संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः|उपदेशसाहस्री| उपदेश १६ उपदेशसाहस्री उपदेश १ उपदेश २ उपदेश ३ उपदेश ४ उपदेश ५ उपदेश ६ उपदेश ७ उपदेश ८ उपदेश ९ उपदेश १० उपदेश ११ उपदेश १२ उपदेश १३ उपदेश १४ उपदेश १५ उपदेश १६ उपदेश १७ उपदेश १८ उपदेश १९ उपदेशसाहस्री - उपदेश १६ भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य उपदेश १६ Translation - भाषांतर पार्थिवः कठिनो धातुर्द्रवो देहे स्मृतोऽम्मयः । पक्तिचेष्टावकाशाः स्युर्वह्निवाय्वम्बरोद्भवाः ॥ घ्राणादीनि तदर्थाश्च पृथिव्यादिगुणाः क्रमात् । रूपालोकवदिष्टं हि सजातीयार्थमिन्द्रियम् ॥ बुद्ध्यर्थान्याहुरेतानि वाक्पाण्यादीनि कर्मणे । तद्विकल्पार्थमन्तस्थं मन एकादशं भवेत् ॥ निश्चयार्था भवेद् बुद्धिस्तां सर्वार्थानुभाविनीम् । ज्ञातामोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन् सदा ॥ व्यञ्जकस्तु यथालोको व्यञ्ग्यस्याकारतां गतः । व्यतिकीर्णोऽप्यसंकीर्नस्तद्वज् ज्ञः प्रत्ययैः सदा ॥ स्थितो दीपो यथायत्नः प्राप्तं सर्वं प्रकाशयेत् । शब्दाद्याकारबुद्धीर्ज्ञः प्राप्तास्तद्वत् प्रपश्यति ॥ शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् । नित्यात्मज्योतिषा दीप्तां विशिंशन्ति सुखादयः ॥ शिरोदुःखादिनात्मानं दुःख्यस्मीति हि पश्यति । द्रष्टान्यो दुःखिनो दृश्याद् द्रष्टृत्वाच् च न दुःख्यसौ ॥ दुःखी स्याद् दुःख्यहंमानाद् दुःखिनो दर्शनान् न वा । संहतेऽञ्गादिभिर्द्रष्टा दुःखी दुःखस्य नैव सः ॥ चक्षुर्वत् कर्मकर्तृत्वं स्याच् चेन् नानेकमेव तत् । संहतं च ततो नात्मा द्रष्टृत्वात् कर्मतां व्रजेत् ॥ ज्ञानयत्नाद्यनेकत्वमात्मनोऽपि मतं यदि । नैकज्ञानगुणत्वात् तु ज्योतिर्वत् तस्य कर्मता ॥ ज्योतिषो द्योतकत्वेऽपि यद्वन् नात्मप्रकाशनम् । भेदेऽप्येवं समत्वाज् ज्ञ आत्मानं नैव पश्यति ॥ यद्धर्मा यः पदार्थो न तस्यैवेयात् स कर्मताम् । न ह्यात्मानं दहत्यग्निस्तथा नैव प्रकाशयेत् ॥ एतेनैवात्मनात्मनो ग्रहो बुद्धेर्निराकृतः । अंशोऽप्येवं समत्वाद् धि निर्भेदत्वान् न युज्यते ॥ शून्यतापि न युक्तैवं बुद्धेरन्येन दृश्यता । उक्तातो घटवत् तस्याः प्राक् सिद्धेश्च विकल्पतः ॥ अविकल्पं तदस्त्येव यत् पूर्वं स्याद् विकल्पतः । विकल्पोत्पत्तिहेतुत्वाद् यद्यस्यैव च कारणम् ॥ अज्ञानं कल्पनामूलं संसारस्य नियामकम् । हित्वात्मानं परं ब्रह्म वियान् मुक्तं सदाभयम् ॥ जाग्रत्स्वप्नौ तयोर्बीजं सुषुप्ताख्यं तमोमयम् । अन्योन्यस्मिन्नसत्त्वाच् च नास्तीत्येतत् त्रयं त्यजेत् ॥ आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् । भ्रान्तिः स्यादात्मकर्मेति क्रियाणां संनिपाततः ॥ निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः । प्रकाशत्वान् मनस्येवं बुद्धौ न स्तः प्राकाशतः ॥ संकल्पाध्यवसायौ तु मनोबुद्ध्योर्यथाक्रमात् । नेतरेतरधर्मत्वं सर्वं चात्मनि कल्पितम् ॥ स्थानावच्छेददृष्टिः स्यादिन्द्रियाणां तदात्मताम् । गता धीस्तां हि पश्यञ् ज्ञो देहमात्र इवेक्ष्यते ॥ क्षणिकं हि तदत्यर्थं धर्ममात्रं निरन्तरम् । सादृश्याद् दीपवत् तद्धीस्तच्छान्तिः पुरुषार्थता ॥ स्वाकारन्यावभासं च येषां रूपादि विद्यते । येषां नास्ति ततश्चान्यत् पूर्वासंगतिरुच्यते ॥ बाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् । क्षणिकत्वाच् च संस्कारं नैवाधत्ते क्वचित् तु धीः ॥ आधारस्यापि असत्त्वाच् च तुल्यतानिर्निमित्ततः । स्थाने वा क्षणिकत्वस्य हानं स्यान् न तदिष्यते ॥ शान्तेश्चायत्नसिद्धत्वात् साधनोक्तिरनर्थिका । एकैकस्मिन् समाप्तत्वाच्छान्तेरन्यानपेक्षता ॥ अपेक्षा यदि भिन्नेऽपि परसंतान इष्यताम् । सर्वार्थे क्षणिके कस्मिंस्तथाप्यन्यानपेक्षता ॥ तुल्यकालसमुद्भूतावितरेतरयोगिनौ । योगाच् च संस्कृतो यस्तु सोऽन्यं हीक्षितुमर्हति ॥ मृषाध्यासस्तु यत्र स्यात् तन्नाशस्तत्र नो मतः । सर्वनाशो भवेद् यस्य मोक्षः कस्य फलं वद ॥ अस्ति तावत् स्वयं नाम ज्ञानं वात्मन्यदेव वा । भावाभावज्ञतस्तस्य नाभावस्त्वधिगम्यते ॥ येनाधिगम्यतेऽभावस्तत् सत् स्यात् तन् न चेद् भवेत् । भावाभावानभिज्ञत्वं लोकस्य स्यान् न चेष्यते ॥ सदसत् सदसच् चेति विकल्पात् प्राग् यदिष्यते । तदद्वैतं समत्वात् तु नित्यं चान्यद् विकल्पितात् ॥ विकल्पोद्भवतोऽसत्त्वं स्वप्नदृश्यवदिष्यताम् । द्वैतस्य प्रागसत्त्वाच् च सदसत्त्वादिकल्पनात् ॥ वाचारम्भणशास्त्राच् च विकाराणां ह्यभावता । मृत्योः स मृत्युमित्यादेर्मम मयेति च स्मृतेः ॥ विशुद्धिश्चात एवास्य विकल्पाच् च विलक्षणात् । उपादेयो न हेयोऽत आत्मा नान्यैरकल्पितः ॥ अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः । नित्यबोधस्वरूपत्वान् नाज्ञानं तद्वदात्मनि ॥ तथाविक्रियरूपत्वान् नावस्थान्तरमात्मनः । अवस्थान्तरवत्त्वे हि नाशोऽस्य स्यान् न संशयः ॥ मोक्षोऽवस्थान्तरं यस्य कृतकः स चलो ह्यतः । न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥ संयोगस्याप्यनित्यत्वाद् वियोगस्य तथैव च । गमनागमने चैव स्वरूपं तु न हीयते ॥ स्वरूपस्यानिमित्तत्वात् सनिमित्ता हि चापरे । अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च ॥ स्वरूपत्वान् न सर्वस्य त्यक्तुं शक्यो ह्यनन्यतः । गृहीतुं वा ततो नित्योऽविषयत्वापृथक्त्वतः ॥ आत्मार्थत्वाच् च सर्वस्य नित्य आत्मैव केवलः । त्यजेत् तस्मात् क्रियाः सर्वाः साधनैः सह मोक्षवित् ॥ आत्मलाभः परो लाभ इति शास्त्रोपत्तयः । अलाभोऽन्यात्मलाभस्तु त्यजेत् तस्मादनात्मताम् ॥ गुणानां समभावस्य भ्रंशो न ह्युपपद्यते । अविद्यादेः प्रसुप्तत्वान् न चान्यो हेतुरिष्यते ॥ इतरेतरहेतुत्वे प्रवृत्तिः स्यात् सदा न वा । नियमो न प्रवृत्तीनां गुणेष्वात्मनि वा भवेत् ॥ विशेषो मुक्तबद्धानां तादर्थ्ये च न युज्यते । अर्थार्थिनोश्च संबन्धो नार्थी ज्ञो नेतरोऽपि वा ॥ प्रधानस्य च पारार्थ्यं पुरुषस्याविकारतः । न युक्तं संख्यशास्त्रेऽपि विकारेऽपि न युज्यते ॥ संबन्धानुपपत्तेश्च प्रकृतेः पुरुषस्य च । मिथोऽयुक्तं तदर्थत्वं प्रधानस्याचितित्वतः ॥ क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् । निर्मित्ते त्वनिर्मोक्षः प्रधानस्य प्रसज्यते ॥ न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः । एकनीडत्वतोऽग्राह्याः स्युः कणादादिवर्तमनाम् ॥ युगपच् चासमेतत्वात् सुखविज्ञानयोरपि । मनोयोगैकहेतुत्वादग्राह्यत्वं सुखस्य च ॥ तथान्येषां च भिन्नत्वाद् युगपज्जन्म नेष्यते । गुणानां समवेतत्वं ज्ञानं चेन् न विशेषणात् ॥ ज्ञानेनैव विशेष्यत्वाज् ज्ञानाप्यत्वं स्मृतेश्तथा । सुखं ज्ञातं मयेत्येवं तवाज्ञानात्मकत्वतः ॥ सुखादेर्नात्मधर्मत्वमात्मनस्तेऽविकारतः । भेदादन्यस्य कस्मान् न मनसो वाऽविशेषतः ॥ स्यान् मालापरिहार्या तु ज्ञानं चेज् ज्ञेयतां व्रजेत् । युगपद् वापि चोत्पत्तिरभ्युपेतेऽन्त इष्यते ॥ अनवस्थान्तरत्वाच् च बन्धो नात्मनि विद्यते । नाशुद्धिश्चाप्यसञ्गत्वादसञ्गो हीति च श्रुतेः ॥ सूक्ष्मैकागोचारेभ्यश् च न लिप्यत इति श्रुतेः । एवं तर्हि न मोक्षोऽस्ति बन्धाभावात् कथंचन ॥ शास्त्रानर्थक्यमेवं स्यान् न बुद्धेर्भ्रान्तिरिष्यते । बन्धो मोक्षश्च तन्नाशः स यथोक्तो न चान्यथा ॥ बोधात्मज्योतिषा दीप्ता बोधमात्मनि मन्यते । बुद्धिर्नान्योऽस्ति बोद्धेति सेयं भ्रान्तिर्हि धीगता ॥ बोधस्यात्मस्वरूपत्वान् नित्यं तत्रोपचर्यते । अविवेकोऽप्यनाद्योऽयं संसारो नान्य इष्यते ॥ मोक्षस्तन्नाश एव स्यान् नान्यथानुपपत्तितः । येषां वस्त्वन्तरापत्तिर्मोक्षो नाशस्तु तैर्मतः ॥ अवस्थान्तरमप्येवमविकारान् न युज्यते । विकारेऽवयवित्वं स्यात् ततो नाशो घटादिवत् ॥ तस्माद् भ्रान्तिरतोऽन्या हि बन्धमोक्षादिकल्पनाः । सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः ॥ शास्त्रयुक्तिविरोधात् ता नादर्तव्याः कदाचन । शक्यन्ते शतशो वक्तुं दोषास्तासां सहस्रशः ॥ अपि निन्दोपपत्तेश्च यान्यतोऽन्यानि चेत्यतः । त्यक्त्वातो ह्यन्यशात्रोक्तीर्मतिं कुर्याद् दृढां बुधः ॥ श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वमनार्जवम् । वेदान्तस्यैव तत्त्वार्थे व्यासस्यापि मतौ तथा ॥ इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश्च तथा हि युक्तितः । व्यपेतशञ्काः परवादतः स्थिरा मुमुक्षवो ज्ञानपथे स्युरित्युत ॥ स्वसाक्षिकं ज्ञानमतीव निर्मलं विकल्पनाभ्यो विपरीतमद्वयम् । अवाप्य सम्यग् यदि निश्चितो भवेन् निरन्वयो निर्वृतिमेति शाश्वतीम् ॥ इदं रहस्यं परमं परायणं व्यपेतदोषैरभिमानवर्जितैः । समीक्ष्य कार्या मतिरार्जवे सदा न तत्त्वदृक् स्वान्यमतिर्हि कश्चन ॥ अनेकजन्मान्तरसंचितैर्नरो विमुच्यतेऽज्ञाननिमित्तपातकैः । इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः ॥ प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सततं मुमुक्षवे ॥ परस्य देहे न यथाभिमानिता परस्य तद्वत् परमार्थमीक्ष्य च । इदं हि विज्ञानमतीव निर्मलं संप्राप्य मुक्तोऽथ भवेच् च सर्वतः ॥ न हीह लाभोऽभ्यधिकोऽस्ति कश्चन स्वरूपलाभात् स इतो हि नान्यतः । न देयमैन्द्रादपि राजतोऽधिकं स्वरूपलाभं त्वपरीक्ष्य यत्नतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP