द्वितीयः पादः - सूत्र ४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सोऽध्यक्षे तदुपगमादिभ्य: ॥४॥

सोऽध्यक्षे तदुपगमादिभ्य: ॥
स्थितमेतद्यस्य यतो नोत्पत्तिस्तस्य तस्मिन्तृत्तिप्रलयो न स्वरूपप्रलय इति ।
इदमिदानीं प्राणस्तेजसीत्यत्र चिस्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहार: किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति ।
तत्र श्रुतेरनतिशङ्कयत्वात्प्राणस्य तेजस्येव संपत्ति: स्यात् ।
अश्रुतकल्पनाया अन्याय्यत्वादिति ।
एवं प्राप्ति प्रतिपद्यते सोऽध्यक्ष इति ।
स प्रकृत: प्राणोऽध्यक्षेऽविद्याकर्मंपूर्वप्रज्ञोपाधिके विज्ञानात्मन्यवतिष्ठते तत्प्रधाना प्राणवृत्तिभंवतीत्यर्थ: ।
कुत: ।
तदुपगमादिभ्य: ।
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदॄर्ध्वोच्छवासी भवतीति हि श्रुत्यन्तरमध्यक्षोपगामिन: सर्वान्प्राणानविशेषेण दर्शयति ।
विशेषेण च तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीति पञ्चवृत्ते: प्राणस्याध्यन्नानुगामितां दशंमति तदनुवृत्तितां चेतरेषां प्राणमनूत्कामन्तं सर्वे प्राणा अनूत्क्रामन्तीति ।
सविज्ञानो भवतीति चाभ्यक्षस्यान्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन्नपीतकरणग्रामस्थ प्राणस्यावस्थामं गमयति ।
ननु प्राणस्तेजसीति श्रूयते कथं प्राणोऽध्यक्ष इत्यविकावाप: क्रियते ।
नैष दोष: ।
अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य ।
श्रुत्यन्तरगतस्यापि च विशेबस्यापेक्षणीयत्वात् ॥४॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP