द्वितीयः पादः - सूत्र १७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीत: शताधिकया ॥१७॥

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीत: शताधिकया ॥
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता संप्रति त्वपरविद्याविषयामेव चिन्तामनुवर्तयति ।
समाना चासृत्युपक्रमाद्विद्वदविदुषोरुत्क्रान्तिरित्युक्तं तमिदानीं  सृत्युपक्रमं दर्शयति ।
तस्योअसंह्रतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं ह्रदयं स एतास्तेजोमात्रा: समभ्याददनो ह्रदयमेवान्ववक्रामतीति श्रुते ।
तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना चोत्कान्ति: श्रुयते तस्यहैतस्य ह्रदयस्य ग्रं प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्न्धो वाऽन्येभ्यो वा शरीरदेशेभ्य इति ।
सा किमनियमेनैव विद्वदविदुषोर्भवत्यथास्ति कश्चिद्विदुषो विशेषनियम इति विचिकित्सायां श्रुत्यविशेषादनियमप्राप्तावाचष्टं ।
समानेऽपि हि विद्वदविदुषोर्ह्रदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे च मूर्धस्थानादेव विद्वान्निष्क्रामति स्थानान्तरेभ्यस्त्वितरे ।
कुत: ।
विद्यासामर्थ्यात् ।
यदि विद्वानपीतरवद्यत: कुतश्चिद्दंहदशोदुत्क्रामेश्नैवोत्कृष्टं लोकं लभेत तत्रानर्थिकैव विद्या स्यात् ।
तच्छेषगत्यनुस्मृतियोगाच्चा ।
विद्याशेषभूता च मूर्धन्यनाडीसंबद्धा गतिरनुशीलयितव्या विद्याविशेषेषु विहिता तामभ्यस्यंस्तयैव प्रतिष्ठत इति युक्तम् ।
तस्माद्धृदयालयेन ब्रम्हाणा समुणसिते नानुगृहीतस्तद्भावसमापन्नो विद्वान्मूधंन्ययैव शताधिकया शतादतिरिक्तयैकशतम्या नाडया निष्क्रामन्तीतराभिरितरे ।
तथा हि हार्दविद्यां प्रकृत्य समामनन्ति शतं चैका च ह्रदयस्य नाडयस्तासां मूर्धानमभिनि:सृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङङन्या उत्क्रमणे भवन्तीति ॥१७॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP