प्रथमः पादः - सूत्र १९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भोगेन त्वितरे क्षपयित्वा संपद्यते ॥१९॥

भोगेन त्वितरे क्षपयित्वा संपद्यते ॥
अनारब्धकार्ययो: पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्त: ।
इतरे त्वारब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रम्हा संपद्यते तस्य तावदेव चिरं यावन्न विमोक्ष्यऽथ संपत्स्य इति ब्रम्हौव सन्ब्रम्हाप्येतीति चैवमादिश्रुतिभ्य: ।
ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेबं पश्चादप्यनुवर्तेत । न ।
निमित्ताभावात् ।
उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तं न च ताद्दशमत्र किंचिदस्ति ।
नन्वपर: कर्माशयोऽभिनवमुपभोगमारप्त्यते । न ।
तस्य दग्धबीजत्वात् ।
मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभेत तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धमित्यत: साध्वेतदारब्धकार्यक्षये विदुष कैवयमवश्यं भवतीति ॥१९॥


इति श्रीगोविन्दभगवत्पूज्यपादशिप्यश्रीमच्छंकरभगवत्पादकृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य प्रथम: पाद: ॥१॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP