संस्कृत सूची|संस्कृत स्तोत्र साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|प्रथमः पादः| सूत्र ४ प्रथमः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८-११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७-१८ सूत्र १९ प्रथमः पादः - सूत्र ४ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४ Translation - भाषांतर न प्रतीके न हि स: ॥४॥न प्रतीके न हि स: ॥ मनो ब्रम्होत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रम्होति ।तथा आदित्यो ब्रम्होत्यादेश: स यो नाम ब्रम्होत्युपास्त इत्येवमादिषु प्रतीकोपासनेषु संशय: ।किं तेष्वप्यात्मग्रह: कर्तव्यो न वेति ।किं तावत्प्राप्तम् ।तेष्वप्यात्मग्रह एव युक्त: । कस्मात् ।ब्रम्हाण: श्रुतिष्वात्मत्वेन प्रसिद्धत्वात् ।प्रतीकानामपि ब्रम्हाविकारत्वादब्रम्हात्वे सत्यात्मत्वोपपत्तेरिति ।एवं प्राप्ति ब्रूम: ।न प्रतीकेष्वात्ममर्ति बध्नीयात् ।न हि स उपासक: प्रतीकानि व्यस्तान्यात्मत्वेनाकलयेत् ।यत्पुनर्ब्रम्हाविकारत्वात्प्रतीकानां ब्रम्हात्वं ततश्चात्मत्वमिति । तदसत् ।प्रतीकाभावप्रसङगात् ।विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रम्हात्वमेवाश्रितं भवति ।स्वरूपोपमर्दे च नामादीनां कुत: प्रतीकत्वमात्मग्रहो वा ।न च ब्रम्हाण आत्मत्वादब्रम्हाद्दष्टयुपदेशेष्वात्मद्दष्टि: कल्प्या ।कर्तृत्वाद्यनिराअकरणात् ।कर्तृत्वादिसर्वसंसारधर्मनिराकरणे हि ब्रम्हाण आत्मत्वोपदेशस्तदनिराकरणेन चोपासनाविधानम् ।अतश्चोपासकस्य प्रतीकै: समत्वादात्मग्रहो नोपपद्यते ।न हि रुचक्रस्वस्तिकयोरितरेतरात्मत्वमस्ति ।सुवर्णात्मनैवतु ब्रम्हात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम ।अतो न प्रतीकेष्वात्मद्दष्टि: क्रियते ॥४॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP