संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|द्वितीयः पादः| सूत्र ८ द्वितीयः पादः सूत्र १ सूत्र २-३ सूत्र ४ सूत्र ५ सूत्र ७ सूत्र ८ सूत्र ९-१२ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८-१९ सूत्र २०-२१ द्वितीयः पादः - सूत्र ८ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ८ Translation - भाषांतर तदाऽपीते: संसारव्यपदेशात् ॥८॥तदाऽपीते: संसारव्यपदेशात् ॥ तेज: परस्यां देवतायामित्यत्र प्रकरणसामर्थ्यात्तद्यथा प्रकृतं तेज: चाध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयत: पुंस:अ परस्यां देवतायां संपद्यत इत्यतदुक्तं भवति ।कीद्दशी पुनरियं संपत्ति: स्यादिति चिन्त्यते ।तत्रात्यन्तिक एव तावत्स्वरूपप्रविलय इति प्राप्तम् ।तत्प्रकृतित्वोपवत्ते: ।सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृति: परा देवतेति प्रतिष्ठापितम् ।तस्मादात्यन्तिकीयमविभागापत्तिरिति ।एवं प्राप्ते ब्रूम: ।तत्तेजश्चादि भूतसूक्ष्मं श्रोन्नादिकरणाश्रयभूतमापीतेरासंसारमोक्षात्सम्यग्ज्ञाननिमित्तादवतिष्ठते ।योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिन: ।स्थाणुमन्येऽनुसुंयन्ति यथाकर्म यथाशृतमित्यादिसंसारख्यपदेशात् ।अन्यथा हि सर्व: प्रायणसमय एवोपाधिप्रत्यस्तमयादत्यन्तं ब्रम्हा संपद्येत ।तत्र विधिशास्त्रं चानर्थकं स्याद्विद्याशास्त्रं च ।मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानाद्दते विस्रंसितुमर्हति ।तस्मात्तत्प्रकृतित्येऽपि सुषुप्तिप्रलयवद्वीजभावावशेषैवैषा सत्संपत्तिरिति ॥८॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP