संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|द्वितीयः पादः| सूत्र ५ द्वितीयः पादः सूत्र १ सूत्र २-३ सूत्र ४ सूत्र ५ सूत्र ७ सूत्र ८ सूत्र ९-१२ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८-१९ सूत्र २०-२१ द्वितीयः पादः - सूत्र ५ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५ Translation - भाषांतर भूतेषु तच्छुते: ॥५॥कथं तर्हि प्राणस्तेजसीति श्रुतिरित्यत आह भूतेषु तच्छुते: ॥स प्राणसंपुक्तोऽभ्यक्षस्तेज: सहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेप्ववतिष्ठत इत्यवगन्तव्यम् ।प्राणस्तेजसीति श्रुये: ।ननु चेयं श्रुति: प्राणस्य तेजति स्थितिं दर्शयति न प्राणसंपृक्तस्याध्यक्षस्य ।नैष दोष: ।सोऽध्यक्ष इत्यध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् ।योऽपि हि मुन्घान्मथुरां गत्वा मथुराया: पाटलिपुत्रं ब्रजति सोऽपि मुन्घात्पाटलिपुत्रं यातीति व्रक्यते वद्दितुम् ।तस्मात्प्राणस्तेजसीति प्राणसंपृक्तस्याध्यक्षस्यैवैतत्तेज: तहवरितेषु भूतेष्ववस्थानम् ॥५॥नैकस्मिन्दर्शयतो हि ॥६॥कथं तेज: सहचरितेषु भूतेष्वित्युच्यते यावतैकमेव तेज: श्रूयते प्राणस्तेजतीति ।अत आह नैकस्मिन्दर्शयतो हि ॥नैकस्मिन्नेव तेजसि शरीरान्तरप्रेप्यावेलायांजीवोऽवतिष्ठते ।कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात् ।दर्शयतश्चैतमर्थ प्रश्नप्रतिवचने आप: पुरुषवचस इति ।तव्द्याख्यातं त्र्यात्मकत्वात्तु भूयस्त्वादित्यत्र ।श्रुतिस्मृती चैतमर्थं दर्शयत: ।श्रुति: पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमय इत्याद्या ।स्मृतिरपि अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु या: स्मृता: ।ताभि: सार्धमिदं सर्वं संभवत्यनुपूर्वश इत्याद्या ।ननु चोपसंह्रतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायां क्वायं तदा पुरुषो भवतीत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति तौ ह यदूचतु: कर्म हैव तदूचतुरथ ह यत्प्रशशंसतु: कर्म हैव तत्प्रशशंसङुरिति ।अत्रोच्यते ।तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्योन्द्रियविषयात्मकस्य नन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ती ।इह पुनर्भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम् ।प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मण: प्रदर्शितं न त्वाश्रयान्तरं निवारितम् ।तस्मादविरोध: ॥६॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP