पंचमम् ब्राम्हणम् - भाष्यं ४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- पशुभ्य एकं प्रायच्छदिति यत्पशुभ्य एकं प्रायच्छत्पिता किं पुनस्तदन्नं तत्पय: । कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह पयो हयग्रे प्रथमं यस्मान्मनुष्याश्च पशवश्च पय एवोपजीवन्तीति । उचितं हि तेषां तदन्नमन्यथा कथं तदेवाग्रे नियमेनोपजीवेयु: । कथमग्रे तदेवोपजीवन्तीति । उच्यते । मनुष्याश्च पशवश्च यस्मात्तेनैवान्नेन वर्तन्तेऽद्यत्वेऽपि  यथा पित्राऽऽदौ विनियोग: कृतस्तस्मात्कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति प्राशयन्ति स्तनं वा‍ऽनुधापयन्ति पश्चात्पाययन्ति । यथासंभवमन्येषां स्तनमेवाग्रे धापयन्ति मनुष्येभ्योऽन्येषां पशूनाम् ॥

भाष्यं :---  अथ वत्सं जातमाहु: क्तियत्प्रमाणो वत्स इत्येवं पृष्टा: सन्तोऽतृणाद इति । नाद्यापि तृणमत्त्यतीव बाल: पयसैवाद्यापि वर्तत इत्यर्थ: । यच्चाग्रे जातमर्मादौ घृतमुपजीवन्ति । यच्चेतरे पय एव तत्सर्वथाऽपि पय एवोपजीवन्ति । घृतस्यापि पयोविकारत्वात्पयस्त्वमेव ॥

भाष्यं :--- कस्मात्पुन: सप्तमं सत्पश्वन्नं चतुर्थत्वेन व्याख्यायते । कर्मसाधनत्वात । कर्म हि पय: साधनाश्रयमग्निहोत्रादि तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रयस्य साध्यस्य । यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने । अत: कर्मपक्षत्वात्कर्मणा सह पिण्डीकृतोपदेश: । साधनत्वाविशेषादर्थसंबन्धादानन्तर्यमकारणमिति च व्याख्याने प्रतिपत्तिसौकर्याच्च । सुखं हि नैरन्तर्येण व्याख्यातुम शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते ॥

श्रुति :--- तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीद सर्वं प्रतिष्ठित यच्च प्राणिति यच्च न । तद्यदिदमाहु: संवत्सरं पयसा जुव्हदप पुनर्मृत्युं जयतीति न तता विद्याद्यदहरेव जुहोति तदह: पुनर्मृत्युमपजयत्येवं विद्वान्सर्व हि देवेभ्योऽन्नाद्यं प्रयच्छति ॥

अर्थ :--- ‘तस्मिन्सर्वे प्रतिष्ठितं यच्च प्राणिति यच्च न’ याचा अर्थ असा - जें प्राणनक्रिया करितें व जें ती करीत नाहीं असें हें सर्व चर व अचर जगत पयामध्यें प्रतिष्ठित आहे. संवत्सरभर - वर्षभर दुधानें हवन करणारा अपमृत्यूला जिंकतो, असें जें ब्राम्हाणवाद म्हणतात तें तसेंच समजूं नये. तर ज्या दिवशींच हवन करितो त्याच दिवशीं अपमृत्यूला जिंकतो; असें जाणणारा सर्व अन्नाद्य देवांना देतो.

भाष्यं  :--- तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोऽर्थ इत्युच्यते । तस्मिन्पश्वन्ने पयसि सर्वमध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत्प्रतिष्ठितं यच्च प्राणिति प्राणचेष्टावद्यच्च न स्थावरं शैलादि । तत्र हिशब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम । कथं पयोद्रव्यस्य सर्वप्रतिष्ठात्वम् । कारणत्वोपपत्ते: । कारणत्वं चाग्निहोत्रादिकर्मसमवायित्वम् । अग्निहोत्राद्याहुतिविपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादा: शतशो व्यवस्थिता: । अतो युक्तमेव हिशब्देन व्याख्यानम् ॥

भाष्यं :---  यत्तदब्राम्हाणान्तरेष्विदमाहु: “संवत्सरं पयसा जुहवदप पुनर्मृत्युं जयति” इति । संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसंपद्यमाना: संवत्सरस्य चाहोरात्राणि । संवत्सरमग्निं प्रजापतिमाप्नुवन्ति । एवं कृत्वा संवत्सरं जुहवदपजयति पुनर्मृत्युम । इत: प्रेत्य देवेषु संभूत: पुनर्न म्रियत इत्यथ: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP