उपदेशसाहस्री - उपदेश ९

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


सूक्ष्मताव्यापिते ज्ञेये गन्धादेरुत्तरोत्तरम् । प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः ॥
शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः । अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः ॥
वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा । अहमेकः सदा सर्वश्चिन्मात्रः सर्वगोऽद्वयः ॥
ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः । कामक्रोधादयो दोषा जायेरन् मे कुतोऽन्यतः ॥
भूतदोषैः सदास्पृष्टं सर्वभूतस्थमीश्वरम् । नीलं व्योम यथा बालो दूष्टं मां वीक्षते जनः ॥
मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा । पूर्मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः ॥
जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवदिष्यते । नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते ॥
ज्ञातुर्ज्ञातिर्हि नित्योक्ता सुषुप्ते त्वन्यशून्यतः । जाग्रज्ज्ञातिस्त्वविद्यातस्तद् ग्राह्यं चासदिष्यताम् ॥
रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा । एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP