संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| मदनमालाख्यायिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम मदनमालाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मदनमालाख्यायिका Translation - भाषांतर गोमुखाश्चर्यकथया प्रहृष्टं नरवाहनम् । रत्नप्रभासखं दृष्ट्वा मरुभूतिरभाषत ॥२४५॥ अनेकतुरगोदारकुञ्जरानीकसंकुलः । विक्रमादित्यनामाभून्नृपः पाटलिपुत्रके ॥२४६॥प्रतिष्ठानाधिनाथेन नरसिंहेन भूभुजा । जितः प्रतिज्ञा विदधे स वीरस्तत्पराजये ॥२४७॥रुद्धप्रवेशं मे द्वारि सूच्यमानं पुरःसरैः । द्रक्ष्यन्ति सेवकाः सर्वे नरसिंह न संशयः ॥२४८॥प्रतिज्ञायेति स ययौ तत्पुरं वेषयोषितः । गूढं कार्पटिको भूत्वा राजपुत्रशतैर्वृतः ॥२४९॥गृहं मदनमालायाः प्राप्य राजामृतोपमः । रममाणस्तया तस्थौ ( तत्काञ्चनकृतव्ययः ॥२५०॥अयं कोऽपि महासत्त्वः पृथिवीपालनोचितः । ध्रुवमित्यनिशं ध्यात्वां सा तस्थौ ) तत्प्रियव्रता ॥२५१॥प्रददौ नित्यमर्थिभ्यः स सुवर्णशतायुतम् । विद्यासु गुरुणा नूनं नकारं न हि शिक्षितः ॥२५२॥ततो मदनमालायास्तां भक्तिं गनयन्मुहुः । प्राह बुद्धिवरं नाम मन्त्रिणं वसुधाधिपः ॥२५३॥अकृत्रिममहो प्रेम धनत्यागो निरर्गलः । निर्विकारमहो सत्त्वमस्यास्तरलचक्षुषः ॥२५४॥शरीरविक्रयो यासां हेतुर्द्रविणसंचये । ( मया तदर्थाः क्षपिताः पश्य प्रेम्णो विजृम्भितम् ॥२५५॥प्रत्यहं दिव्यरत्नेन श्रमणेनास्मि सेवितः । प्रपञ्चबुद्धिमापूर्वं मन्त्रसाचिव्यसिद्धये ) ॥२५६॥तथेति प्रतिपन्नोऽहं मुक्तः स्वप्नेऽसुरारिणा । यागे त्वामेष पशुतां श्रमणो नेतुमुद्यतः ॥२५७॥हन्तुं पापो वक्ष्यति त्वां प्रणतिः क्रियतामिति । त्वं दर्शयेति वाच्योऽसौ त्वया तद्वधसिद्धये ॥२५८॥ तस्मिन्हते व्योमगतिर्भवितासीति शासनम् । स्वप्ने भगवतः प्राप्य तदकार्यं यथोदितम् ॥२५९॥ ततः प्रभृति मे जातः कुबेरो वरदः सखा । तद्धनैः पूरयाम्येनामद्य वारविलासिनीम् ॥२६०॥इत्युक्त्वा धनदं ध्यात्वा सुवर्णपुरुषान्ददौ । पञ्च तस्मै सदा येषां छिन्नमङ्गं प्रजायते ॥२६१॥तान्दत्वा व्योमगो गूढं स निजं नगरं ययौ । तद्वियोगाग्नितप्ता च सा तस्थौ निधनोद्यता ॥२६२॥छित्त्वा तान्बहुशो दत्वा द्विजेभ्यः काञ्चनान्नरान् । षण्मासानवथिं चक्रे प्राणत्यागे प्रियं विना ॥२६३॥ ( अत्रान्तरे तत्कनकपूर्णाञ्ज्ञात्वा द्विजन्मनः ) । भक्तिं मदनमालाया भूपतिः पुनराययौ ॥२६४॥चिरं संगमसंतोषप्रत्युज्जीवितया तया । रममाणश्चिरं तस्थौ स राजा गुप्तमन्दिरे ॥२६५॥नरसिंहोऽपि नृपतिस्तां पूर्वपरिसेविताम् । वाराङ्गनां समभ्यायात्ततः स्मृत्वा स्मरातुरः ॥२६६॥ द्वारपालेन विधॄतो नाम्ना तेनैव सूचित ।( विक्रमादित्यदेवोऽत्र तिष्ठति ब्रुवतेत्यतिः ) ॥२६७॥ ततः प्रतिज्ञासाफल्यं मेने राजान्तरं स्थितः । मनोरथार्थमुत्तीर्य सौहार्दं तेन भूभुजा ॥२६८॥विधाय विक्रमादित्यस्तां निनाय निजां पुरीम् । ( इति देव मृगाक्षीणां सहजप्रेमशालिनी । कुलेऽपि पण्यनारीणां भक्तिरव्यभिचारिणी ) ॥२६९॥इति मदनमालाख्यायिका ॥६॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP