संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः|उपदेशसाहस्री| उपदेश १९ उपदेशसाहस्री उपदेश १ उपदेश २ उपदेश ३ उपदेश ४ उपदेश ५ उपदेश ६ उपदेश ७ उपदेश ८ उपदेश ९ उपदेश १० उपदेश ११ उपदेश १२ उपदेश १३ उपदेश १४ उपदेश १५ उपदेश १६ उपदेश १७ उपदेश १८ उपदेश १९ उपदेशसाहस्री - उपदेश १९ भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य उपदेश १९ Translation - भाषांतर प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम् । न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम् ॥ अहं ममेति त्वमनर्थमीहसे परार्थमिच्छन्ति तवान्य ईहितम् । न तेऽर्थबोधो न हि मेऽस्ति चार्थिता ततश्च युक्तः शम एव ते मनः ॥ यतो न चान्यः परमात् सनातनात् सदैव तृप्तोऽहमतो न मेऽर्थिता । सदैव मुक्तश्च न कामये हितं यतस्व चेतः प्रशमाय तेऽधिकम् ॥ षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश्च नः श्रुतेः । प्रमाणतश्चापि मया प्रवेद्यते मुधैव तस्माच् च मनस्तवेहितम् ॥ त्वयि प्रशान्ते न हि सास्ति भेदधीर्यतो जगन् मोहमुपैति मायया । ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित् ॥ न मेऽस्ति मोहस्तव चैष्टितेन हि प्रबुद्धतत्त्वस्त्वसितो ह्यविक्रियः । न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस्तवेहितम् ॥ यतश्च नित्योऽहमतो न चान्यथा विकारयोगे हि भवेदनित्यता । सदा प्रभातोऽहमतो हि चाद्वयो विकल्पितं चाप्यसदित्यवस्थितम् ॥ अभावरूपं त्वमसीह हे मनो निरीक्ष्यमाणे न हि युक्तितोऽस्तिता । सतो ह्यनाशादसतोऽप्यजन्मतो द्वयं च तेऽतस्तव नास्तितेष्यते ॥ द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस्तव कल्पितो हि सः । दृशेश्च भिन्नं न हि दृश्यमीक्ष्यते स्वपन् विबोधे च तथा न भिद्यते ॥ विकल्पना चापि तथाद्वया भवेदवस्तुयोगात् तदलातचक्रवत् । न शक्तिभेदोऽस्ति यतो न चात्मनां ततोऽद्वयत्वं श्रुतितोऽवसीयते ॥ मिथश्च भिन्ना यदि ते हि चेतनाः क्षयस्तु तेषां परिमाणयोगतः । ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश्चापि समस्तमोक्षतः ॥ न मेऽस्ति कश्चिन् न च सोऽस्मि कस्यचिद् यतोऽद्वयोऽहं न हि चास्ति कल्पितम् । अकल्पितश्चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयमेव कल्पितम् ॥ विकल्पना चाप्यभवे न विद्यते सदन्यदित्येवमतो न नास्तिता । यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर्न च तद् विकल्पितम् ॥ असद् द्वयं तेऽपि हि यद् यदीक्षते न दृष्टमित्येव न चैव नास्तिता । यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत् ॥ सदभ्युपेतं भवतोपकल्पितं विचारहेतोर्यदि तस्य नास्तिता । विचारहानाच् च तहैव संस्थितं न चेत् तदिष्टं नितरां सदिष्यते ॥ असत्समं चैव सदित्यपीति चेदनर्थवत्त्वात् खरशृञ्गतुल्यतः । अनर्थवत्त्वं त्वसति ह्यकारणं न चैव तस्मान् न विपर्ययेऽन्यथा ॥ असिद्धतश्चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया । श्रुतेः स्मृतेश्चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यतेऽन्यथा ॥ विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश्च विकल्पितंऽद्वयम् । न चेति नेतीति तथा विकल्पितं निषिध्यतेऽत्राप्यवशेषसिद्धये ॥ अकल्पितेऽप्येवमजाद्वयाक्षरे विकल्पयन्तः सदसच् च जन्मभिः । स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम् ॥ भवाभवत्वं तु न चेदवस्थितिर्न तस्य चान्यस्त्विति जन्म नान्यथा । सतो ह्यसत्त्वादसतश्च सत्त्वतो न च क्रिया कारकमित्यतोऽप्यजम् ॥ अकुर्वदिष्टं यदि वास्य कारकं न किंचिदन्यन् ननु नास्त्यकारकम् । सतो विशेषादसतश्च सच्च्युतौ तुलान्तयोर्यद्वदनिश्चयान् न हि ॥ न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ । विभक्तमेतद् द्वयमप्यवस्थितं न जन्म तस्माच् च मनो हि कस्यचित् ॥ अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस्तव चेष्टितेन मे । न हानवृद्धी न यतः स्वतोऽसतो भवोऽन्यतो वा यदि वास्तिता तयोः ॥ ध्रुवा ह्यनित्याश्च न चान्ययोगिनो मिथश्च कार्यं न च तेषु युज्यते । अतो न कस्यापि हि किंचिदिष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम् ॥ समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात् । निरीक्ष्य युक्त्या श्रुतितश्च बुद्धिमानशेषनिर्वाणमुपैति दीपवत् ॥ अवेद्यमेकं यदनन्यवेदिनां कुतार्किकाणां च सुवेद्यमन्यथा । निरीक्ष्य चेत्थं त्वगुणग्रहोऽगुणं न याति मोहं ग्रहदोषमुक्तितः ॥ अतोऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर्ग्रह एव कारणम् । ग्रहोऽप्यहेतुर्ह्यनलस्त्वनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत् ॥ विमथ्य वेदोदधितः समुद्धृतं सुरैर्महाब्धेस्तु यथा महात्मभिः । तथाऽमृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमिक्षितं च यैः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP