संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|प्रथमः पादः| सूत्र १ प्रथमः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८-११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७-१८ सूत्र १९ प्रथमः पादः - सूत्र १ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १ Translation - भाषांतर आवृत्तिरसकृदुपदेशात् ॥१॥आवृत्तिरसकृद्पदेशात् ॥ तृतीये परापरासु विद्यासु साधनाश्रयो विचार: प्रायेणात्यगात् ।अथेह चतुर्थेऽध्याये फलाश्रय आगमिष्यति ।प्रसङ्गागतं चान्यदपि किंचिच्चिन्तयिष्यते ।प्रथमं तावत्कतिभिश्चिदधिकरणै: साधनाश्रयविचारविशेषमेवानुसराम: ।आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत सोऽन्वेष्टव्य: स विजिज्ञासितव्य इति चैवमादिशअवणेषु संशय: किं सकृत्प्रत्यय: कर्तव्य आहोस्विदावृत्त्येति ।किं तावत्प्राप्त सकृत्प्रत्यय: स्यात्प्रयाजादिवत् ।तावता शास्त्रस्य कृतार्थत्वात् ।अश्रूयमाणयां हयावृत्तौ क्रियमाणायामशास्त्रार्थ: कृतो भवेत् ।नन्वसकृदुपदेशा उदाहृता: श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्येवमादय: ।एवमपि यावच्छब्दमावर्तयेत्सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति नातिरिक्तम् ।सकृदुपदेशेषु तु वेदोपासीतेत्येवमादिष्वनावृत्तिरिति ।एवं प्राप्ते ब्रूम; ।प्रत्ययावृत्ति: कर्तव्या । कुत: ।असकृदुपदेशात् ।श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्येवंजातीयको हयसकृदुपदेश: प्रत्ययावृत्तिं सूचयति ।ननूक्तं यावच्छब्दमेवावर्तयेन्नाधिकमिति । न ।दर्शनपर्यवसाअन्त्वादेषाम् ।दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि द्दष्टार्थानि भवन्ति ।यथाऽवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि हि तद्वत् ।अपि चोपासनं निदिध्यासनं चेत्यन्तर्णीतावृत्तिगुणैव क्रियाऽभिधीयते ।तथा हिलोके गुरुमुपास्ते राजनमुपास्त इति च यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते ।तथा ध्यायति प्रोषितनाथा पतिमिति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सैवमभिधीयते ।विद्युपास्त्योश्च वेदान्तेश्वव्यतिकरेण प्रयोगो दृश्यते ।क्वचिद्विदिनोपक्रम्योपासिनोपसंहरति ।यथा यस्तद्वेद यत्स वेद स मयैतदुक्त इत्यत्र नु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ।क्वचिच्चोपासिनोपक्रम्य विदिनापसंहरति ।यथा मनो ब्रम्होत्युपासीतेत्यत्र भाति च तपति च कीर्त्या यशसा ब्रम्हावर्चसेन य एवं वेदेति ।तस्मात्सकृदुपदेशेष्वप्यावृत्तिसिद्धि: । असकृदुपदेशस्त्वावृत्ते: सूचक: ॥१॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP