रत्नप्रभा नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अत्रान्तरे प्राणधरः समभ्येत्य स तक्षकृत् ।
ददौ यन्त्रविमानं तत्तस्मै वज्रधरानुजः ॥५०३॥
तदाकर्ण्य नरेन्द्रेण पूजितो दयितासखः ।
सगोमुखप्राणधरः प्रययौ नरवाहनः ॥५०४॥
पुनस्त्वां प्राप्तविद्योऽहं समेष्यामीति सादरम् ।
स वज्रधरमाभाष्यकौशाम्बीं तूर्णमभ्ययात् ॥५०५॥
तत्र प्रणम्य वत्सेशं प्रहर्षविहितोत्सवम् ।
जनन्यौ च प्रियां प्राप्य विरहापाण्डुराननाम् ॥५०६॥
रत्नप्रभां स्फुरत्काममौलिरत्नप्रभामिव ।
कर्पूरमञ्जरीं भेजे मदनोद्यानमञ्जरीम् ॥५०७॥
अथ विलसदमन्दानन्दनिष्यन्दसिन्धुः
प्रणयभुवि दधानश्चारु कर्पूरवल्लीम् ।
स्मरविजयपताकां तां च रत्नप्रभाख्या -
मुचितसचिवनर्मस्मेरवक्त्रो रराज ॥५०८॥

इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां रत्नप्रभा नाम चतुर्दशो लम्बकः ।

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP