संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| इन्दीवरसेनाख्यायिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम इन्दीवरसेनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत इन्दीवरसेनाख्यायिका Translation - भाषांतर इति सत्त्ववचोवृत्तं कथितं मरुभूतिना । वसन्तकः समभ्येत्य नरवाहनमभ्यधात् ॥४०८॥ मृगयारसिको गन्तुं देवो वत्सनरेश्वरः । प्रस्तुतस्त्वं च सोत्कण्ठो वनिनं द्रष्टुमिच्छसि ॥४०९॥इत्याकर्ण्य प्रियतमामामन्त्र्य विरहाकुलाम् । वनं गजरथानीकैः सह पित्रा ययौ क्षणात् ॥४१०॥( निघ्नन्कुञ्जरशार्दूलवराहहरिणान्वने । विजहार तुरङ्गेण कान्तां रत्नप्रभां स्मरन् ॥४११॥ ततःस च जवोत्कृष्टतुरङ्गो ) निश्चलासनः । ललास गुलिकाकेलितालटङ्कारसुन्दरः ॥४१२॥तस्य कङ्कणझाङ्कारकरस्फाटिकनिर्मिता । गुलिका मूर्च्छिता यस्याः पपात विशदत्विषः ॥४१३॥साब्रवीद्व्रतसौभाग्यदर्पस्ते राजपुत्रकः । कर्पूरमञ्जरीं कान्तां प्राप्य कीं न करिष्यसि ॥४१४॥नरवाहो निशम्येति प्रसाद्य मुनियोषितम् । कर्पूरमञ्जरी क्कासाविति पप्रच्छ कौतुकात् ॥४१५॥ सवदज्जलधेः पारे कर्पूरद्वीपवासिनः । राज्ञः कर्पूरचन्द्रस्य सुता कर्पूरमञ्जरी ॥४१६॥यस्याः कुवलयच्छायैर्लोचनांशुभिरङ्कितम् । शङ्के शशाङ्क लावण्यशेषेण विदधे विधिः ॥४१७॥गच्छ तां प्राप्स्यसि क्षिप्रमुत्युक्त्वा सा तिरोदधे । प्रतस्थे गोमुखसखो नरवाहोऽपि तां दिशम् ॥४१८॥चिरात्प्रतिनिवृत्तोऽथ वनाद्वत्सनरेश्वरः । ( अपश्यन्दयितं पुत्रमभूच्छोकानलाकुलः ॥४१९॥रत्नप्रभा ततोऽभ्येत्य वत्सराजं व्यजिज्ञपत् ।ज्ञातं मयार्यपुत्रस्य वृत्तं प्रज्ञप्तिविद्यया ॥४२०॥तापसीवचसा ज्ञात्वा कान्तां कर्पूरमञ्जरीम् ।स यातो वारिधेर्द्वीपं तत्समागमलालसः ॥४२१॥ आर्यपुत्रस्य रक्षायै मयातिविषमेऽध्वनि । विद्या मायावती नाम प्रेषिता क्लेशमञ्जरी ॥४२२॥इति स्नुषावचः श्रुत्वा हृष्टो वत्सनरेश्वरः ) । अमृतेनेव संसिक्तः सहसा धृतिमाप्तवान् ॥४२३॥नरवाहनदत्तोऽपि तुरङ्गेण सगोमुखः । व्रजन्ब्रह्मप्रभां विद्यां विवेद श्रेयसे स्थिताम् ॥४२४॥ तत्प्रभावेण दिव्यानि फलानि प्राप्य निर्वृतः ।सरश्च क्षुत्परिश्रान्तितॄष्णाः स सहसात्यजत् ॥४२५॥ततो दिनैः कतिपयैरवाप्य गहनं महत् । दिवाकरकरक्लान्तं तमभाषत गोमुखः ॥४२६॥अभूदिरावती नाम त्रिदिवस्पर्धिनी पुरी । त्यागसेनाभिधो राजा तस्यां शक्रप्रभोऽभवत् ॥४२७॥बभूवतुः प्रिये तस्य भार्ये रूपगुणाधिके । काव्यालंकारनाम्नी च देवी चाधिकसंगमा ॥४२८॥ स पुत्रार्थी फलयुगं तपसा पार्वतीवरात् । प्राप्य प्रत्ययमभ्यायात्प्रियामधिकसंगमाम् ॥४२९॥सा प्राप्य विधिना हृष्टा फलमेकं वरार्पिता । द्वितीयमपि चौर्येण भुक्त्वासूत सुतद्वयत् ॥४३०॥तमिन्दीवरसेनाख्यमनिच्छासेनमप्यसौ । विलोक्य काव्यालंकारा बभूव भृशदुःखिता ॥४३१॥ततः प्रवृत्तौ तौ जेतुं पृथिवीं पितुराज्ञया । सामात्यैर्विपुलानीकैर्जग्मतुः कुलशालिनौअ ॥४३२॥विचिन्त्य काव्यालंकारा करलेखैर्दिदेश तान् । अमात्यान्नृपतेर्नाम्ना वध्यौ राजसुताविति ॥४३३॥विचारयन्सुलेखार्थं करुणार्द्रेषु मन्त्रिषु । शङ्कितौ तौ प्रययतुर्नृपपुत्रौ महाटवीम् ॥४३४॥ विन्ध्याटव्यां परिश्रान्तौ तृष्णार्तौ पार्वतीस्मृते । बभूवतुः क्षणात्स्वस्थौ सिच्यमानाविवामृतैः ॥४३५॥अवाप तत्र सहसा खङ्ग दुर्गावरात्कृती । येनेन्दीवरसेनोऽभूद्दुर्जयस्त्रिदशैरपि ॥४३६॥अत्रान्तरे त्यागसेनो ज्ञात्वा पुत्रौ विवासितौ । काव्यालंकारया कूटं लेखैर्मन्त्रिसमर्पितैः ॥४३७॥ कारागृहे तां विन्यस्य निरस्यामात्यमण्डलम् ।शोचन्प्रदध्यौ तनयावश्विनाविव रूपिणौ ॥४३८॥अथेन्दीवरसेनोऽपि खङ्गी शैलपुराधिपम् । राक्षसं शैलद्रष्ट्राख्यं हत्वा मायाविनं रणे ॥४३९॥अवाप खङ्गदंष्ट्राख्यां तनयां नवयौवनाम् । तथा मदनदंष्ट्राख्यां पुष्पेषोर्जैत्रमायुधम् ॥४४०॥तत्र लीलावतीकेलिसरसो विलसन्मुहुः । निनाय सुबहून्मासान्सेव्यमानोऽनुजेन सः ॥४४१॥ततः खङ्गप्रभवाप्तविद्यया धिष्ण्यगामिनम् । सोऽनुजं प्रेषयामास स्ववृत्ताख्यापने पितुः ॥४४२॥ ( तस्मिन्गते खङ्गदंष्ट्रा स्नात्वा तूर्णं समागता । प्रियं मदनदंष्ट्रायाः कण्ठलम्बितमैक्षत ॥४४३॥ईर्ष्यावत्यथ तं खङ्गं वह्नौ कोपाज्जुहाव सा । खङ्गे निष्प्रभतां याते राजपुत्रोऽभवव्द्यसुः ॥४४४॥अत्रान्तरे निजकथां जनकाय निवेद्य सः ।अनुजस्तं समभ्येत्य ददर्श शवमग्रजम् ॥४४५॥शताभ्यां भ्रात्रुपत्नीभ्यां सह मर्तुं समुद्यतः । शुश्रावाकाशवचनं सुधाभ्रनिनदोपम म् ॥४४६॥ खङ्गे गौरीवरादस्मिन्पुनर्निर्मलतां गते । जीवत्येष निजां जातिं स्मृत्वा शापक्षयादिति ॥४४७॥राजपुत्रस्तत्र खङ्गं दग्धं गौरीवरात्पुय्नः । क्षिप्रं निर्मलमाधाय भ्रातरं समजीवयत् ॥४४८॥अथेन्दीवरसेनस्तं प्राप्तजीवोऽभ्यभाषत ।तुशारशैलशिखरे मुक्तापुरनिवासिनः ॥४४९॥सुतोऽस्मि मुक्तसेनस्य त्वं च विद्याधरप्रभो ।पद्मसेनाभिधानोऽहं रूपसेनस्तथा भवान् ॥४५०॥ पद्मा चन्द्रावती चेमे प्राग्भार्ये मे बभूवतुः । अरस्परेर्ष्याकलहैरेताभ्यां तापितः पुरा ॥४५१॥अवदं पितरं नित्यं वनं यामीति दुःखितः । स मद्वियोगनिर्विण्णॊ मां शशापाहितग्रहम् ॥४५२॥ येनाहं मर्त्यतां प्राप्तस्त्वं च मद्भक्तिसंश्रयात् ।मर्त्यत्वं पृथिवीं जित्वा यदा पित्रे प्रदास्यसि ॥४५३॥शापं तदा त्यक्ष्यसीति शान्तकोपोऽब्रवीत्स माम् । ततः परस्परं शापात्पत्न्यौ मे मत्कृते रुषा । अवाप्ते रक्षसो भावमित्युक्ता विरराम सः ॥४५४॥ततो विद्याधरपुरं प्रापतुस्ते सुलोचने ।ते च जातिस्मराः सर्वे त्यागसेनपुरं ययुः ॥४५५॥प्रणम्य पितरं तत्र सभार्यः सानुजोऽथ सः ।विजित्य पित्रे पृथिवीं ददौ खङ्गबलोत्कटः ॥४५६॥अथ वैद्याधरीं जातिं निवेद्य जनकाय सः । व्योम्ना मुक्तापुरं गत्वा भेजे लक्ष्मीं सहानुज ॥४५७॥ इत्येवं पृथुसत्त्वानां महतां क्लेशविप्लुषः । भवन्ति धैर्ययोगेन क्षिप्रमेव प्रयान्ति च ॥४५८॥इतिन्दीवरसेनाख्यायिका ॥१०॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP