संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|प्रथमः पादः| सूत्र ३ प्रथमः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८-११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७-१८ सूत्र १९ प्रथमः पादः - सूत्र ३ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ३ Translation - भाषांतर आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥३॥आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥य: शास्त्रोक्तविशेषण: परमात्मा स किमहमिति ग्रहीतव्य: किं वा मदन्य इत्येतद्विचारयति ।कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति । उच्यते ।अयमात्मशब्दो मुख्य: शक्यतेऽभ्युपगन्तुं सति जीवेश्वरयोरभेदसंभव इतरथा तु गौणोऽयमभ्युपगन्तव्य इति मन्यते ।किं तावत्प्राप्तं नाहमिति ग्राह्या: ।न हयपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुं विपरीतगुणो वाऽपहतपाप्मत्वादिगुनत्वेन ।अपहतपाप्मादिगुनश्च परमेश्वरस्तद्विपरीतगुनस्तु शारीर: ।ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङग: ।तत: शास्त्रानर्थक्यम् ।संसारिणोऽपीश्वरात्मत्वेऽधिकार्यभावाछास्त्रानर्थक्यमेव ।प्रत्यक्षादिविरोधश्च ।अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात्कर्तव्यं प्रतिमादिष्विव विष्ण्वादिदर्शनमिति चेत्काममेवं भवतु ।न तु संसारिणो मुख्य आत्मेश्वर इत्येतन्न: प्रापय्तव्यम् ।एवं प्राप्ते ब्रूम: ।आत्मेत्येव परमेवर: प्रतिपत्तव्य: ।तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैतमुपगच्छन्ति त्वं वा अहमस्मि भगवो देवते अहं त्वमसि देवत इति ।तथाऽन्येऽपि अहं ब्रम्हास्मीत्येवमादय आत्मत्वोपगमा द्रष्टव्या: ।ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदान्तवाक्यानि एष त आत्मा सर्वान्तर: एष त आत्माऽन्तर्याम्यमृत: तत्सत्यं स आत्मा तत्त्वमसीत्येवमादीनि ।यदुक्तं प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति तदयुक्तं गौणत्वप्रसङ्गत् ।वाक्यवैरूप्याच्च ।यत्र हि प्रतीकद्दष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति ।वथा मनो ब्रम्हा आदित्यो ब्रम्होत्यादि ।इह पुनस्त्वमहमस्म्यहं च त्वमसीत्याह ।अत: प्रतीकश्रुतिवैरूप्यादभेदप्रतिपत्ति: ।भेदद्दष्टयपवादाच्च ।तथा हि अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यति सर्वं तं परादाद्योऽन्यत्रात्मन: सर्वं वेदेत्येवमाद्या भूयसी श्रुतिर्भेददर्शनमपवदति ।यत्तूक्तं न विरुद्धगुनयोरन्योन्यात्मत्वसंभव इति ।नायं दोष: ।विरुद्धगुणताया मिथ्यात्वोपपत्ते: ।यत्पुनरुक्तमीश्वराभावप्रसङ्ग इति तदसत् ।शास्त्रप्रामाण्यादनभ्युपगमाच्च ।न हीश्वरस्य संसार्थात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छाम: ।किं तर्हि संसारिण: संसारित्वापोहेनेश्वरात्मत्वं प्रतिपिपादयिषितमिति ।एवं च सत्यद्वैतेश्वरस्यापहतपाप्मत्वादिगुणता विपरीतगुनता त्वितरस्य मिथ्येति व्यवतिष्ठते ।यदप्युक्तमधिकार्यभाव: प्रत्यक्षादिविरोधश्चेति । तदप्यसत् ।प्राक्प्रबोधात्संसारित्वाभुपगमात् ।तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ।यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति ।प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् । न । इष्टत्वात् ।अत्र पिताऽपिता भवतीत्युपक्रम्य वेदा अवेदा इति वचनादिष्यत एवास्माभि: श्रुतेरप्यभाव: प्रबोधे ।कस्य पुनरयमप्रबोध इति चेत् ।यस्त्वं पृच्छसि तस्य त इति वदाम: ।नन्वहमीश्वर एवोक्त: श्रुत्या यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोध: ।योऽपि दोषश्चोद्यते कैश्चिदविद्यया किलात्मन: सद्वितीयत्वादद्वैतानुपपत्तिरिति सोऽप्येतेन प्रत्युक्त: ।तस्मादात्मेत्येवेश्वरे मनो दधीत ॥३॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP