संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|चरमांशुः| तिलपात्रदानम् चरमांशुः सर्वप्रायश्चित्तप्रयोगः दशदानानि विप्रपादोकदकग्रहणसंकल्पः गोदानप्रयोगः ऋणधेनुदानम् उत्क्रांतिधेनुदानम् मोक्षधेनुदानम् पापधेनुदानम् वैतरणीधेनुदानम् तिलपात्रदानम् चरमांशुः - तिलपात्रदानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत तिलपात्रदानम् Translation - भाषांतर यथाशक्तिकांस्यपात्रे तिलान् क्षिप्त्वा सुवर्णं च । अद्येत्यादि० मम अमुकस्य वा जन्मप्रभृतिमरणांतं कृतनानाविधपापप्रशमनार्थं तिलपात्रदानं करिष्ये । ब्राह्मणं पादप्रक्षालनादिना यथाविभवं संपूज्य विप्राय वेदविदुषे० एतत् तिलपात्रदानं मम ( अमुकस्य वा ) जन्मप्रभृतिमरणांतं कृतनानाविधपापप्रशमनार्थं तिलपात्रदानं सदक्षिणं अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे प्रतिगृह्यतां ‘ प्रतिगृह्णामि ’ इति विप्रः । यानि कानि च पापानि ब्रह्महत्यासमानि च । तिलपात्रप्रदानेन तानि नश्यंतु सर्वदा ॥ महर्षेर्गोत्रसंभूताः कश्यपस्य तिलाः स्मृताः ॥ तस्मादेषां प्रदानेन मम पापं व्यपोहतु । न ममेति विप्रहस्ते जलं क्षिपेत् । पुत्रादिस्तु ‘ मम ’ इत्यत्र ‘ अस्य पापं व्यपोहतु ’ इति वदेत् ॥ ॥ इति तिलपात्रदानम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP