संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः २ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः २ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २ Translation - भाषांतर व्यास उवाच-सृष्टेरादौ महाविष्णुः सिसृक्षुः सकलं जगत्स्रष्टा पाता च संहर्ता त्रिमूर्तिरभवत्स्वयम् ॥१॥सृष्ट्यर्थमस्य जगतः ससर्ज ब्रह्मसंज्ञकम्दक्षिणां गतआत्मानमात्मना श्रेष्ठपूरुषः ॥२॥ततस्तु पालनार्थाय जगतो जगतीपतिःविष्णुं ससर्ज वामांशान्निजांशं केशवं मुने ॥३॥अथ संहरणार्थाय जगतो रुद्रमव्ययम्मुने ससर्ज मध्यांगात्कृतपद्मालयः प्रभुः ॥४॥रजः सत्वं तमश्चेति पुरुषं त्रिगुणात्मकम्वदंति केचिद्ब्रह्माणं विष्णुं केचिच्च शंकरम् ॥५॥एको विष्णुस्त्रिधा भूत्वा सृजत्यत्ति च पाति चतस्माद्भेदो न कर्त्तव्यस्त्रिषु लोकेषु सत्तमैः ॥६॥आद्या प्रकृतिरेतस्य महाविष्णोः परात्मनःनिदानंभूतविश्वस्य विद्या विद्येति गीयते ॥७॥भावाभावस्वरूपा सा जगद्धेतुः सनातनीब्राह्मी लक्ष्मीरम्बिकेति त्रिमूर्तिः सहसाऽभवत् ॥८॥सृष्टिस्थितिविनाशेषु यां नियोज्य ततो मुनेआद्यां चैवाद्यपुरुषस्तत्रैवांतरधीयत ॥९॥यस्याज्ञया ततो ब्रह्मा महाभूतान्ससर्ज हपृथिव्याकाशवाय्वंबु वह्नीन्पञ्चसमाधिना ॥१०॥भूर्भुवः स्वस्तथा चैव महश्चैव जनस्तथातपश्च सत्यमित्यादीन्सृष्टवान्कमलासनः ॥११॥अतलं सृष्टवान्ब्रह्मा ततोऽधोवितलं द्विजततोऽधःसुतलं चैव ततोऽधश्च तलातलम् ॥१२॥महातलमधस्तस्मात्ततोऽधश्च रसातलम्तस्मादधश्च पातालं लोकानेवं यथाक्रमम् ॥१३॥देवतानांनिवासार्थं रत्नसानुं महागिरिम्सृष्टवान्पृथिवीमध्ये जाम्बूनदसमुज्ज्वलम् ॥१४॥मंदरं चरमं चैव त्रिकूटमुदयाचलम्अन्यांश्च पर्वतांश्चैव सृष्टवान्विविधानपि ॥१५॥लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराःसप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयंभुवा ॥१६॥जम्बुद्वीपो द्विजश्रेष्ठ द्वीपश्च प्लक्षसंज्ञितःविज्ञेयो द्विगुणस्तस्माच्छाल्मलो द्विगुणस्ततः ॥१७॥ते च प्लक्षादयो द्वीपाः सर्वभाग समन्विताःसमस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः ॥१८॥सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताःतेषां नामानि वक्ष्यामि सागराणां निशामय ॥१९॥लवणेक्षु सुरा सर्पिर्दधिदुग्धजलांतकाःएते समुद्रा देवर्षे पूर्वस्माच्च परः पराः ॥२०॥विज्ञेया द्विगुणाः सर्व आलोकालोकपर्वताःद्वीपेद्वीपे ततो ब्रह्मा वृक्षगुल्मलतादिकान् ॥२१॥तिर्यग्योनिगताञ्जन्तून्सृष्टवान्द्विजसत्तमअथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा ॥२२॥क्रमात्ससर्ज पुत्रांश्च ततो दक्षादिकान्मुनीन्ब्रह्मक्षत्त्रियविट्शूद्रानन्यांश्चैवांत्यजांस्तथा ॥२३॥तेषां च वर्तनादीनि सृष्टवान्स प्रजापतिःहेमाद्रि दक्षिणं यद्वै विंध्याद्रेरुत्तरं तथा ॥२४॥आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम्आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः ॥२५धर्मकर्माणि कुर्वंति ते सर्वे केशवोपमाःकर्मभूमौ कृतं कर्म शुभं वाशुभमेव वा ॥२६॥तत्फलं भुंजते लोको भोगभूमिषु सत्तमकर्मभूमिं समागत्य यो धर्मकर्मसूद्यतः ॥२७॥न च तेन समः कोऽपि त्रिषुलोकेषु विद्यतेतस्य स्यात्सफलं जन्म जीवितं च सुजीवितम् ॥२८॥श्रीनारायणसेवायां मतिर्यस्य न विद्यतेजन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके ॥२९॥नारायणे देवदेवे भक्तिः स्यात्सुदृढा नृणाम्समस्तसुखदश्चापि स श्लाघ्यो निर्भयोऽपि च ॥३०॥त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवःजन्मांतरार्जितं पापं स्वल्पं वा यदि वा बहु ॥३१॥तत्क्षणात्क्षयमाप्नोति भगवद्भक्तदर्शनात्वैष्णवांघ्रिजलं यस्तु समस्तपातकापहम् ॥३२॥वहेत्स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किम्मुहूर्तमपि यः कुर्यात्सड्गं भागवतैः सह ॥३३॥स मुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपिधर्मकर्माणि विप्रेन्द्र क्रियंते यानि कानि च ॥३४॥भगवद्भक्तपुरतस्तानि स्युरक्षयाणि चमुहूर्त्तं वा मुहूर्तार्द्धं यत्र तिष्ठंति वैष्णवाः ॥३५॥सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम्अन्नं वा सलिलं वापि फलं वा वैष्णवाय च ॥३६॥यत्किंचिद्दीयते विप्र तद्दानमक्षयं भवेत्समस्तदेवतारूपो वैष्णवः परिकीर्तितः ॥३७॥स चेत्संतोषितो येन तोषिताः सर्वदेवताःसंसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ॥३८॥भगवद्भक्तपुरुषः कदाचिन्नावसीदतितस्मात्त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् ॥३९॥समाराध्य सदा भक्त्या व्रज विष्णोः पदं परम्सूत उवाच-तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः ॥४०॥शिरसांजलिमादाय जैमिनिः पर्यपृच्छतजैमिनिरुवाच-भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः ॥४१॥गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि सांप्रतम्कथं वा वैष्णवा लोका ज्ञातव्या मुनिसत्तम ॥४२॥आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहःव्यास उवाच-मधुकैटभयोः पूर्वं हतयोर्वेधसा स्वयम् ॥४३॥पृष्टो यदाह भगवांस्तन्निशामय वेद्म्यहम्कल्पांते रुद्ररूपेण संहार्य सकलं जगत् ॥४४॥स्वयमेकश्च भगवान्सुष्वाप योगमाययासुप्ते तस्मिन्भगवति योगनिद्रा विमोहितेअभवत्पृथिवी सर्वा सलिलौघ परिप्लुता ॥४५॥अतो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरितमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः ॥४६॥तस्मिन्काले महाघोरे विष्णोः कर्णमलाद्द्विजजातौ महासुरौ घोरौ मधुकैटभसंज्ञितौ ॥४७॥अंतरिक्षे भ्रमंतौ तौ दानवावतिदारुणौश्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् ॥४८॥तं हंतुमथ दैत्यौ तौ महाबलपराक्रमौउद्यमं चक्रतुर्विप्र क्रोधसंरक्तलोचनौ ॥४९॥ततो ब्रह्मा जगत्स्रष्टा विचिंत्य तद्वधं हृदायोगनिद्रां भगवतीं तुष्टाव श्लक्ष्णया गिरा ॥५०॥ तस्य स्तवं समाकर्ण्य ब्रह्मणः परमेष्ठिनःउवाचेति वचः प्रीत्या किं तेऽभिमतमुच्यताम् ॥५१॥ब्रह्मोवाच-अत्युग्रदानवावेतौ हंतुं मां कृतनिश्चयौमायया मोहय क्षिप्रं त्रातारमच्युतं त्यज ॥५२॥ततो भागवती निद्रा महाविष्णुं तमत्यजत्दानवाभ्यां ततस्ताभ्यामंतरिक्षे कृपामयः ॥५३॥युयुधे बाहुयुद्धेन शरणागतवत्सलःपञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणम् ॥५४॥विजयं नागमत्कोऽपि न च कोऽपि पराभवम्अथ तौ दानवौ तत्र महामायाविमोहितौ ॥५५॥वरं वृण्विति चास्मत्तोऽगदतां केशवं प्रतिततः प्रहस्य देवेश उवाचेति वचो द्विज ॥५६॥यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवतं द्रुतौततस्तौ दानवौ घोरौ भगवंतं जनार्दनम् ॥५७॥इत्यूचतुर्महामायौ महामायाविमोहितौअयमेव वरो दत्तो भवते नात्र संशयः ॥५८॥मारयावां विना वारि मही यत्र जनार्द्दनमहासुरौ ततस्तौ तु आनीय जघनं प्रति ॥५९॥निहतौ सहसा विप्र चित्रया चक्रधारयाचक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैटभौतुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ॥६०॥ब्रह्मोवाच-नमो नमस्ते परमेश्वराय प्रपन्नसर्वार्तिविनाशनायनमो नमस्ते त्रिगुणात्मकाय नारायणायामितविक्रमाय ॥६१॥त्वत्पादपाथोजयुगं प्रपन्ना जनाः क्वचिन्नो विपदं मनुष्याःएतन्मया ज्ञातमनंतकीर्ते सद्यो हृतेयं महती ममापत् ॥६२॥योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश त्वं देवदेवशरणागतपालकेशत्वं निर्द्दयोऽरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ ॥६३॥यद्यप्यत्यंतकठिनौ मधुकैटभौ तौ मन्ये तथापि स्वजनाविह चेतसाहम्यस्मात्स्वजीवनविनाश वरप्रदानैः संतोषितोऽखिलशुभप्रद ईश्वरस्त्वम् ॥६४॥रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यंति सर्वरिपवः स्वकुलैः समेताःवृद्धिं व्रजंति सुहृदोऽखिलबांधवाश्च यं पश्यसि त्वममरेश दयाभिरत्र ॥६५॥लक्ष्मीमुखांबुज मधुव्रत देवदेव संसारलोकभयशोकविनाशकारिन्त्वच्चारुपादकमलद्वयमाश्रयंतं मां पाहि नाथ कृपया सततं नमस्ते ॥६६प्रसीद पुण्डरीकाक्ष प्रसीद कमलेश्वरप्रसीद सर्वभूतेश विश्वंभर नमोस्तु ते ॥६७॥नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिनेनमस्ते ज्ञानरूपाय शरणं मे भवानघ ॥६८॥नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमःपरित्राहि परित्राहि परित्राहि जगन्मय ॥६९॥व्यास उवाच-एतैरन्यैरपि स्तोत्रैर्ब्रह्मणा लोककारिणास्तुतः स देवो भगवान्परमां प्रीतिमाययौ ॥७०॥श्रीभगवानुवाच -स्तोत्रेणानेन ते भक्त्या तुष्टोऽस्मि कमलासनकिमस्त्यभिमतं ब्रूहि तत्ते दास्याम्यहं भुवि ॥७१॥ब्रह्मोवाच-यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मयनापदस्तव भक्तानां भवंत्विति वरो मम ॥७२॥श्रीभगवानुवाच-एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरःमद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले ॥७३॥वैष्णवानां शरीरेषु सततं निवसाम्यहम्लभंते नापदस्तस्मात्कदाचिद्वैष्णवा नराः ॥७४॥ब्रह्मोवाच-सर्वमेव जगन्नाथ त्वया दत्तं न संशयःयद्येतौ च महादैत्यौ संग्रामे विनिपातितौ ॥७५॥कियत्कालं समासाद्य स्तोत्रेणानेन वै प्रभोस्तौति त्वां परया भक्त्या तस्य त्राता भविष्यसि ॥७६॥अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसेस त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महत् ॥७७॥क्षणमात्रमपि स्वामिंस्त्वयि तुष्टेन किं भवेत्स त्वं वैष्णवसंगेन भ्रमसीत्यद्भुतं महत् ॥७८॥के वैष्णवाः कैटभारे किं वा तेषां च लक्षणम्कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव ॥७९॥श्रीभगवानुवाच-वैष्णवानां लक्षणानि कल्पकोटिशतैरपिसम्यग्वक्तुं न शक्तोऽस्मि संक्षेपाच्छृणु सत्तम ॥८०॥संसारो वैष्णवाधीनो देवा वैष्णवपालिताःअहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः ॥८१॥क्षणमात्रमपि ब्रह्मन्विहाय वैष्णवं जनम्तिष्ठामि नाहमन्यत्र वैष्णवा मम बांधवाः ॥८२॥कामक्रोधविहीना ये हिंसादंभविवर्जिताःलोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः ॥८३॥अमत्सरा दयायुक्ताः सर्वभूतहितैषिणःसत्योक्तिभाषिणश्चैव विज्ञेयास्ते च वैष्णवाः ॥८४॥धर्मोपदेशिनश्चैव धर्माचारधरास्तथागुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः ॥८५॥समानं ये च पश्यन्ति त्वां च मां च महेश्वरम्कुर्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ॥८६॥वेदविद्यानिरुक्ता ये विप्र भक्तिरताः सदानपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ॥८७॥एकादशीव्रतं ये च भक्तिभावेन कुर्वतेगायंति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ॥८८॥देवायतनकर्तारस्तुलसीमाल्यधारकाःपद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ॥८९॥शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैःब्रह्मन्येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ॥९०॥धात्रीफलस्रजो येषां गलेषु कमलासनमां पूजयंति तत्पत्रैर्ज्ञेयास्ते वैष्णवा जनाः ॥९१॥तुलसीमूलमृद्भिश्च तिलकानि नयंति येतुलसीकाष्ठपंकैश्च ज्ञेयास्ते वैष्णवा जनाः ॥९२॥गङ्गास्नानरता ये च गङ्गानामपरायणाःगङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवा जनाः ॥९३॥शालग्रामशिला येषां गृहे वसति सर्वदाशास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवा जनाः ॥९४॥संमार्जयंति ये नित्यं मम स्थानानि सत्तमदीपं यच्छंति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ॥९५॥शीर्णं मन्मंदिरं ये च कुर्वन्ति नूतनं पुनःतत्रायतनशोभां च ज्ञेयास्ते वैष्णवा जनाः ॥९६॥अभयं ये च यच्छन्ति भीरुभ्यश्चतुराननविद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ॥९७॥मत्पादसलिलैर्येषां सिक्तानि मस्तकानि चमम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवा जनाः ॥९८॥क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छंत्यन्नमंबु चकुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥९९॥आरामकारिणो ये च पिप्पलारोहिणोऽपि चगोसेवां ये च कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥१००॥ अत्यन्तभक्ता ये ब्रह्मन्पितृयज्ञं प्रकुर्वतेकुर्वन्ति दीनशुश्रूषां ज्ञैयास्ते वैष्णवा जनाः ॥१०१॥तडागग्रामकर्तारः कन्यादानरताश्च येसेवंते श्वशुरौ ये च ज्ञेयास्ते वैष्णवा जनाः ॥१०२॥सेवंते ज्येष्ठभगिनीं ज्येष्ठभ्रातरमेव चपरनिंदां न कुर्वंति ज्ञेयास्ते वैष्णवा जनाः ॥१०३॥वैष्णवेषु गुणाः सर्वे दोषलेशो न विद्यतेतस्माच्चतुर्मुख त्वं च वैष्णवो भव सांप्रतम् ॥१०४॥समाराधय मां नित्यं क्रियायोगैः प्रजापतेसर्वमेवाशु भद्रं ते भविष्यति न संशयः ॥१०५॥देवस्वं ब्राह्मणद्रव्यं परस्वं च चतुर्मुखपश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः ॥१०६॥पाखंडभक्तिरहिताः शिवभक्तिपरायणाःचतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः ॥१०७॥बहुनात्र किमुक्तेन भाषितेन पुनः पुनःममार्चां ये च कुर्वंति विज्ञेयास्ते च वैष्णवाः ॥१०८॥भूयः पूर्वस्थितमिव सृज्यतां सकलं जगत्इत्युक्त्वांतर्द्दधे देवस्तत्रैव परमेश्वरः ॥१०९॥ततस्तु पूर्ववद्ब्रह्मा सृष्टवान्सकलं जगत्क्रियायोगैर्हरिं चेष्ट्वा जगाम परमं पदम् ॥११०॥ये पठंती ममध्यायं भक्त्या नारायणाग्रतःसर्वपापविनिर्मुक्ता अन्ते यान्ति हरेर्गृहम् ॥१११॥इति श्रीपाद्मे महापुराणे क्रियायोगसारे द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP