संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| महासत्त्वाख्यायिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम महासत्त्वाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत महासत्त्वाख्यायिका Translation - भाषांतर अलंकारवती श्रुत्वा पत्युरित्युचितं वचः । उवाच देव धन्यस्य किं नाम तव दुर्लभम् ॥३२॥व्रतिनां दान्शीलानां भक्तानां पार्वतीपतौ । अधीनाः सिद्धयः सर्वाः कियन्मात्रं तु पुत्रकाः ॥३३॥राजा विक्रमतुङ्गोऽभूत्पुरे पाटलिपुत्रके । यत्सत्त्वकौमुदीधौता विबबहु भुवनावली ॥३४॥ इन्दीवरप्रभा नाम तस्येन्दीवरलोचना । बभूव भार्या मर्यादा धातुर्लावण्यकौशले ॥३५॥स कदाचिन्मृगक्रीदारणकेलिकुतूहली । विवेश विपिनं धन्वी विचित्रदृढसौष्ठवः ॥३६॥तत्रापश्यन्मन्त्रसिध्द्यै बिल्वहोमपरायणम् । द्विजं ज्वलित्सप्तार्चिःपिङ्गीकृतदिगन्तरम् ॥३७॥यदा काञ्चनतां याति श्रीफलं पावकान्तरे । तदा मन्त्रस्य सिद्धस्य लक्षणं कथितं बुधैः ॥३८॥जुह्वतस्तस्य रुचिरं न फलं प्राप हेमताम् । ततो राजा समभ्येत्य ददर्शाहुतितत्परम् ॥३९॥तं दृष्ट्वा ज्वलिते वह्नौ बिल्वमेकं स कौतुकाम् । चिक्षेप तत्क्रुधा विप्रो भ्रुकुटीभीषणोऽभवत् ॥४०॥अस्नातस्त्वमनाचम्य सर्वस्पर्शो विश्रृङ्खलः । वह्नौ जुहोषि पापात्मन्नित्याह स महीपतिम् ॥४१॥तत्फलं भूभुजा क्षिप्रं द्विजेन फलमण्डलम् । हुतं राज्ञः काञ्चनतां यावन्नैव द्विजन्मनः ॥४२॥तद्विलोक्याद्भुतं विप्रो विस्मयस्थगिताकृतिः । बभूव मन्त्रगणनाविच्छेदाद्विचलाधरः ॥४३॥ततः स्वयं जातवेदाः समुत्थाय महीभुजे । ददौ फलं स्वहस्तेन तदपृच्छच्च सोऽग्रजः ॥४४॥भगवन्नियमस्थस्य न मेऽद्यापि प्रसीदसि । विकीर्णाचारमनसः कथं तुष्टेऽसि भूपतेः ॥४५॥इत्युक्तः सोऽब्रवीद्वह्निः संकल्पोऽस्याभवद्दृढः । शिरश्छित्वा जुहोमीति दर्शनेन विना मम ॥४६॥त्वं तु शुष्कक्रियातन्त्रः केवलं मन्त्रसाधकः । सिद्धिः सत्त्ववतामेव संकोचो ह्यतिसंयमः ॥४७॥इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्यधात् । तस्यैव वाक्याद्विप्रं तं विधायान्तरधीयत् ॥४८॥ततः स्वनगरीं गत्वा महासत्त्वो महीपतिः । इन्दीवरप्रभासक्तश्चचारोद्यानभूमिषु ॥४९॥धातुवादी ततोऽभ्येत्य धातुशर्माभिधो वचः । तमभ्यधादहं ताम्रं विदधे देव काञ्चनम् ॥५०॥हेमकारं समाहूय द्राविते शुल्बपिण्डके । स्वैरं राज्ञा समादिष्टो बहु चिक्षेप चूर्णकम् ॥५१॥हृते यक्षकुमारेण तत्र चूर्णे मुहुर्मुहुः ।न तत्कनकतां प्राप विघ्नेनादॄश्यमूर्तिना ॥५२॥नरेश्वरोऽथ चिक्षेप चूर्णं तत्कौतुकात्स्वयम् । तच्चूर्णपातात्सर्वं तत्प्रययौ जातरूपताम् ॥५३॥इत्येवं शुद्धसत्त्वानामनपेक्षितसंयमाः । भवन्ति सिद्धयो देव त्वं च सत्त्ववतां वरः ॥५४॥इति महासत्त्वाख्यायिका ॥२॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP