संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः १२ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः १२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२ Translation - भाषांतर व्यास उवाच-फाल्गुने ब्राह्मणश्रेष्ठ श्रीकृष्णं सुरवंदितम्पूजयेद्भक्तिभावेन प्रत्यहं वैष्णवो जनः ॥१॥फाल्गुने स्नापयेद्यस्तु सर्पिषा देवकीसुतम्फलं तस्य प्रवक्ष्यामि यतः सम्यङिनशामय ॥२॥सर्वयज्ञफलं प्राप्य सर्वदानफलं तथाअंते याति हरेः स्थानं सर्वपापविवर्जितः ॥३॥युगकोटिसहस्राणि भुक्त्त्वा भोगं हरेर्गृहेतत्रैव मोक्षमाप्नोति संप्राप्य ज्ञानमुत्तमम् ॥४॥यस्तु यच्छति कृष्णाय शिशिरे गोपमूर्तयेतिलानां मोदकं दिव्यं स गच्छेद्धरिमंदिरम् ॥५॥यो दुग्धलड्डुकान्दद्यात्केशवाय महात्मनेस पिबेदमृतं स्वर्गे मन्वंतरशतावधि ॥६॥हरये ललितं खंडं यस्तु यच्छति जैमिनेतस्य विष्णुः प्रसन्नात्मा छिनत्ति भवबंधनम् ॥७॥विचित्रं फलितं दिव्यं दद्याद्भगवते द्विजअंते शक्रपुरं गत्वा स भवेत्सुरवंदितः ॥८॥निर्मलां शर्करां यच्छेद्यस्तु कृष्णाय भक्तिमान्स किं न लभते विप्र वासुदेवप्रसादतः ॥९॥सुपक्वं फाल्गुने मासि मधुरं बदरीफलम्यस्तु यच्छति कृष्णाय फलं तस्य निशामय ॥१०॥इह भुङ्क्ते सुखं सर्वं पुत्रपौत्रसमन्वितःअंते हरेर्गृहं याति रथमारुह्य शोभनम् ॥११॥न दद्याद्गुडसंयुक्तं हरये बदरीफलम्अज्ञानाद्ब्राह्मणश्रेष्ठ दद्याच्चेन्नारकीभवेत् ॥१२॥फाल्गुने मासि यो दद्याद्धरये दाडिमीफलम्सुपक्वं तत्फलं विप्र वदतो मे निशामय ॥१३॥तत्र यावंति बीजानि तिष्ठंति दाडिमीफलेतावन्मन्वंतरं विष्णोर्गृहे तिष्ठति भाग्यवान् ॥१४॥फाल्गुने मासि यो दद्याद्धरये गुडपिष्टकम्स विज्ञेयो द्विजश्रेष्ठ वाजिमेधसहस्रकृत् ॥१५॥चैत्रे मासि द्विजश्रेष्ठ मधुना मधुसूदनम्स्नापयेल्लभते मर्त्यस्तद्विष्णोः परमं पदम् ॥१६॥मधुना स्नापयेद्यस्तु नारायणमनामयम्न चर्चा क्रियते तस्य कदाचिद्रविसूनुना ॥१७॥चैत्रे किंशुकपुष्पेण योऽर्चयेत्कमलापतिम्तन्नाम चित्रगुप्तेन पंजिकायां न लिख्यते ॥१८॥चैत्रके जगतामीशं कृष्णं तिलकपुष्पकैःपूजतो नास्ति वै जन्म पुनरस्मिन्महीतले ॥१९॥कृष्णवंजुलपुष्पेण सर्वदेवशिरोमणिम्पूजयन्मनुजो विप्र लभते नापदं क्वचित् ॥२०॥वासंतीभिः सुगंधीभिर्वसंते यस्तु पूजयेत्भगवंतं प्रसन्नात्मा स देवैरपि पूज्यते ॥२१॥तथा किसलयैर्दिव्यैरखण्डैर्योऽर्चयेद्धरिम्तं वंदते समुत्थाय स्वयं पीठासनोपि च ॥२२॥धात्रीपत्रैर्नवैर्यस्तु कोमलैर्हरिमर्चयेत्अचिरेणैव लभते सकलं वांछितं जनः ॥२३॥शांडिल्या खंडपत्रैश्च धत्तूरैश्चार्कपुष्पकैःयोऽर्चयेद्विष्णुमीशं च स संसाराब्धिपारगः ॥२४॥यो दद्याद्विष्णवे विप्र कदलीफलमुत्तमम्शक्राद्यास्त्रिदशाः सर्वे वंदंते तमहर्निशम् ॥२५॥यो दद्याच्चैत्रके मासि भक्त्या गोपालरूपिणेगोधूमपिष्टकं विप्र सर्वपापैः प्रमुच्यते ॥२६॥आयाते माधवे मासि पवित्रे माधव प्रियेआमिषं मैथुनं तैलं विष्णुभक्तः परित्यजेत् ॥२७॥प्राप्तः समाचरेत्स्नानं माधवे मासि वैष्णवःपरित्यजेत्परान्नं च न कुर्याच्च द्विभोजनम् ॥२८॥प्रभाते पूजयेद्विष्णुंपू र्वोक्तविधिना द्विजवैशाखे स्नापयेद्विष्णुं पुष्पवासितवारिणा ॥२९॥स्नापयेच्छीततोयेषु संध्यापर्यंतमच्युतम्त्रिसंध्यं पूजयेद्भक्त्या नैवेद्यैर्विविधैः प्रभुम् ॥३०॥वैशाखे दमनस्रग्भिर्लक्ष्मीपतिरलंकृतःन किं ददाति विप्रर्षे प्रसन्नः परमेश्वरः ॥३१॥वैशाखे मासि यो दद्याद्यवान्नं चक्रपाणयेतस्य पुण्यानि संख्यातुं कः समर्थोऽस्ति पंडितः ॥३२॥यत्किंचिन्माधवे मासि माधवप्रीतिहेतवेदीयते माधवायैव तत्सर्वमक्षयं भवेत् ॥३३॥यदन्यत्सुकृतं कर्म क्रियते मासि माधवेमाधवप्रीतये विप्र क्षयस्तस्य न विद्यते ॥३४॥वैशाखे मासि यः कुर्यात्प्रपां माधवतुष्टयेदिनेदिनेऽश्वमेधस्य फलमाप्नोति मानवः ॥३५॥वैशाखो दुर्ल्लभो मासः सर्वकर्मफलप्रदःपूजितव्यो हरिस्तत्र हित्वा कर्मशतान्यपि ॥३६॥एकाहमपि यः पूजां वैशाखे कुरुते हरेःपड्वर्षं हरिं पूजित्वा यत्फलं लभते स तत् ॥३७॥वैशाखे मासि यो नित्यं विष्णुमश्वत्थरूपिणम्चतुर्वर्गफलप्राप्तिहेतवे वैष्णवो जनः ॥३८॥गण्डूषमात्रतो येन कुर्याद्योऽश्वत्थसेवनम्सोऽपि याति परं स्थानं विमुक्तः कोटिपातकैः ॥३९॥अश्वत्थमूलं विप्रर्षे यो बध्नाति शिलादिभिःअश्वत्थरूपी भगवान्किं किं तस्मै न यच्छति ॥४०॥अश्वत्थद्रुममालोक्य प्रणामं कुरुते यदिसोऽपि याति परं स्थानमायुर्वृद्धिर्न संशयः ॥४१॥यदश्वत्थतले विप्र धर्मकर्म करोति यःन्यूनातिरिक्तता न स्यात्तस्मिन्कर्मणि जैमिने ॥४२॥तत्र तीर्थानि सर्वाणि त्रिस्त्रोतादीनि जैमिनेयत्राश्वत्थतरुस्तिष्ठेदेकोपि शाखिनां वरः ॥४३॥अश्वत्थं पूजयेद्यस्तु स एव विष्णुपूजकःअश्वत्थमूर्तिर्भगवान्स्वयमेव यतो द्विज ॥४४॥अवज्ञानाद्दिवजश्रेष्ठ योऽश्वत्थं हंति मूढधीःसंसारे नास्ति तत्कर्म यत्कृत्वा स च शुद्ध्यति ॥४५॥अश्वत्थो वृक्षराजोऽयं हरिमूर्तिः प्रकीर्तितःतस्मादश्वत्थहंतॄणां त्राता कोऽपि न विद्यते ॥४६॥अश्वत्थं पश्यतो विप्र स्पृशतः परतस्तथादेहस्थं पातकं सर्वं हरेत्प्रणमतो हरिः ॥४७॥विलोक्याश्वत्थहंतारं यः शक्तो न निवारयेत्तन्नेत्रयुग्मं बडिशैर्यमेनोत्पाट्यते स्वयम् ॥४८॥अश्वत्थच्छेदनं मूढो मा कुर्विति वदेन्न यःतस्य जिह्वां छुरिकया स्वयं कृंतति प्रेतराट् ॥४९॥अश्वत्थशाखामेकां यः स्वल्पामपि निहंति वैस कोटिब्रह्महत्यानां फलमाप्नोति मानवः ॥५०॥यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमनेन चसुरापाने तथास्तेये न्यासापहरणेऽपि च ॥५१॥यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तमस्त्रीहत्यायां च यत्पापं परस्त्रीगमने तथा ॥५२॥शरणागत हत्यायां हत्यायां सुहृदस्तथाविश्वासवाक्याकथने पतिहिंसाविधौ च यत् ॥५३॥यत्पापं परनिंदायां हरिवासरभोजनेअश्वत्थच्छेदनाद्धोरं तत्पापं प्राप्यते जनैः ॥५४॥विष्णुमूर्त्तेर्जनो मोहादश्वत्थस्य निहंति यःतत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमंडले ॥५५॥वदाम्यश्वत्थमाहात्म्यं सर्वपापविनाशनम्सेतिहासं द्विजश्रेष्ठ शृणु वत्स समाहितः ॥५६॥पूर्वं धनंजयो नाम ब्राह्मणो हरिभक्तिकृत्आसीत्त्रेतायुगे विप्र सर्वप्राणिहिते रतः ॥५७॥ज्ञातिपूजारतो नित्यं दीपदाने रतः सदासत्यवादी जितक्रोधो हिंसादंभविवर्जितः ॥५८॥मुमुक्षुः स द्विजश्रेष्ठ सर्वदा परमेश्वरम्पूजयामास परया भक्त्या नारायणं प्रभुम् ॥५९॥तस्य भक्तिं ततो ज्ञात्वा महतीं सुदृढां प्रभुःजहार सकलं वित्तं हेतुमात्रेण केनचित् ॥६०॥तथापि स द्विजश्रेष्ठः केशवस्य महात्मनःपूजामनुदिने चक्रे भक्त्या परमया सुधीः ॥६१॥दुःखेनोपार्जितं वित्तं विनष्टं सकलं द्विजदृष्ट्वापि तेन विप्रेण दुःखेनाचिंत्यचेतसा ॥६२॥भक्षणे वर्जनं चक्रे स विप्रः परमार्थवित्महाविष्णुसपर्यायां दृढं बद्ध्वा मनो निजम् ॥६३॥भूयोऽपि तस्य विप्रस्य भक्तिं ज्ञात्वा जनार्दनःचकार बंधुविच्छेदं सुदृढः शमदस्ततः ॥६४॥बांधवास्तस्य विप्रस्य विष्णुमायाविमोहिताःहिंसामारेभिरे कर्तुं सर्वदैव द्विजोत्तम ॥६५॥ततो विप्रो हि निर्वृत्तो निर्बंधैः पुरुषोत्तमम्पूजयामास सततं प्रीतः प्रचुरभक्तितः ॥६६॥परिकल्प्य च भूदेवो धनं केशवपूजनेमाधवं च जगन्नाथं सबंधुशुचमत्यजत् ॥६७॥भूय एव महाविष्णुः कौतुकी तस्य जैमिनेजहार सानुकंपोऽपि पुत्रानपि दिने दिने ॥६८॥तथापि स द्विजश्रेष्ठः केशवं क्लेशनाशनम्पूर्वद्विगुणया भक्त्या नित्यं विष्णुमपूजयत् ॥६९॥तस्य पत्नी ततो विप्र दुःखशोकातिदुःखितापितृगेहं गता विष्णोर्मायया परिमोहिता ॥७०॥अथैकाकी स भूदेवो विष्णुभक्तिपरायणःविपदं चिंतयामास न कदापि सुचेतसा ॥७१॥एकदा स द्विजश्रेष्ठ विष्णुभक्तिमतां वरःस्कंधे परशुमादाय काष्ठार्थं विपिने ययौ ॥७२॥वनात्काष्ठं समादाय नित्यमेव च स द्विजःहिमागमे वस्त्रहीनः कुरुते शीतवारणम् ॥७३॥कदाचिद्विपिनं गंतुं नाशक्नोद्दिवजसत्तमःजघान प्रांगणस्थस्य शाखामश्वत्थशाखिनः ॥७४॥अत्रांतरे महाविष्णुस्तस्मादश्वत्थ पादपात्निश्चक्राम सुरश्रेष्ठो व्यथाव्यथितमानसः ॥७५॥ददर्श विष्णुं पुरतः स विप्रश्चतुर्भुजं पद्मदलायताक्षम्पीतांबरं कुडलिनं सुकेशं दधानमब्जादि निजायुधानि ॥७६॥परिस्रवद्विस्तररक्तधारा संध्यासु शोणीकृतनव्यमेघम्विभावसुं चैव सुखं परेशं संदृश्यते देवगणैरदृश्यम्हर्षाश्रुधारा रुचिराक्षियुग्मस्तुष्टाव विप्रो मृदुलैर्वचोभिः ॥७७॥ब्राह्मण उवाच-हरे मुरारे जगदेकनाथ गोविंद दामोदर माधवेतिलक्ष्मीपते केशवकेशिशत्रो नारायणानंत विभो प्रसीद ॥७८॥तवावतारं किमहं ब्रवीमि त्वया विना नास्ति भुवीह कोऽपिकिं वा गुणव्याप्तसमस्तलोकं किं वा दयां मित्रपरैकतुल्याम् ॥७९॥दत्वा स्वीयां कस्यचिदीश विष्णो भक्तिं हरस्य च्युतदेहसंस्थाम्श्रियं समादाय मुदं प्रदास्ये भक्तिः प्रदत्तामहतः सुधन्या ॥८०॥मन्ये महात्मानमनंतमूर्त्ते पापात्मनां श्रेष्ठमिवानिशं यत्तदर्थमेवांघ्रियुगं त्वदीयं न पातकी पश्यति दैवचिंत्यम् ॥८१॥यद्यप्यहं दुःखवतां वरिष्ठो मन्ये तथापीन्द्रमिवाद्य विष्णोआत्मानमात्मा जगतां भवंतं साक्षात्समीक्षेयत ईक्षणाभ्याम् ॥८२॥पूजां तवाल्पामपि वेद्मि नाहं द्रव्यं कदापि न ददामि तुभ्यम्तथापि चाग्रे मम मूर्तिमांस्त्वं दृष्टोसि मे केशव एक पूज्यः ॥८३॥दत्तस्त्वयायं ममभक्ति वृक्षो धमार्थकामत्रय एव सोऽयम्त्वद्दर्शनांभो मयवृष्टिसिक्तः प्रभोऽद्यकैवल्यफलं दधार ॥८४॥मूर्धा मदीयोऽखिललोकमूर्ध्नां श्रेष्ठो भवेत्केशवविश्वमूर्तेःत्वत्पादपाथोजयुगेमनो मे संयाति वै संप्रतिदेवदेव ॥८५॥व्यासउवाच-इत्थं स्तुत्वा जगन्नाथं नारायणमनामयम्कृतांजलिपुनःप्राह भक्त्या तमिति स द्विजः ॥८६॥ब्राह्मण उवाच-देवदेव जगन्नाथ लोकानुग्रहकारककशाप्रहरणैरेतद्गात्रं ते रुधिरोक्षितम् ॥८७॥सर्वेषामेव दैत्यानां युधि वंशास्त्वया हताःत्वां हंतुं कः क्षमः पृथ्व्यां प्रभोऽद्भुतमिदं महत् ॥८८॥भगवानुवाच-वत्स सत्यमिदं प्रोक्तं त्वया नास्त्यत्र संशयःदानवो राक्षसो वापि मां हंतुं कोऽपि न क्षमः ॥८९॥अश्वत्थमूतिरेवाहं कुठारेण हतस्त्वयाअतोऽजनि शरीरे मे रक्तपातोऽधुना द्विज ॥९०॥व्यास उवाच-तस्यवाक्यमिदं श्रुत्वा स विप्रो भयविह्वलःनिनिंद स्वयमात्मानमात्मना बहुधा द्विजः ॥९१॥धिगस्तु तत्वतो भाग्यं सर्वपातकिनां वरम्त्रैलोक्याधिपतेर्दाता हृदये महतीं व्यथाम् ॥९२॥सर्वपापहरो विष्णुः समया व्याधितः कृतःएतत्पापं मया पारं कर्तुं नैकेन शक्यते ॥९३॥यस्मिंस्तुष्टे पापिनोऽपि भवंति सुरवंदिताःमद्दत्तया स व्यथया व्यथितो हा हतोऽस्म्यहम् ॥९४प्रसादयंति यं देवा ब्रह्माद्या अतिभक्तितःअहो मया पापवता तस्य दत्ता हृदि व्यथा ॥९५॥किं तपोभिर्जपैः किं वा किं गृहैर्जीवनैश्च मेधर्मार्थकाममोक्षाणां दातैकोऽयं व्यथातुरः ॥९६॥इत्युक्त्वा स द्विजश्रेष्ठ तमेव परशुं निजेदातुं कंठे मनश्चक्रे विष्णुप्रीणनहेतवे ॥९७॥तस्यभक्तिं दृढां ज्ञात्वा दयालुः कमलापतिःतद्धस्तात्तत्परं निन्ये जवेन भक्तवत्सलः ॥९८॥श्रीभगवानुवाच-कथं त्वमेव कुरुषे वत्स कर्मातिदारुणम्आत्महत्याकृतां पुंसां तुष्टोस्मि न कदाप्यहम् ॥९९॥तव भक्त्यातितुष्टोऽस्मि भीतिं मा कुरुसत्तमवरं वरय विप्रेन्द्र यत्ते मनसि वर्तते ॥१००॥ब्राह्मण उवाच-मया व्यथाप्रदत्तेयं महती परमेश्वरमा तिष्ठतु शरीरे ते याचे वरमिमं प्रभो ॥१०१॥श्रीभगवानुवाच-अज्ञानाद्भवता वत्स कर्मेदं विहितं द्विजअतोऽपराधो नेतव्यो महानपि न ते यथा ॥१०२॥नित्यं तवानुपाल्योऽस्मि भक्तश्रेष्ठो यतो भवान्भवदीयानहं मन्ये दोषान्वत्स दिनेदिने ॥१०३॥तथापि ममभक्तिस्ते ववृधे महती सदातस्माद्वत्स तवानृण्यं गंतुमिच्छामि संप्रति ॥१०४॥विहाय सकलां भीतिं वंर वृणु ममाग्रतःब्राह्मण उवाच-त्वयि सर्वसुरश्रेष्ठ मम जन्मनिजन्मनि ॥१०५॥तिष्ठतां सुदृढा भक्तिर्हरे किमपरैर्वरैःव्यास उवाच-श्रुत्वा वाक्यमिदं तस्य केशवप्रणयोदितम् ॥१०६॥निजकण्ठस्थितां मालां प्रीतस्तस्मै ददौ ततःसमालिङ्ग्य ततो विप्रं पिता पुत्रमिव प्रभुः ॥१०७॥चतुर्भिर्बाहुभिर्दीर्घैरुवाच मृदुलं वचःश्रीभगवानुवाच-मद्भक्तोऽसि यदा विप्र तथा ते मत्प्रसादतः ॥१०८॥अचिरेणैव सकलं भद्रं विप्र भविष्यतिअश्वत्थरूपं मां नित्यं क्रियायोगेन सत्तम ॥१०९॥समाराधय सर्वं ते साधयिष्यामि वांछितम्इत्युक्त्वा तं द्विजश्रेष्ठं भूयोऽप्यालिङ्ग्य केशवः ॥११०॥अभवत्सहसादृश्यस्तत्रैव करुणालयःविष्णोः कंठस्रजं प्राप्य स विप्रो वैष्णवोत्तमः ॥१११॥कृतकृत्यमिवात्मानं मत्वा तस्थौ निजेगृहेततः कुबेरो विप्रर्षे तस्य विप्रस्य सद्मनि ॥११२॥स्वयं ववर्ष वित्तानि बहूनि केशवाज्ञयाप्रासादो रचितस्तस्य शिल्पिना विश्वकर्मणा ॥११३॥नारायणाज्ञया तत्र वैजयंत इवोत्तमःदासदासीसमायुक्तो नानावस्तुविभूषितः ॥११४॥गजाश्वकोटिसंकीर्णं विबभौ तस्य मन्दिरम्बभुवुः संगतास्तस्य नष्टा अपि च बांधवाः ॥११५॥कृतावज्ञा च तत्पत्नी स्वयं तद्गृहमाययौमृतपुत्रापि तत्पत्नी केशवस्यानुकंपया ॥११६॥स्थिरप्रजाभवद्विप्र स्वामिभक्तिपरायणाचिरं भुक्त्वाखिलान्भोगान्पुत्रपौत्रसमन्वितः ॥११७॥आयुषोंऽते ययौ मोक्षं सदारो विप्रसत्तमःव्यास उवाच-साक्षादेव स्वयं विष्णुरश्वत्थो वृक्षसत्तमः ॥११८॥तद्भक्तिं कुर्वतां पुंसां विद्यते नाशुभं क्वचित्अश्वत्थं सेवते यस्तु विष्णुं ध्यात्वा नरोत्तम ॥११९॥तस्य प्रसन्नो भगवान्ददाति परमं पदम् ॥१२०॥इति श्रीपद्मपुराणे क्रियायोगसारे अश्वत्थमाहात्म्ये द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP