संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|चरमांशुः| वैतरणीधेनुदानम् चरमांशुः सर्वप्रायश्चित्तप्रयोगः दशदानानि विप्रपादोकदकग्रहणसंकल्पः गोदानप्रयोगः ऋणधेनुदानम् उत्क्रांतिधेनुदानम् मोक्षधेनुदानम् पापधेनुदानम् वैतरणीधेनुदानम् तिलपात्रदानम् चरमांशुः - वैतरणीधेनुदानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत वैतरणीधेनुदानम् Translation - भाषांतर अद्येत्यादि देशकालौ स्मृत्वा मम ( अमुकस्य वा ) यमद्वारस्थितवैतरण्याख्यनद्युत्तारणार्थं वैतरणीसंज्ञकगोदानमहं करिष्ये इति संकल्प्य गां संपूज्य विप्रं प्रादप्रक्षालनपूर्वकवस्त्रगंधमाल्यादिभिरभ्यर्च्य तद्धस्ते ‘ शिवा आपः संतु सौमनस्यमस्तु अक्षतं चारिष्टं चास्तु यच्छ्रेयस्तदस्तु यत्पापं तत्प्रतिहतमस्तु ’ इति कृत्वा - धेनुं प्रार्थयेत् - धेनुके त्वं प्रतीक्षस्व यमद्वारे महापथे । उत्तितीर्षुरहं देवि वैतरण्यै नमोऽस्तु ते ॥ विष्णुरुपिन् द्विजश्रेष्ठ भूदेव द्विजपावन । तर्तुं वैतरणीमेतां कृष्णां गां प्रददाम्यहम् ॥ गवामंगेषु० विप्राय वेद० इमां वैतरणीसंज्ञकां गां रुद्रदैवत्यां कृष्णवस्त्ररक्तमाल्यादियथाशक्त्यलंकृतां यथाशक्ति दक्षिणायुतां वैतरणीनद्युत्तारणार्थं अमुकगोत्राय शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे - यमद्वारे पथे घोरे घोरा वैतरणी नदी । तां तर्तुकामो यच्छामि कृष्णां वैतरणीं तु गाम् ॥ इति मंत्रेण विप्रहस्ते सतिलकुशोदकं क्षिप्त्वा ‘ न मम ’ इति वदेत् । कृष्णधेनोरभावेऽन्यवर्णा देया गोरभावे हिरण्यद्वारेदं कार्यम् । पित्राद्युद्देशेन पुत्रादि दाताचेत् प्रथमे मंत्रे ‘ उत्तितीर्षुरयं ’ इति, द्वितीये ‘ तर्तुं वैतरणीमस्य ’ इति तृतीये च ‘ तां तर्तुमस्य ’ ॥ ॥ इति कृत्यदिवाकरे चरमांशौ वैतरणीधेनुदानम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP