संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| शीलवत्याख्यायिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम शीलवत्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत शीलवत्याख्यायिका Translation - भाषांतर अन्तःपुरं प्रविश्याथ मित्रादिष्टं नृपात्मजः ।रत्नप्रभानुगो भेजे विलासरसनिर्वृतिम् ॥१०१॥ततो व्यजिज्ञपद्दूरात्तमभ्येत्याशु कञ्चुकी । गोमुखप्रमुखाः सर्वे देव द्वारि स्थिता इति ॥१०२॥ततो रत्नप्रभा प्राह तूर्णमेव प्रवेशय । आर्यपुत्रस्य सचिवास्ते हि विश्रम्भसाक्षिणः ॥१०३॥इति तद्वचसा तेषु प्रविष्टेष्वविलम्बितम् ।उवाच हासकरुणास्मेराङ्गो नरवाहनः ॥१०४॥प्रिये निरर्गलक्रीदास्वच्चन्दालापविभ्रमे । विघ्नः कञ्चुकिवर्गोऽस्यं कामिनां केन निर्मितः ॥१०५॥ रत्नप्रभा निशम्येति प्रोवाच ललितस्मिआ । देव कञ्चुकिवर्गोऽयं राजलक्ष्मीविभूषणः ॥१०६॥अन्तःपुराणि रक्ष्यन्ति न कुब्जजडवामनाः । निजशीलं सुसत्त्वानां रक्षा हरिणचक्षुषाम् ॥१०७॥ रत्नकूटाभिधद्वीपे राजा रत्नाधिपोऽभवत् । यस्याशीतिसहस्राणि कलत्रं तरलभ्रुवाम् ॥१०८॥हरेरिवाभवत्तस्य गजः श्वेतो नभश्वरः ।यमारुह्य जगभ्द्रान्त्वा लेभे भूपतिपुत्रिकाः ॥१०९॥ ततः कदाचिदाकाशे ताडितो व्याडिना रुषा । तुण्डेन पक्षिणा नागः सोऽपतद्भृशविह्वलः ॥११०॥न शशाक महाकायः समुत्थातुं महीतलात् । स जनैश्चाल्यमानोऽपि व्यसनादिव नष्टधीः ॥१११॥ततः पञ्चसु यातेषु वासरेषु सुदुःखितः । नृपः शोचन्निराहारः शिरच्छेत्तुं समुद्ययौ ॥११२॥तत्सत्त्वचकिताः प्राहुर्देवा गगनचारिणः । राजन्साध्वीकरस्पर्शादुत्तिष्ठति तव द्विपः ॥११३॥इत्याकाशवचः श्रुत्वा हृष्टो रत्नाधिपो नृपः । आनिनायामृतलतां स तां प्रथमवल्लभाम् ॥११४॥तेत्पाणिना कृतस्पर्शो नोदतिष्ठत्स कुञ्जरः । कुर्वन्मदमषीपङ्कैरिव तां मलिनाननाम् ॥११५॥ततः क्रमेण नृपतेः समस्तैस्तैर्वधूजनैः । स्पृश्यमानोऽपि वसुधां न तत्याज महागजः ॥११६॥यथा यथा प्रयान्ति स्म विमुखा राजयोषितः ।तथा तथा लज्जयेव नृपः पातालमाविशत् ॥११७॥मन्त्रिपुत्रवधूवृन्दे तथैव विफले गते । आययौ हर्षगुप्ताख्यो वणिग्देशान्तरागतः ॥११८॥तस्य शीलवती भार्या कटके कर्मचारिणी । मनोवाक्कायनिष्ठाभिः साध्वी पस्पर्श तं गजम् ॥११९॥तया स्पृष्टः स सहसा समुत्तस्थौ गजाधिपः । सह लोकनिनादेन हिमवानिव जङ्गमः ॥१२०॥ततः शीलवतीं राजा वणीजं चार्थसंचयैः । पूजयित्वा प्रियाः सर्वा मेने संकल्पदूषिताः ॥१२१॥अथानुजां शीलवत्या राजदत्ताभिधां नृपः । परिणीय चकारास्यै मन्दिरं सागरान्तरा ॥१२२॥असती हि विवाहे सा निर्दिष्टा गणकैर्यदा । तदा निष्पुरुषे द्वीपे धरा तस्याः स्थितं व्यधात् ॥१२३॥सदा व्योम्ना गजेन्द्रेण तदन्तःपुरमेत्य सः ।विजहार स्मरस्मेरो निवर्तितनृपक्रियः ॥१२४॥पौरकार्योन्मुखं गन्तुं प्रस्तुतं सा प्रभुं पतिम् । न गन्तव्यमिति प्राह हेलया हरिणेक्षणा ॥१२५॥स्थित्वा क्षणं तद्विलासरसिको नृपतिः पुनः । समेष्यामीति तामुक्त्वा जगामाकाशदन्तिना ॥१२६॥ततः फलहकासक्तो भग्नप्रवहणो नरः । तरन्समुद्रलहरीः क्षिप्तस्तं देशमाययौ ॥१२७॥स र्राजदत्तानिलयं प्रविवेश सविस्मयः । कौतुकाच्च तया पृष्टो बभाषे जातसंभ्रमः ॥१२८॥ अहं पवनसेनाख्यः सुभगे माथुरो वणिक् ।रत्नहेमार्जने धात्रा कृतः सर्वत्र निष्फलः ॥१२९॥ ततो विच्छिन्नसर्वांशं मां वह्निपतनोद्यतम् । धनिनाम्बुधियात्रायां जीवदत्ताभिधो वणिक् ॥१३०॥तत्र प्रवहणे भग्ने विस्फूर्जत्स्फारमारुतैः । अहं फलहकावाप्त्या दैवात्प्राप्तो महीमिमाम् ॥१३१॥ राजदत्ता निशम्येति भूरिपानमदाकुला । विश्रान्तमुपरिष्टान्तं कण्ठे सोत्कण्ठमग्रहीत् ॥१३२॥धनं कुलं परिचयं नर्माभ्यासं पथिस्थितम् । अनिरीक्ष्य प्रवर्तन्ते रतौ मत्ता हि योषितः ॥१३३॥अत्रान्तरे समभ्येत्य राजा रत्नाधिपः प्रियाम् । ददर्शागम्यदेशेऽपि तां केनापि समागताम् ॥१३४॥तां दृष्ट्वा प्रौढकोणेऽपि मत्वा दैवं सुदुर्जयम् । न तं जघान निःसारसंसारपरिहारधीः ॥१३५॥ वणिक्पवनसेनोऽपि गत्वा फल(हकाश्रयः । अथ प्रवहणं प्राप वणीजः क्रोधवर्मणः ॥१३६॥ तेनोत्क्षिप्तः करुणया तस्यैवेर्ष्यावतो वधूम् । दैवात्स भगिनीं यातो निहतस्तेन दुर्मतिः ॥१३७॥ रत्नाधिपोऽथ नृपतिर्नारायणपरायणः । राज्यं ब्राह्मणसात्कृत्वा गजेन तपसे ययौ ॥१३८॥ततो निपतितो व्योम्नः सहसा स महागजः । पृष्टो महीभुजा प्राह संप्राप्य निजमन्दिरम् ॥१३९॥ अहं श्वेतप्रभो नाम गन्धर्वो मलयालयः । त्वं च देवप्रभो नाम नरनाथ ममाग्रजः ॥१४०॥ईर्ष्यवतस्तव पुरा दयितां रूपशालिनीम् । महेश्वराग्रे गायन्तीं मुनिः कश्चिव्द्यलोकयत् ॥१४१॥ तद्विलोकनसंक्रुद्धः स मुनिस्त्वां ततोऽशपत् । मर्त्यो भूत्वा प्रियतमां द्रष्टास्यन्यरतामिति ॥१४२॥शप्तं त्वामहमालोक्य गजेनापीडयन्मुनिम् । तच्छापादस्मि संप्राप्तो भ्रातः कुञ्जरतामिमाम् ॥१४३॥विष्णुप्रसादपर्यन्तः शापस्तेनायमावयोः । दिष्टः स च परिक्षीणः संकल्पात्कैटभद्विषः ॥१४४॥इत्युक्त्वा भूभुजा सार्धं प्राप्तो गन्धर्वतां द्विजः । संगतः सिद्धगन्धर्वैः प्रययौ मलयाचलम् ॥१४५॥ शीलवत्यपि भूपालादाप्तैः कनकसंचयैः । देवतायतनं चक्रे ब्राह्मणेभ्यश्च संचयम् ॥१४६॥इति शीलवत्याख्यायिका ॥४॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP