संस्कृत सूची|संस्कृत साहित्य|शंकराचार्यविरचितम् साहित्यः|उपदेशसाहस्री| उपदेश ७ उपदेशसाहस्री उपदेश १ उपदेश २ उपदेश ३ उपदेश ४ उपदेश ५ उपदेश ६ उपदेश ७ उपदेश ८ उपदेश ९ उपदेश १० उपदेश ११ उपदेश १२ उपदेश १३ उपदेश १४ उपदेश १५ उपदेश १६ उपदेश १७ उपदेश १८ उपदेश १९ उपदेशसाहस्री - उपदेश ७ भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे. Tags : sahityashankaracharyaशंकराचार्यसंस्कृतसाहित्य उपदेश ७ Translation - भाषांतर बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा । मया तस्मात् परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः ॥ यथामबुद्धिचाराणां साक्षी तद्वत् परेष्वपि । नैवापोढुं न वादातुं शक्यस्तस्मात् परो ह्यहम् ॥ विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः । अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना ॥ मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे । मयि संदृश्यते सर्वमातपेनेव तन् मया ॥ बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये । द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते ॥ अविवेकात् पराभावं यथा बुद्धिरवेत् तथा । विवेकात् तु परादन्यः स्वयं चापि न विद्यते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP