संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः| पञ्चमं ब्राम्हणम्| भाष्यं १६ पञ्चमं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ पंचमम् ब्राम्हणम् - भाष्यं १६ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १६ Translation - भाषांतर भाष्यं :--- एवं साध्यलोकत्रययफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधननानि । जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथडनाभिहिता । वित्तं च कर्मसाधनत्वान्न पृथक्साधनम । विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम । पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायतेऽतस्तद्वक्तव्यमित्यथानन्तरमारभ्यते ॥भाष्यं :--- संप्रत्ति: संप्रदानम । संप्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम । पुत्रे हि स्वात्मव्यापारसंप्रदानं करोत्यनेन प्रकारेण पिता तेन संप्रत्तिसंज्ञकमिदं कर्म । तत्कस्मिन्काले कर्तव्यमित्याह । स पिता यदा यस्मिन्काले प्रैष्यन्मरिष्यन्मरिष्यामीत्यरिष्टादिदर्शनेन मन्यतेऽथ त्दा पुत्रमाहूयाऽऽह त्वं व्रम्हा त्वं यज्ञस्त्वं लोक इति । स एवमुक्त: पुत्र: प्रत्याह स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति तेनाऽऽहाहं ब्रम्हाहं यज्ञोऽहं लोक इति एतद्वाक्यत्रयम ॥भाष्यं :--- एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते । यद्वै किंच यत्किंचावशिष्टमनूक्तमधीतमनधीतं च तस्य सर्वस्यैव ब्रम्होतस्मिन्पद एकतैकत्वं योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषय: स इत ऊर्ध्वं त्वं ब्रम्हा त्वत्कर्तृकोऽस्त्वित्यर्थ: ॥भाष्यं :--- तथा ये वै के च यज्ञा अनुष्ठेया: सन्तो मयाऽनुष्ठिताश्चाननुष्ठिताश्च तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकतैकत्वं मत्कर्तृका यज्ञा य आसंस्त इत ऊर्ध्वं त्वं यज्ञस्त्वत्कर्तृका भवन्त्वित्यर्थ: । ये वै के च लोका मया जेतव्या: सन्तो जिता अजिताश्च तेषां सर्वेषां लोक इत्येतस्मिन्पद एकता । इत ऊर्ध्वं त्वं लोकास्त्वया जेतव्यास्ते ॥भाष्यं :--- इत ऊर्ध्वं मयाऽध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितोऽहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतो: । सच सर्वं तथैव प्रतिपन्नवान्पुत्रोऽनुशिष्टत्वात ॥भाष्यं :--- तत्रेमं पितुरभिप्रायं मन्वानाऽऽचष्टे श्रुतिरेताबदेतत्परिमाणं वा इदं सर्वं यदगृहिणा कर्तव्यं यदुत वेदा अध्येतव्या यज्ञा यष्टव्या लोकाश्छ जेतव्या एतन्मा सर्वं सन्नयं सर्वं हीमं भारं मदधीनं मत्तोऽपच्छिद्याऽऽत्मनि निधयेतोऽस्माल्लोकान्मा मामभुनजत्पालयिष्यतीति लृडर्थे लड छन्दसि कालनियमाभावात ॥भाष्यं :--- यस्मादेवं संपन्न: पुत्र: पितरमस्माल्लोकात्मर्तव्यताबन्धनतो मोचयिष्यति तस्मात्पुत्रमनुशिष्ट लोक्यं लोकहितं पितुराहुर्ब्राम्हाणा: । अत एव हयेनं पुत्रमनुशासति लोक्योऽयं न: स्यादिति पितर: ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP