चरमांशुः - गोदानप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


दाता कृतस्नान आचम्य पवित्रपाणिः देशकालौ स्मृत्वा ममैतज्जन्मान्यजन्मोपार्जित - समस्त - पापक्षयपूर्वकमात्मना सहैकविंशति - पुरुषोत्तारण - गोतनुस्थ - लोमसम - सहस्रसंख्याकाब्द - स्वर्गादिलोक - निवासानंतभोगसौख्यप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं ब्राह्मणाय यथाशक्तिगोदानमहं करिष्ये । तदंगत्वेन ब्राह्मणपूजां गोः पूजां च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पात्रीभूतं ब्राह्मणं वृणुयात् । ‘ करिष्यमाणगोदानार्थं त्वामहं वृणे ’ इति वृत्वा । ब्राह्मणं यथाविभवं संपूज्य गां च पूजयेत् । यथा - गवामंगेषु तिष्ठंति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥ गवे नमः ध्यायामि इति सवत्सां गां ध्यायेत् । त्वं स्वधा पितृमुख्यानां स्वाहा यज्ञभुजां तथा । सर्वपापहरा धेनुस्तस्माच्छांतिं प्रयच्छ मे । गवे नमः आवाहयामि ॥ पंचगावः समुत्पन्ना मथ्यमाने महोदधौ । तासां मध्ये तु या नंदा तस्यै देव्यै नमो नमः । गवे नमः आसनं समर्पयामि ॥ सौरभे वेदरुपे त्वं सर्वपापविनाशिनि । गृहाण त्वं मया दत्तं पाद्यं त्रैलोक्यवंदिते । गवे० पाद्यं० ॥ सर्वदेवमये देवि सर्वतीर्थमये शुभे । गृहाणार्घ्यं मया दत्तं सौरभेयि नमोस्तु ते । गवे नमः अर्घ्यं० ॥ देहस्थिता च रुद्राणां शंकरस्य सदा प्रिया । धेनुरुपेण सा देवी मम पापं व्यपोहतु । गवे० आचमनीयं०॥ सर्वदेवमयी च त्वं सर्वतीर्थमयं जलम् । गृहाणेदं मया दत्तं स्नानार्थं प्रतिगृह्यताम् । गवे० स्नानीयं० ॥ आचमनं० ॥ आच्छादनं गवे दद्याच्छुद्धं शुचि सुनिर्मलम् । सुरभिर्वस्त्रदानेन प्रीयतां परमेश्वरी । गवे० वस्त्रं० । आचमनं० । उपवस्त्रं० ॥ या लक्ष्मीः सर्वदेवानां सर्वभूतेष्ववस्थिता । धेनुरुपेण सा देवी मम पापं व्यपोहतु । गवे० चंदनं० ॥ माल्यादीनि० गवेन० पुष्पाणि० ॥ हरिद्रारंजिता० कुंकुमं० कज्जलंस० अलंकारान्‍ ० ॥ अथांगपूजा - गवेन० शृंगमूलयोः ब्रह्मविष्णुभ्यां नमः । शृंगाग्रे सर्वतीर्थेभ्यो० । शृंगमध्ये स्थावरजंगमेभ्यो नमः । शिरसि महादेवाय० । ललाटे गौर्यै० । नासिकायां षण्मुखाय० । नासापुटयोः कंबलाश्वतराभ्यां० । कर्णयोः अश्विभ्यां० । नेत्रयोः शशिभास्कराभ्यां० । दंतेषु वायुभ्यो० । मुखे रुद्राय० जिह्वायां वरुणाय० । हुंकारे सरस्वत्यै० । गंडयोः मासपक्षाभ्यां० । ओष्ठयोः संध्याद्वयाय० । ग्रीवायां इंद्राय० । कंठे विष्णवे० । स्कंधयोः अहोरात्राभ्यां० । कक्षयोः रक्षोभ्यां नमः । शिरसि साध्येब्भ्यो देवेभ्यो० । जंघासु धर्माय० । खुरमध्ये गंधर्वेभ्यो० । खुराग्रेषु पन्नगेभ्यो० । खुरपश्चिमदेशे अप्सरोभ्यो० । पृष्ठे एकादशरुद्रेभ्यो० । सर्वसंधिषु वसुभ्यो० । श्रोण्योः पितृभ्यो० । पुच्छे सोमाय० । केशेषु सूर्य रश्मिभ्यो० । गोमूत्रे गंगायै० । गोमये यमुनायै० । क्षीरे सरस्वत्यै० । दध्नि नर्मदायै० । धृते वह्नये० । रोमकूपेषु त्रयस्त्रिंशद्देवकोटिभ्यो० । उदरे पृथिव्यै० । स्तनेषु चतुः समुद्रेभ्यो० । सर्वांगेषु वासुदेवाय० इति देहपूजां विधाय शक्तौ सत्यां स्वर्णशृंग - रौप्यखुर - ताम्रपृष्ठ - कांस्यदोह - मुक्ताफललांगूलानि दोहपात्रं च यथास्थानं निवेशयेत् । तत्परिमाणं तु - दशसौवर्णिके शृंगे खुराः पंचपलान्विताः । पंचाशत्पलिकं कांस्यं ताम्रमानं तथैव च ॥ ततः शक्त्यनुसारेण गवे मालामाच्छादनं च दद्यात् । देवद्रुमरसोद्भूतं गोधृतेन समन्वितम् । प्रयच्छामि महाभागे धूपोऽयं प्रतिगृह्यताम् । गवे० धूपं० ॥ आनंदः सर्वलोकानां ज्योतिर्दृष्ट्वा शिवप्रियम् । जगन्मात्रेऽर्पितं दीपं सुरभे प्रति० । गवे० दीपं० ॥ सुरभे त्वं जमन्मातर्देवि विष्णुपदे स्थिते । ग्रासं गृहाण मे दत्तं गोमातस्त्रातुमर्हसि । गोग्रासं ( नैवेद्यं ) निवेदयेत् । आचमनं० । पूगीफलं महद्दिव्यमिति तांबूलं हिरण्यगर्भेति दक्षिणां इदं फलमिति फलम् । चक्षुर्दं सर्वलोकानां० नीराजनं कर्पूरदीपं गवामंगेष्विति मंत्रपुष्पम् । यानि कानि चेति प्रदक्षिणां० नमो गोभ्यः श्रीमतीभ्यः सौरभेयिभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥ इति नमस्कारं कृत्वा प्रार्थयेत् - पंचगावः समुत्पन्ना मथ्यमाने महोदधौ । तासां मध्ये तु या नंदा तस्यै देव्यै नमो नमः ॥ या लक्ष्मीः सर्वभूतानां या देवेषु व्यवस्थिता । धेनुरुपेण सा देवी मम पापं व्यपोहतु ॥ देहस्था या तु रुद्राणी शंकरस्य प्रिया सदा । धेनुरुपेण० ॥ विष्णोर्वक्षसि या लक्ष्मीः स्वाहा वा च विभावसोः । चंद्रार्कशक्तिः शक्रस्य धेनुरुपेण सा प्रिया ॥ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च । लक्ष्मीर्या लोकपालानां सा धेनुर्वरदाऽस्तु मे ॥ त्वं स्वधा पितृमुख्यानां स्वाहा यज्ञभुजां तथा । सर्वपापहरा धेनुस्तस्माच्छांतिं प्रयच्छ मे । इति संप्रार्थ्य - यस्य स्मृत्या च नामोक्त्या० अनेन पूजनेन भगवती श्री गौः प्रीयताम् । ततो दानं कुर्यात् तद्यथा - स्वस्त्यस्तु दीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु - गवामंगेषु तिष्ठंति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च । यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा ॥ विप्राय वेदविदुषे० मम समस्तपापक्षयपूर्वकपूर्वसंकल्पितगोदानकल्पोक्तफलावाप्त्यर्थं इमां गां रुद्रदैवत्यां सुपूजितां यथाशक्त्यलंकृतां ( सुवर्णशृंगीं रौप्यखुरां ताम्रपृष्ठीं घंटाग्रैवेयकां मुक्तालांगूलां कांस्योपदोहनीं वस्त्रोपेतां सर्वाभरणभूषितां वा ० यथासोपस्करां अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय सुपूजिताय तुभ्यमहं संप्रददे न मम । इति तिलपात्रे घृताक्तं गोपुच्छं कृत्वा विप्रहस्ते सतिलकुशोदकं क्षिपेत् । कर्ता - ‘ प्रतिगृह्यतां ’ विप्रः ‘ प्रतिगृह्णामि ’ इति प्रतिब्रूयात् । हिरण्यगर्भेति दानसांगतासिद्ध्यर्थं इमां दक्षिणां तुभ्यमहं संप्रददे इति दक्षिणां दत्त्वा प्रार्थयेत् । नमो गोभ्यः श्रीमतीभ्यः सौरभेयिभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥ पूजितासि वसिष्ठेन विश्वामित्रेण धीमता । सुरभे हर मे पापं यन्मया दुष्कृतं कृतम् ॥ गावो मे अग्रतः संतु गावो मे संतु पृष्ठतः । गावो मे ह्रदये नित्यं गवां मध्ये वसाम्यहम् ॥ इति पठित्वा धेनुं द्विजं च प्रदक्षिणीकृत्य ताभ्यां सह किंचिदनुव्रजेत् ॥ इति गोदानप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP