संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| सत्त्वशीलाख्यायिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम सत्त्वशीलाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सत्त्वशीलाख्यायिका Translation - भाषांतर नमोऽस्तु भावनामात्रनानावर्णविधायिने । त्र्यक्षचित्रकृते लक्ष्यत्रैलोक्याश्चर्यकारिणे ॥१॥नरवाहनदत्तोऽथ प्रौढयौवनमण्डितः । अभूद्विलासलतिकाविकाशकुसुमाकरः ॥२॥( स हेमकदलीकुञ्जे पारिजातलतावने । मन्दारामोदसुभगे विजहार सुहृद्वृतः ॥३॥ततः प्राह समभ्येत्य हर्षपूर्णस्तपन्तकः(?) । आश्चर्यदर्शनाकोशनयनो नयनोत्सुकः ॥४॥सखे व्योमावती नाम दृष्टा विद्याधरी मया । मनोजकुञ्जरस्येव निमज्जनसरोजिनी ॥५॥ त्वां द्रष्तुमिच्छति क्षिप्रमेहीत्याकर्ण्य तद्वचः । तूर्णं तद्देशमभ्यागात्कौतुकान्नरवाहनः ॥६॥ पतितं लाञ्छनमृगं स्वयमन्वेष्टुमागतम् । स ददर्श शशाङ्कस्य कान्तिं मूर्तिमतीमिव ॥७॥त्रिवलीकुलसंसर्पिहारहंसा मनोभुवः । हरहुंकारहुतभुङ्निर्वापणनदीमिव ॥८॥निमग्नामिव श्रृङ्गारे संक्रान्तामिव यौवने । बिम्बितामिव लावण्ये मिलितामिव विभ्रमे ॥९॥ तां विलोक्य मनोमीनविस्तीर्णगुणजालिकाम् । बालिकां मन्मथस्येव यात्रामङ्गलमालिकाम् ॥१०॥अर्च्यमान इवालोलकटाक्षोत्पलदामभिः । तया मनोभवधिया प्रोवाच नरवाहनः ॥११॥कस्यासि कान्तिकल्लोलमाला कमललोचने । कैर्भागधेयैरस्माकं दर्शितामृतवाहिनी ॥१२॥श्रुत्वेति तद्वचो हृष्टा सावदद्दशनांशुभिः । चन्द्रोपमा म्लानिमिव क्शालयन्ती कपोलयोः ॥१३॥ अस्ति युष्मद्यशःशुभ्रः श्रीमान्मलयभूधरः । यस्य प्रमाणं माहात्म्ये गौरीगुरुरिति श्रुतिः ॥१४॥नलिनासनहंसालीकलक्काणमनोहरा । स्वकीर्तिर्वैजयन्तीव भाति य अस्य त्रिमार्गगा ॥१५॥ कान्तिपिञ्जरितव्योम्नि तस्य काञ्चनशेखरे । अस्ति हेमप्रभो नाम विद्याधरधरापतिः ॥१६॥अलंकारप्रभा नाम दयिता तस्य सुन्दरी । दिशो विभाति यत्कान्तिभ्रान्तिसीमन्तिता इव ॥१७॥सा कदाचित्प्रियं दृष्ट्वा चिन्तास्तिमितलोचनम् । उवाच देव कोऽयं ते वीरस्य धृतिविप्लवः ॥१८॥भयप्रदोऽसि शत्रुभ्यो द्विजेभ्यः कनकप्रदः । प्रीतिप्रदोऽसि कान्ताभ्यो राजकुञ्जर गीयसे ॥१९॥इति प्रियावचः श्रुत्वा प्राह हेमप्रभो मुहुः । चिन्तानलपरिस्पन्दमुच्छ्वासैर्दीपयन्निव ॥२०॥वंशमुक्तामणिः पुत्रो नास्त्यधन्यस्य मे शुभम् । न्ष्फला चन्दनस्येव न श्रीः प्रीणाति मे मनः ॥२१॥नेत्रामृतं श्रुतिसुधाहृदयानन्दनिर्भरः । पीयूषपेशलस्पर्शः किं किं नाम न पुत्रकः ॥२२॥अवाप्यते धनं धन्यैर्यशश्च विशदाशयैः । निरवद्यैस्तथा विद्यास्तनयस्तु सुदुर्लभः ॥२३॥राजा ब्रह्मधनो नाम चित्रकूटाधिपोऽभवत् ।सेवकः सत्त्वशीलाख्यस्तस्याभूदुचिताशयः ॥२४॥स सुवर्णशतं लेभे राज्ञः प्रत्यहवेतनम् । निजभोजनपर्यन्तं तच्चार्थिभ्यः सदा ददौ ॥२५॥विवृत्तानि निधानानि तस्योदारमतेः पुरः । आसंस्तद्द्रविनैः सोऽर्थिसार्थसंख्यामपूरयत् ॥२६॥सगोत्रैः शत्रुभिर्दाता स राज्ञे विनिवेदितः । निधिपूर्ण इति क्षिप्रं नृपाहूतश्च सोऽवदत् ॥२७॥ देव प्राप्तनिधानोऽहमिहापि त्वत्पुरो लभे । गृहाणेति समुद्धाट्य निधानं भूभुजे ददौ ॥२८॥एवं स सत्तसंप्राप्तविभवो नृपपूजितः । त्र्यम्बकव्रतसंपन्नो दाता पुत्रमयाचत ॥२९॥ तमाह तुष्टो भगवान्वत्स सिद्धिमवाप्स्यसि । न तु द्रक्ष्यसि पुत्रस्य जन्मन्यस्मिन्मुखाम्बुजम् ॥३०॥ इत्येवं सत्त्वशीलेन तुष्टेऽपि शशिशेखरे । न प्राप्तस्तनयो देवि कुलश्रीमणिदर्पणः ॥३१॥इति सत्त्वशीलाख्यायिका ॥१॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP