संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|द्वितीयः पादः| सूत्र ७ द्वितीयः पादः सूत्र १ सूत्र २-३ सूत्र ४ सूत्र ५ सूत्र ७ सूत्र ८ सूत्र ९-१२ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८-१९ सूत्र २०-२१ द्वितीयः पादः - सूत्र ७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ७ Translation - भाषांतर समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ सेयमुत्क्रान्ति: किं विद्वदविदुषो समाना किं वा विशेषवतीति विशयानानां विशेषवतीति तावत्प्राप्तम् ।भूतास्रयविशिष्ठा हयेषा पुनर्भवाय च भूतान्याश्रीयन्ते न च विदुष: पुनर्भव: संभवति ।अमृतत्वं हि विद्वानश्रुत इति स्थिति: ।तस्मादविदुष एवैषोत्क्रान्ति: ।ननु विद्याप्रकरणे समान्नानाद्विदुष एवैषा भवेत् । न ।स्वापादिवद्यथाप्राप्तानुकीर्तनात् ।तथा हि यत्रैतत्पुरुष: स्वपिति नाम अशिशिषति नाम पिपासति नामेति च सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते ।एवमियमप्युत्क्रान्तिर्महाजनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतस्तेज: संपद्यते स आत्मा तत्त्वमसीत्येतत्प्रतिपादयितुम् ।प्रतिषिद्धा चैषा विदुषो न तस्य प्राणा उस्क्रामन्तीति ।तस्मादविदुष एवैषेति ।एवं प्राप्ते ब्रूम: ।समाना चैषोत्क्रान्ति र्वाङमनसीत्याद्या विद्वदविदुषोरासृत्युपक्रमाद्भवितुमर्हति ।अविशेषश्रवणात् ।अविद्वान्देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्ती देहग्रहणनुभवितुं संसरति विद्वांस्तु ज्ञानप्रकाशित मोक्षनाडीद्वारमाश्रयते तदेतदासृत्युपक्रमादत्युक्तम् ।नन्वमृतत्वं विदुषा प्राप्तव्यं न च तद्देशान्तरायत्तं तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति ।अत्रोच्यते ।अनुपोष्य चेदमदग्ध्वाऽत्यन्तमविद्यादीन्क्लसानपरविद्यासामर्थ्यादापेक्षिकममृतत्वं प्रेप्सते संभवति तत्र सृत्युपक्रमो भूताश्रयत्वं च न हि निराश्रपाणां प्राणानांगतिरुपपद्यते ।तस्माददोष: ॥७॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP