ठाकुर प्रसाद - द्वादश स्कन्ध

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


कलेर्दोषनिधे: राजन्नस्ति हयको महान् गुण: ।
कीर्तनादेव कृष्णस्य मुक्तसंग: परं ब्रजेत् ॥

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखै: ।
द्वापरे परिचर्यायां कलौ तद हरिकीर्तनात् ॥

अहं ब्रम्हा परं धाम ब्रम्हाऽहंपरमं पदम् ।

पतित: स्खलितश्चार्त: क्षुत्वा वा विवशो ब्रुवन् ।
हरये नम: इत्युच्चैर्मुच्यते सर्वपातकात् ॥

नामसंकीर्तनं यस्य सर्वपापप्रनशनम् ।
प्रणमो दु:खशमनस्तं नमामि हरिं परम् ॥

श्रीमदभागवत की महिमा

येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नरा: ।
प्रीणितास्तैश्च विबुधा यावदाभूतसंप्लवम् ॥

नित्यं मम कथा यत्र तत्र तिष्ठन्ति वैष्णवा: ।
कलिवाहया नरास्ते वै येऽर्चयन्ति सदा मम ॥

मत्कथावाचकं नित्यं मत्कथा श्रवणे रतम् ।
मत्कथाप्रीतमनसं नाहं त्यक्ष्यामि तं नरम् ॥

भगवान् की भक्तवत्सलता

अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥

अनपेक्ष: शुचिर्दक्ष: उदासीनो गतव्यथ: ।
सर्वारम्भपरित्यागी यो मद्‌भक्त: स मे प्रिय: ॥

बर्हापीडं नटवरवपु: कर्णयो: कर्णिकारं, बिभ्रदवास: कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै:,
वृन्दारण्यंस्वपदरमणं प्राविशद गीतकीर्ति: ॥

आरती

जयदेव जयदेव वन्दे गोपालं वन्दे भूपालं ।
मृगमदशोभितभालं बुवनत्रयपालं ॥
निर्गुणसगुणाकारं संभृतभूभारं ।
मुरहर नन्दकुमारं स्मरहरं सुखकारं ।
वृंदावन संचारं कौस्तुभमणिहारं ।
कृपया पारावारं गोव्वर्धनधारं ॥ जयदेव जयदेव
मुरलीवाहनलोलं सप्तस्वरगीतं ।
स्थलचर वनचर  गोचर जलचर सहगीतं ।
स्तंबित यमुनातोयं अगणित तव चरितं ।
गोपीजन मनमोहन दातुं श्रीकान्तं ॥ जयदेव जयदेव
रासक्रीडामण्डित विष्टित व्रज ललनं ।
मध्ये तांडवमण्डितं कुवलय दलनयनं ।
कुसुमितकाननरंजित मन्दस्मित वदनं ।
फणिवरकालियदमनं यक्षेश्वरगमनं ॥ जयदेव जयदेव
अभिनवनीतं चोरं करघृतदधिगोलं ।
लीला नटवरखेलं धृतकाञ्चनचैलं ।
निर्जर लक्ष स्वरूपं विहलितरिपुकूलं ।
भगवत परिपालय जय जय जय गोपालम् ॥ जयदेव जयदेव

हरे राम हरे राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP