संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| वज्रधराख्यारिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम वज्रधराख्यारिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वज्रधराख्यारिका Translation - भाषांतर गोमुखेनेति कथितं निशम्य नरवाहनः । धीरः प्रतस्थे सोत्कण्ठवल्लभाध्यासितां दिशम् ॥४५९॥ ततो ददर्श रुचिरं सुमेरुशिखरोपम म् । संगमं नाम नगरं काञ्चनोत्तालतोरणम् ॥४६०॥ न तत्र पुरुषः कश्चिद्दृश्यते ललनापि वा । केवलं यन्त्ररचिता भान्ति काष्ठमया नराः ॥४६१॥स प्राप्यान्तःपुरं हैमं ददर्श स्फटिकासने । सजीवमेकं पुरुषं सेवितं यन्त्रचेटकैः ॥४६२॥नरवाहनदत्तस्तं दृष्ट्वा विपुलविस्मयः । पप्रच्छ पृष्टः सोऽप्याह वितीर्णकनकासनः ॥४६३॥राज्ञो महाबलाख्यस्य पुरे काञ्चीति विश्रुते ।अहं वज्रधरो नाम तक्षकृत्कुशलः प्रभो ॥४६४॥यन्त्रमायाकृतौ यस्य मयस्येव यशो भुवि । मम प्राणधरो नाम भ्राता कुशल............ ॥४६५॥वेश्याविलासरसिको दिवसैर्निर्धनोऽभवत् । स यन्त्री किल काहंसैः कोशाद्रत्नानि भूपतेः ॥४६६॥जहार वार्यमाणोऽपि मया निग्रहभीरुणा । परेऽह्नि तेषु बद्धेषु कोशपालेषु पक्षिषु ॥४६७॥स ययौ यन्त्रचक्रेण राजभीत्या दिगन्तरम् । भीतोऽहमपि यन्त्रेण यत्र द्विगुणरंहसा ॥४६८॥प्राप्तः शिवप्रसादेन शून्यं हैममिदं पुरम् ।इह स्थितस्य मे देव वस्त्रालंकारभोजनम् ॥४६९॥चिन्ततं संभवत्येव विना मानुषसंगम म् । निर्जनस्थितिखिन्नेन दिव्यभोगेऽपि तिष्ठता । निर्मिता यन्त्रपुरुषा मया चेतोविनोदिना ॥४७०॥इति यस्य वचः श्रुत्वा विस्मितो नरवाहनः । विधातृशक्तिश्चित्रेति ध्यात्वा स्वं वृत्तमभ्यधात् ॥४७१॥इति वज्रधराख्यारिका ॥११॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP