चरमांशुः - मोक्षधेनुदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशकालौ संकीर्त्य मम ( अमुकस्य वा ) आजन्मोपार्जितसकलपापक्षयपूर्वकसंसारमोक्षावाप्त्यर्थं श्रीपापापहा मोक्षदाता महाविष्णुप्रीत्यर्थं मोक्षधेनुदानमहं करिष्ये इति संकल्प्य धेनुं संपूज्य आसनादि यथाशक्त्युपचारैर्विप्रं संपूज्य मंत्रान्पठेत् । गवामंगेषु० । मोक्षदो वासुदेवस्तु वेदशास्त्रेषु गीयते । तत्प्रीतये द्विजाग्र्याय मोक्षधेनुं ददाम्यहम् ॥ विप्राय वेदविदुषे० । इमां मोक्षधेनुं रुद्रदैवत्यां यथाशक्त्यलंकृतां मम ( अमुकस्य वा ) समस्तपापक्षयपूर्वकसंसारमोक्षावाप्त्यर्थं श्रीमोक्षदाता महाविष्णुप्रीत्यर्थं अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न मम प्रतिगृह्यतां प्रतिगृह्णामीति विप्रः । मोक्षं देहि ह्र्षीकेश मोक्षं देहि जनार्दन । मोक्षधेनुप्रदानेन मम पापं व्यपोहतु ॥ इति पठित्वा सुवर्णादि यथाशक्तिदक्षिणां दद्यात् । ( पुत्रादि दाता चेत् ममेत्यत्र अस्येति वदेत् ) । साक्षाद्गोरभावे तु तत्स्वरुपभूतं तन्मूल्यं वा दद्यात् । सर्वत्र दानादौ वित्तशाठ्यं न कुर्यात् ॥ ॥ इति मोक्षधेनुदानविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP