प्रथमः पादः - सूत्र ८-११

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


ध्यानाच्च ॥८॥

ध्यानाच्च ॥
अपि च ध्यायत्यर्थ एष यत्समानप्रत्ययप्रवाहकरणम् ।
ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितद्दष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति बको भ्यायति प्रोषितबन्धुरिति ।
आसीनश्चनायासो भवति ।
तस्मादप्यासीनकमापासनम्‌ ॥८॥

अचलत्वं चापेक्ष्य ॥९॥

अचलत्वं चापेक्ष्य ॥
अपि च ध्यायतीव पृथिवीत्यत्र पृथिव्यादिष्वचलत्वमेवापेक्ष्य व्यायतिवादो भवति तच्च लिङ्गमुपासनस्यासीनकर्मत्वे ॥९॥

स्मरन्ति च ॥१०॥

स्मरन्ति च ॥
स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेनासनं शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन इत्यादिना ।
अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥१०॥

यत्रैकाग्रता तत्राविशेषात् ॥११॥

यत्रैकाग्रता तत्राविशेषात् ॥
दिग्देसकालेषु संशय: किमस्ति कश्चिन्नियमो नास्ति बेति ।
प्रायेण वैदिकेष्वारम्भेषु इद्गादिनियमदर्शनात्स्यादिहापि कश्चिन्नियम ति यस्य मतिस्तं प्रत्याह ।
दिग्देसकालेष्वर्थलक्षण एव नियम: ।
यत्रैवास्य दिशि देशे काले वा मनस:  सौकर्येणैकाग्रता भवति तत्रैवोपासीत प्राचीदिक्पूर्वांहवप्राचीनप्रवणादिवद्विशेषाश्रवणात् ।
एकाग्रताया इष्टाया: सर्वत्राविशेषात् ।
ननु विशेषम्पि केचिदामनन्ति समे शुचौ शर्करावन्हिवालुकाविवर्जिते शब्दजलाश्रयादिभि: ।
मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजएदिति यथेति । उच्यते ।
सत्यमस्त्येवंजातीपको नियम: ।
सति त्वेतस्मिंस्तद्नतेषु विशेषेष्वनियम ति व्रुहद्भूतवाऽऽचार्थं आचष्टे ।
मनोऽनुकूल ति चिअषाश्रुतिर्यत्रकाग्रता तत्रैवेत्येतद्देव दर्शयति ॥११॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP