४॥त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मंदारकुन्दनलिनादिकमप्यनंतःगृह्णाति सद्गुणमयीं तुलसीं प्रमोदैः शुष्कामपि प्रचुरपापविनाशरक्षाम् ॥३५॥उत्पाट्य चैव तुलसीं भुवि निक्षिपंति पापाशयाऽमृतलताभ निदानभूताम्अज्ञानतो नरहरिस्तुलसीप्रियोऽसौ तेषां श्रियं हरति संततमेव सत्यम् ॥३६॥मूत्रं पुरीषं तुलसीतलेषु कुर्वंति येऽपि च मलं सततं मनुष्याःदेवाश्रये संचित पातकानां तेषां हरत्याशु हरिर्धनानि ॥३७॥नारायणस्यपूजार्थं चिनोमि त्वां नमोस्तुतेकुसुमैः पारिजाताद्यैर्गंधाद्यैरपि केशवः ॥३८॥त्वया विना नैति तृप्तिं चिनोमि त्वामतः शुभेत्वया विना महाभागे समस्तं कर्म निष्फलम् ॥३९॥अतस्तु तुलसी देवि चिनोमि वरदा भवचयनोद्भव दुःखं ते यद्देवि हृदि जायते ॥४०॥तत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहम्कृताञ्जलिरिमान्मन्त्रान्पठित्वा वैष्णवो जनः ॥४१॥करतालद्वयं दत्वा चिनोति तुलसीदलम्यथा न कंपते शाखा तुलस्या द्विजसत्तम ॥४२॥पत्रस्य चयने देवी भग्नशाखा यदा भवेत्तदा हृदि व्यथा विष्णोर्ज्जायते तुलसीपतेः ॥४३॥शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनम्तेनापि पूज्यो गोविन्दो मधुकैटभमर्द्दनः ॥४४॥कोमलैस्तुलसीपत्रैर्योऽर्चयेदच्युतं प्रभुम्सर्वं स लभते शीघ्रं यद्यदिच्छति चेतसा ॥४५॥जैमिनिरुवाच-तुलसीवृक्षसदृशः कोवृक्षोऽस्ति द्विजर्षभतमहं ज्ञातुमिच्छामि ब्रूहि सत्यवतीसुत ॥४६॥व्यास उवाच-यथा प्रियतमा विष्णोस्तुलसी सततं द्विजतथा प्रियतमा धात्री सर्वपापप्रणाशिनी ॥४७॥तुलसीवृक्षमासाद्य या यास्तिष्ठंति देवताःआमलक्यास्तले तास्ता निवसंति द्विजोत्तम ॥४८॥गंगादीनि च तीर्थानि तत्रैव द्विजसत्तमविष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति ॥४९॥अशुभं वाशुभं वापि यत्कर्मामलकीतलेक्रियते मानवैर्विंप्र भवेत्तत्सत्यमक्षयम् ॥५०॥पवित्रैर्नूतनेः पत्रैर्धात्र्या यः पूजयेद्धरिम्स मुक्तः पापजालेन सायुज्यं लभते हरेः ॥५१॥धात्री च तुलसीदेवी न तिष्ठेद्यत्र जैमिनेस्थानं तदपवित्रं स्यान्न च क्रियाफलं लभेत् ॥५२॥न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभातेन कर्म कृतं सर्वं नूनं गच्छति निष्फलम् ॥५३॥धात्र्या तुलस्या हीनं च निलयं यस्य भूसुरअलक्ष्मीः पातकं सर्वं कलिश्च तेन तोषितः ॥५४॥स्थाने तस्मिन्द्विजश्रेष्ठ न धात्री तुलसी न चश्मशानतुल्यं स्थानं तद्विज्ञेयं तत्वदर्शिभिः ॥५५॥धात्री च तुलसी यत्र तिष्ठेत्तत्राखिलाः सुराःन धात्री तुलसी पत्रं तत्रैवाखिलपातकम् ॥५६॥धात्रीफलस्रजं यस्तु पापहर्त्रीं वहेद्बुधःतस्याश्रित्य तनुं विष्णुः सदा तिष्ठेच्छ्रिया सह ॥५७॥धात्रीकाष्ठस्य मालां च यो वहेन्मतिमान्नरःतस्य देहं समाश्रित्य तिष्ठंति सर्वदेवताः ॥५८॥धात्रीफलस्रजं गृह्णन्यत्कर्म कुरुते नरःतत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वाशुभम् ॥५९॥यस्तु धात्रीफलं भुंक्ते मानवोऽखिलतत्ववित्तद्देहाभ्यंतरस्थायि सर्वं पापं विनश्यति ॥६०॥धात्रीफलमयीं मालां यो वहेद्दिवजसत्तमब्रवीमि शृणु माहात्म्यं सर्वपापहरं परम् ॥६१॥श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतःगङ्गामरणजं पुण्यं संप्राप्नोति न संशयः ॥६२॥तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैःसद्य एव प्रमुच्यंते जन्मकोटिशतैरपि ॥६३॥नित्यं गृह्णाति विप्रेंद्र यो धात्रीफलकर्द्दमम्दिने दिने लभेत्पुण्यं संप्राप्नोति न संशयः ॥६४॥धात्रीतरुं च यो हंति सर्वदेवगणाश्रयम्स ददाति हरेरंगे घातं नास्त्यत्र संशयः ॥६५॥सर्वदेवमयी धात्री विशेषात्केशवप्रियासम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते ॥६६॥धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वःभुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात् ॥६७॥इति श्रीपद्मपुराणे क्रियायोगसारे तुलसीमाहात्म्यं नाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP