उपदेशसाहस्री - उपदेश ३

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


ईश्वरश्चेदनात्मा स्यान् नासावस्मीति धारयेत् । आत्मा चेदीश्वरोऽस्मीति विद्या सान्यनिवर्तिका ॥
आत्मनोऽन्यस्य चेद् धर्मा अस्थूलत्वादयो मताः । अज्ञेयत्वेऽस्य किं तैः स्यादात्मत्वे त्वन्यधीह्नुतिः ॥
मिथ्याध्यासनिषेधार्थं ततोऽस्थूलादि गृह्यताम् । परत्र चेन् निषेधार्थं शून्यतावरणं हि तत् ॥
बुभुत्सोर्यदि चान्यत्र प्रत्यगात्मन इष्यते । अप्राणो ह्यमनाः शुभ्र इति चानर्थकं वचः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP