संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः|उपदेशसाहस्री| उपदेश १२ उपदेशसाहस्री उपदेश १ उपदेश २ उपदेश ३ उपदेश ४ उपदेश ५ उपदेश ६ उपदेश ७ उपदेश ८ उपदेश ९ उपदेश १० उपदेश ११ उपदेश १२ उपदेश १३ उपदेश १४ उपदेश १५ उपदेश १६ उपदेश १७ उपदेश १८ उपदेश १९ उपदेशसाहस्री - उपदेश १२ भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य उपदेश १२ Translation - भाषांतर प्रकाशस्थं यथा देहं सालोकमभिमन्यते । द्रष्ट्राभासं तथा चित्तं द्रष्टाहमिति मन्यते ॥ यदेव दृष्यते लोके तेनाभिन्नत्वमात्मनः । प्रपद्यते ततो मूढस्तेनात्मानं न विन्दति ॥ दशमस्य नवात्मत्वप्रतिपत्तिवदात्मनः । दृश्येषु तद्वदेवायं मूढो लोको न चान्यथा ॥ त्वं कुरु त्वं तदेवेति प्रत्ययावेककालिकौ । एकनीडौ कथं स्यातां विरुद्धौ न्यायतो वद ॥ देहाभिमानिन् दुःखं नादेहस्यस्वभावतः । स्वापवत् तत्प्रहाणाय तत् त्वमित्युच्यते दृशेः ॥ दृशेश्छाया यदारूढा मुखच्छायेव दर्शने । पश्यंस्तं प्रत्ययं योगी दृष्ट आत्मेति मन्यते ॥ तं च मूढं च यद्यन्यं प्रत्ययं वेत्ति नो दृशेः । स एव योगिनां श्रेष्ठो नेतरः स्यान् न संशयः ॥ विज्ञातेर्यस्तु विज्ञाता स त्वमित्युच्यते यतः । स स्यादनुभवस्तस्य ततोऽन्योऽनुभवो मृषा ॥ दृशिरूपे सदा नित्ये दर्शनादर्शने मयि । कथं स्यातां ततो नान्य इष्यतेऽनुभवस्ततः ॥ यत्स्थस्तापो रवेर्देहे दृशेः स विषयो यथा । सत्त्वस्थस्तद्वदेवेह दृशेः स विषयस्तथा ॥ प्रतिषिद्धेदमंशो ज्ञः खमिवैकरसोऽद्वयः । नित्यमुक्तस्तथा शुद्धः सोऽहं ब्रह्मास्मि केवलः ॥ विज्ञातुर्नैव विज्ञाता परोऽन्यः संभवत्यतः । विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा ॥ यो वेदालुप्तदृष्टित्वमात्मनोऽकर्तृतां तथा । ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः ॥ ज्ञातैवाहमविज्ञेयः शुद्धो मुक्तः सदेत्यपि । विवेकी प्रत्ययो बुद्धेर्दृश्यत्वान् नाशवत्त्वतः ॥ अलुप्ता त्वात्मनो दृष्टिर्नोत्पाद्या कारकैर्यतः । दृश्यया चान्यया दृष्ट्या जन्यतास्याः प्रकल्पिता ॥ देहात्मबुद्ध्यपेक्षत्वादात्मनः कर्तृता मृषा । नैव किंचित् करोमीति सत्या बुद्धिः प्रमाणजा ॥ कर्तृत्वं कारकापेक्षमकर्तृत्वं स्वभावतः । कर्ता भोक्तेति विज्ञानं मृषैवेति सुनिश्चितम् ॥ एवं शास्त्रानुमानाभ्यां स्वरूपेऽवगते सति । नियोज्योऽहमिति ह्येषा सत्या बुद्धिः कथं भवेत् ॥ यथा सर्वान्तरं व्योम व्योम्नोऽप्यभ्यन्तरो ह्यहम् । निर्विकारोऽचलः शुद्धोऽजरो मुक्तः सदाद्वयः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP