चरमांशुः - सर्वप्रायश्चित्तप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अथ कृत्यदिवाकरे चरमांशुः प्रारभ्यते ।
सर्वप्रायश्चित्तप्रयोगः ।
॥श्रीः॥ अथ सर्वप्रायश्चित्तप्रयोगः क्षत्रियादीनामाचारानुसारेण लिख्यते । तत्र षडब्दत्र्यब्दसार्धाब्दादिव्यवस्थया प्राजापत्यादि प्रत्याम्नायाश्च परिभाषोक्ता एव । तत्र त्रिंशत्कृच्छ्रमब्दं पंचचत्वारिंशत्कृच्छ्रं सार्धाब्दं नवतिकृच्छ्रं त्र्यब्दं कृच्छ्रप्रजापत्यमिति तत्पर्यायौ । कृच्छ्रे गोनिष्क्रयः सुवर्णनिष्कतदर्धतत्पादान्यतमः प्रत्याम्नायः तदभावे रजतं वा । तत्र सामग्र्युपकल्पनम् - फल - तांबूल - गंध - पुष्प - तुलसी - धूपदीपाः पंचगव्यानि मृद्भस्मगोमूत्र गोमयदूर्वातिलाः समिद्दर्भाः होमार्थं घृतं पर्वद्दक्षिणा निबंधानुवादकपूजार्थं दक्षिणा र्वोत्तरांगगोदाने विष्णुश्राद्धे प्रायश्चित्तीयद्रव्यमिति ॥

अथ प्रयोगः -
त्र्यवरान्‍ एकं वा विप्रं पर्षत्त्वेनोपवेश्य कृतस्नानः शक्तश्चेत् आर्द्रवासाः कर्ता - समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः । अपारसंसारसमुद्रसेतवः पुनंतु मां ब्राह्मणपादपांसवः ॥१॥ आपद्धनध्वांतसहस्रभानवः समीहितार्थार्पणकामधेनवः । समस्ततीर्थांबुपवित्रमूर्तयो रक्षंतु मां ब्राह्मणपादपांसवः ॥२॥ विप्रौघदर्शनात्क्षिप्रं क्षीयंते पापराशयः । वंदनान्मंगलावाप्तिरर्चनादच्युतं पदम् ॥३॥ आधिव्याधिहरं नृणां मृत्युदारिद्यनाशनम् । श्रीपुष्टिकीर्तिदं वंदे विप्रश्रीपादपंकजम् ॥४॥ इति पठन्‍ विप्रान्‍ प्रदक्षिणीकृत्य साष्टांगं प्रणमेत् । विप्रैः - ‘ किं ते कार्यं मिथ्यामावादीः सत्यमेव वद ’ इति पृष्टः ‘ गोवृषयोर्निष्क्रयीभूतं निष्क - तदर्ध तत्पादान्यतमप्रमाणं रजतद्रव्यं सभ्येभ्यः संप्रददे न मम ’ इतिसंकल्पपूर्वकं सभ्याग्रे निधाय ‘ अमुकनाम्नः मम जन्मप्रभृति अद्ययावत् ज्ञानाज्ञान - ( ज्ञाताज्ञात - ) कामाकाम - सकृदसकृत्कृतकायिक - वाचिक - मानसिक - सांसर्गिक - स्पृष्टास्पृष्ट - भुक्ताभुक्त - पीतापीत - सकलपातका - तिपातकोपपातक - लघुपातक संकरीकरण - मलिनीकरणापात्रीकरण - जातिभ्रंशकर - प्रकीर्णपातकानां मध्ये संभावितपापानां निरासार्थं प्रायश्चित्तमुपदिशंतु भवंतः ’ इति वदेत् । पुत्रादिप्रतिनिधिश्चेत् ‘ अमुकनाम्नः मम पितुः ( तदन्यस्य वा ) जन्मप्रभृति ’ इत्यादि वदेत् । ततः - ‘ सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वंतु द्विजसत्तमाः ॥ मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ पूज्यैः कृतपवित्रोऽहं भवेयं द्विजसत्तमैः ॥ मामनुगृह्णंतु भवंतः ’ इति प्रार्थयित्वा विप्रान्नमेत् । ततः सभ्यैः शक्त्यादिविचार्य प्रायश्चित्ते निश्चिते कर्ता पुस्तकपूजामनुवादकपूजां च कुर्यात् । आचम्य पवित्रपाणिस्तिथ्यादि संकीर्त्य ‘ करिष्यमाणसर्वप्रायश्चित्तांगत्वेन पुस्तकपूजनं अनुवादकपूजनं च करिष्ये ’ इति संकल्प्य - श्वेतपद्मासनां श्वेतां श्वेतवस्त्रां सुरार्चिताम् । वंदे सरस्वतीं देवीं वीणापुस्तकधारिणीम् । सरस्वत्यै नमः ध्यायामि इत्यावाहनाद्युपचारैः संपूज्य निबंधपूजात्वेन किंचिदद्रव्यं निधाय अनेन पूजनेन सरस्वती प्रीयताम् ॥ ततः अनुवादकपूजनं - ‘ ब्रह्मणे नमः इदमासनं ’ इत्यर्घ्य - गंध - पुष्पा क्षतादिभिः संपूज्य ‘ इमां यथाशक्तिभृतिरुपां दक्षिणां अमुकशर्मणे अनुवादकायतुभ्यमहं संप्रददे प्रतिगृह्यतां ‘ प्रतिगृह्णामि ’ इति विप्रो वदेत् इति पापानुसारेण यथाशक्ति दक्षिणां दद्यात् । ततः सभ्याः पुस्तकवाचनपूर्वकं अनुवादकस्याग्रे कथयेयुः अनुवादकश्च कर्तारं वदेत् । तद्यथा - सभ्यैरुपदिष्टोऽनुवादकः अमुकनाम्नः अमुकवर्मणः ते जन्मप्रभृत्यद्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत्कृतकायिक - वाचिक - मानसिक - सांसर्गिक - स्पृष्टास्पृष्ट - भुक्ताभुक्त - पीतापीत - सकल - पातकातिपातकोपपातक - लघुपातक - संकरीकरण - मलिनीकरणापात्रीकरण - जातिभ्रंशकर - प्रकीर्णपातकानां मध्ये संभावितपापानां निरासार्थं पर्षदुपदिष्टं सार्धाब्दत्र्यब्द - षडब्दान्यतमप्रायश्चित्तं प्रतिकृच्छ्रं यथाशक्ति गोनिष्क्रयीभूतद्रव्यदानप्रत्याम्नायद्वारा प्राच्योदीच्यांगसहितं त्वया आचरितव्यं तेन तव शुद्धिर्भविष्यति त्वं कृतार्थो भविष्यसि ’ इति त्रिरुपदिशेत् । कर्ता ‘ ॐ ’ इत्यंगीकृत्य प्रणम्य पर्षदं विसृजेत् । ततः देशकालौ स्मृत्वा ‘ अमुकवर्मणः मम जन्मप्रभृत्यद्ययावत् ज्ञानाज्ञानकामादि इत्यारभ्यनिरासार्थमित्यंतमुक्त्वा पर्षदुपदिष्टं अमुकप्रायश्चित्तं प्राच्योदीच्यांगसहितं अमुकप्रत्याम्नायद्वारा अहमाचरिष्ये इति संकल्पयेत् । यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठंति तस्मात्केशान्वपाम्यहम् ॥ इति मंत्रेण क्षौरं कार्यम् । क्षौराभावे सार्धाब्दादिसर्वं द्विगुणं पर्षद्दक्षिणापि द्विगुणा देया । यत्र तु सभर्तृकास्त्रिया जीवत्पितृकादेश्च क्षौरं निषिद्धं तत्र तत् द्विगुणम् क्षौरं च शिखाकक्षोपस्थवर्जं नखकेशरोम्णामुदक्संस्थं वपनं इति सर्वत्र गोवधादिप्रायश्चित्ते शिखासहितवपनं क्षौराद्यंगजातं अपामार्गादिकृच्छ्राधिके भवति न कृच्छ्रन्यूने प्राजापत्यत्रयमितेऽधिके वा क्षौरं न तु ततो न्यूनं क्षौरांते गंडूषान्‍ कृत्वा यथोक्तदंतकाष्ठेन दंतधावनं कृत्वा अन्यकाष्ठेन जिह्वामुल्लिख्य स्नात्वा भस्मादिदशस्नानानि कुर्यात् । तत्र सर्वप्रायश्चित्तांगत्वेन भस्मस्नानं करिष्ये इति संकल्प्य भस्म गृहीत्वा ईशानाय नमः शिरसि, पंचवक्त्राय नमः मुखे, शितिकंठाय० ह्रदये, वामदेवाय० गुह्ये, महादेवाय० पादयोः सर्वेभ्यो नमः इति सर्वांगे ततः स्नात्वाऽऽचम्य अद्येत्यादि० प्रायश्चित्तांगत्वेन गोमयस्नानं करिष्ये इति संकल्प्य गोमयमादाय दक्षिणभागे प्राच्यै नमः इति पूर्वस्याम् ( एवमग्रेऽपि ) आग्नेय्यै नमः दक्षिणायै० नैऋत्यै० प्रतीच्यै० वायव्यै० उदीच्यै० ईशान्यै० इति प्रतिदिशं गोमयं क्षिप्त्वा उत्तरभागं तीर्थे क्षिप्त्वा शेषं सूर्याय दर्शयित्वा - ‘ अग्रमग्रं चरंतीनामोषधीनां वने वने । तासामृषभपत्नीनां पवित्रं कायशोधनम् । तन्मे रोगांश्च शोकांश्च नुद गोमय सर्वदा ॥ ’ इति मंत्रेण शिरः प्रभृत्यंगेषु विलिप्य ‘ गंगे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधो कावेरि जलेऽस्मिन्‍ सन्निधिं कुरु ’ इति तीर्थं प्रार्थ्य ‘ गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ’ इति तीर्थमभिमृश्याचामेत् । ततः अद्येत्यादि० सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं मृत्तिकास्नानं करिष्ये ’ इति संकल्प्य - ‘ उद्धृतासि वराहेण कृष्णेन शतबाहुना । मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम् ॥ ’ इति मृदमादाय ‘ सूर्याय नमः ’ इति सूर्याय दर्शयित्वा ‘ अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे । शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥ मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमंत्रिता । मृत्तिके देहि मे सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥ त्वयाह तेन पापेन गच्छामि परमां गतिम् ’ ॥ इति शिरः प्रभृत्यंगानि विलिप्य स्नात्वाऽऽचम्य अद्यपूर्वो० ‘ सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं शुद्धोदकस्नानं करिष्ये पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः । त्राहि मां कृपया गंगे सर्वपापहरा भव ’ ॥ इति प्रवाहाभिमुखो मज्जेत् । आचम्य अद्येत्यादि० सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं गोमूत्रस्नानं करिष्ये ’ इति संकल्प्य ‘ गोमूत्रं सर्वपापघ्नं पवित्रं रोगहारि च । सर्वतीर्थनिभं पुण्यं सर्वकर्मसु पावनम् ॥ ’ इति गोमूत्रस्नानं कृत्वा स्नात्वाऽऽचम्य अद्येत्यादि० सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं गोमयस्नानं करिष्ये - गोशकृद्गंधवद्यच्च शुद्धिकृत् सर्वदोषह्रत् । पुष्टिकृत्तिष्टिकृन्नित्यं परमं मंगलं स्मृतम् । इति गोमयस्नानम् ॥ स्नात्वाऽऽचम्य अद्येत्यादि० ‘ सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं दुग्धस्नानं करिष्ये - कामधेनुसमुद्भूतं वत्सोच्छिष्टं शुभं शुचि । सर्वदेवप्रियं दुग्धं यस्माद्दध्याज्यसंभवः ’ ॥ इति पयः स्नानम् । स्नात्वाऽऽचम्य अद्येत्यादि० ‘ सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं दधिस्नानं करिष्ये चंद्रमंडलसंकाशं पयः फेननिभं शुचि । क्षीरतक्रसमायोगसंभूतं यद्दधि स्मृतम् । ’ इति दधिस्नानम् ॥ स्नात्वाऽऽचम्य ‘ सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं घृतस्नानं करिष्ये - आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्यं सुराणामाहारमाज्ये देवाः प्रतिष्ठिताः । ’ इत्याज्यस्नानम् ॥ स्नात्वाऽऽचम्य अद्येत्यादि० ‘ सर्वप्रायश्चित्तांगत्वेन शरीरशुद्ध्यर्थं कुशोदकस्नानं करिष्ये - विरिंचिना सहोत्पन्न परमेष्ठीनिसर्गज । नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव । ’ इति कुशोदकस्नानम् ॥ स्नात्वाऽऽचम्य ‘ अपवित्रः पवित्रो वा० ’ इति मार्जनं कृत्वा ‘ गंगे च यमुने चैव० ’ इति मंत्रेण उदकमालोड्य अघमर्षणं कुर्यात् । ‘ नमो नारायणायास्तु नमोऽस्तु परमात्मने । सर्वपापापहर्त्रे च नमोऽस्तु हरये नमः ॥ ’ इति मंत्रेणाघमर्षणं कृत्वा स्नानांगतर्पणं कुर्यात् ‘ ब्रह्मादिदेवास्तृप्यंतां ’ इति सव्येन देवतीर्थेन त्रिरंजलीन्दत्त्वा । निवीती ‘ कृष्णद्वैपायनादि ऋषयस्तृप्यंतां ’ इति ऋषितीर्थेन द्वौ द्वौ अंजलीन्दत्त्वा प्राचीनावीती ‘ सोमः पितृमदादिपितरस्तृप्यंतां ’ इति पितृतीर्थेनांजलित्रयं त्रिवारं दत्त्वा ततः - यन्मया दूषितं तोयं शारीरमलसंभवात् । तद्दोषपरिहारार्थं यक्ष्माणं तर्पयाम्यहम् ’ इत्यंजलिं दद्यात् । ततो वासः परिधाय तिलकं कृत्वाऽऽचम्य देशकालौ संकीर्त्य ‘ सर्वप्रायश्चित्तांगत्वेन श्रीविष्णुप्रीत्यर्थं आद्यविष्णुश्राद्धं करिष्ये तदंगत्वेन महाविष्णुपूजां करिष्ये ’ इति संकल्प्य ‘ शांताकारं भुजगशयनं० ’ इति ध्यात्वा ‘ महाविष्णवे नमः ’ इत्यावाहनादिषोडशोपचारैः संपूज्य अद्येत्यादि० ‘ सर्वप्रायश्चित्तपूर्वांगविष्णुश्राद्धसंपत्तये श्रीमहाविष्णूद्देशेन त्र्यधिकयुग्मब्राह्मणभोजनपर्याप्ताऽऽमनिष्क्रयीभूतं यथाशक्तिद्रव्यं चतुर्भ्यो ब्राह्मणेभ्यो दातुमहमुत्सृजे ’ इति संकल्प्य तद्ब्राह्मणेभ्यः पूजनपूर्वकं दद्यात् । तेन पापापहा महाविष्णुः प्रीयताम् । ततः अद्येत्यादि० ‘ सर्वप्रायश्चित्तपूर्वांगगोदानं करिष्ये ’ इति संकल्प्य ब्राह्मणं संपूज्य ‘ गवामंगेषु तिष्ठंति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च ॥ ’ इतिमंत्रेण प्रत्यक्षं चेत् गोपूजनं कृत्वा ‘ इदं सर्वप्रायश्चित्तपूर्वांगगोदानं सदक्षिणं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे प्रतिगृह्यतां ’ ‘ प्रतिगृह्णामि ’ इति विप्रप्रतिवचनम् । द्रव्यद्वाराचेत् ‘ इदं सर्वप्रायश्चित्तपूर्वांगगोनिष्क्रयीभूतं यथाशक्ति व्यावहारिकं द्रव्यं सदक्षिणं अमुकशर्मणे० ’ इति दद्यात् तेन श्री पापापहामहाविष्णुः प्रीयतां न मम ॥ ॥ अथ होमविधिः ॥ स च होमः क्षत्रियविशोः कृताकृतः शूद्रस्य नेत्याहुः करणपक्षे आचार्यं वृणुयात् । कर्ता ‘ अमुकवर्मा ( गुप्तो दासो ) ऽहं अमुकशाखिनं ब्राह्मणं प्रायश्चित्तहोमाख्ये कर्मणि आचार्यं त्वां वृणे ’ इति विप्रं वृत्वा पूजयेत् । तत आचार्यः अद्येत्यादि स्मृत्वा ‘ अस्मिन्प्रायश्चित्ताख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये ’ इति संकल्प्य स्थंडिलकरणं कृत्वा विटनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । अद्येत्यादि० समिदद्वयमादाय ‘ क्रियमाणे प्रायश्चित्तपूर्वोत्तरांगहोमे ’ इत्यादि ‘ चक्षुषी आज्येन ’ इत्यन्तमुक्त्वा अत्र प्रधानं - अग्निं वायुं सूर्यं प्रजापतिं च प्रत्येकं नाममंत्रैः सप्तविंशतिसंख्याभिराज्याहुतिभिः सप्ताहुतिभिर्वा, पृथिवीं विष्णुं रुद्रं ब्रह्माणं अग्निं सोमं सवितारं प्रजापतिं प्रजापतिं अग्निं स्विष्टकृतं च प्रत्येकं सपंचगव्येन एकैकया हुत्या यक्ष्ये । पुनरत्र प्रधानं - प्रायश्चित्तोत्तरांगहोमे अग्निं, वायुं सूर्यं प्रजापतिं च प्रत्येकं सप्तविंशतिसंख्याभिराज्याहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादि० । पात्रासादने पंचगव्यपात्रं प्रोक्षणी स्रुवादिषट्पात्रासादनादि आज्याधिश्रपणांतं कृत्वा ततः ताम्रपात्रे पलाशपर्णपुटे वा पंचगव्यं कुर्यात् । तद्यथा - गोमूत्रं सर्वपापघ्नं पवित्रं रोगहारि यत् । सर्वतीर्थमयं पुण्यं सर्वकर्मसु पावनम् । इति मंत्रेण गोमूत्रमादाय ॥ गोशकृत् गंधवद्यच्च शुद्धिकृत्सर्वदोषह्रत् । पुष्टिकृत्तुष्टिकृन्नित्यं परमं मंगलं स्मृतम् । इति गोमयं० ॥ कामधेनुसमुद्भूतं वत्सोच्छिष्टं शुभं शुचि । सर्वदेवप्रियं दुग्धं यस्माद्दध्याज्यसंभवः । इति क्षीरं० ॥ चंद्रमंडलसंकाशं पयः फेननिभं शुचि । क्षीरतक्रसमायोगसंभूतं यद्दधिस्मृतम् । इति दधि० । आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्य्म सुराणामाहारमाज्ये देवाह प्रतिष्ठिताः । इति आज्यं० ॥ विरिंचिना सहोत्पन्न परमेष्ठीनिसर्गज । नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव । इति कुशोदकं प्रक्षिप्य यज्ञियकाष्ठेन निर्मंथ्य ‘ पंचगव्याय नमः ’ इति अभिमंत्रयेत् । ततो ‘ ज्वलतादर्भोल्मुकेन ’ इत्यादि आज्यभागांतं कृत्वा प्रधानाहुतीर्जुहुयात् । यजमानस्त्यागं च कुर्यात् । ‘ अग्नये नमः ’ इति हुत्वा ‘ अग्नय इदं० ’ । ( एवमग्रेऽपि ) वायवे नमः वयव इदं० । सूर्याय न० सूर्यायेदं० । प्रजापतये नमः प्रजापतय इदं० । एवं सप्तविंशत्यावृत्तिभिराज्यं हुत्वा पंचगव्यहोमः कार्यः । तत्र साग्रैः सप्तपत्रकुशैः पंचगव्यं गृहीत्वा ‘ सर्वेषामाश्रया पृथ्वी वराहेण समुद्धृता । अनंतफलदात्री या तां नमामि वसुंधराम् ॥ पृथिव्यै नमः पृथिव्या इदं न मम ॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपदैत्यांतं नमामि पुरुषोत्तमम् । विष्णवे नमः विष्णव इदं० ॥ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् । रुद्राय नमः रुद्रायेदं० ॥ रक्तवर्णश्चतुर्बाहुर्हंसारुढश्चतुर्मुखः । पद्माक्षसूत्रवरदाभयपाणिर्नमामि तम् । ब्रह्मणे नमः ब्रह्मण इदं० ॥ अग्नये नमः अग्नय इदं० । सोमाय नमः सोमायेदं० । नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ सूर्याय नमः सूर्यायेदं० ॥ स्रुवाक्षमालाकरकपुस्तकाढ्यं चतुर्भुजम् । प्रजापतिं हंसयानमेकवक्त्रं नमाम्यहम् । प्रजापतये नमः ॥ प्रजापतय इदं० । पुनः प्रजापतये नमः प्रजापतय इदं० । अग्नये स्विष्टकृते नमः अग्नये स्विष्टकृत इदं० । इति दश पंचगव्याहुतीर्हुत्वा केवलाज्यस्य स्विष्टकृतं - समधिकमपि हीनं जातमस्मिन्क्रतौ यद्भवतु सुकृतमग्ने तद्धि सर्वं सुपूर्णम् । प्रचुरदयितदात्रे स्विष्टकृत्ते जुहोमीदमथ सकलकामान्वर्धय त्वं सदा मे ॥ स्विष्टकृतेऽग्नये नमः इति हुत्वा स्विष्टकृतेग्नय इदं० ॥ ततो रज्जुप्रहरणं कृत्वा प्रायश्चित्ताहुतीर्हुत्वा होमशेषं समाप्य यजमानः ‘ व्रतग्रहणं करिष्ये ’ इति द्विजान्स्पृष्ट्वा तैः ‘ कुरुष्व ’ इत्यनुज्ञातः - ‘ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनात्पंचगव्यस्य दहत्वग्निरिवेंधनम् । नमः ’ इति सर्वं पिबेत् । एतच्च ग्रामाद्बहिर्नद्यादेस्तीरे कार्यं मुमूर्षोस्तु गृहादावेव । अस्मिन्दिने उपवासः अशक्तौ हविष्याशनम् अयं पंचगव्यहोमो ब्रह्मकूर्चाख्यपंचगव्यपाने सर्वत्रोह्यः । ततः अद्येत्यादि० ‘ इदं सार्धाब्दप्रायश्चित्ते पंचचत्वारिंशत्कृच्छ्रप्रत्याम्नायगोनिष्क्रयीभूतं प्रतिकृच्छ्रं निष्कतदर्धतदर्धान्यतमप्रमाणं रजतद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो विभज्य दातुमहमुत्सृजे तेन श्री पापापहा महाविष्णुः प्रीयतां ’ इति संकल्पं कृत्वा तदैव द्रव्यं विभज्य दत्त्वा उत्तरांगहोमं कुर्यात् पूर्ववत् । अग्निं वायुं सूर्यं प्रजापतिं च आज्येन प्रत्येकं सप्तविशतिसंख्याहुतीर्हुत्वा प्रायश्चितादिहोमशेषं समाप्य ‘ आचीर्णप्रायश्चित्तोत्तरांगविष्णुश्राद्धं करिष्ये ’ इति संकल्प्य पंचोपचारौर्विष्णुं संपूज्य अद्येत्यादि० ‘ सर्वप्रायश्चित्तोत्तरांगविष्णुश्राद्धसंपत्तये श्रीमहाविष्णूद्देशेन चतुर्ब्राह्मणभोजनपर्याप्तामनिष्क्रयीभूतं यथाशक्तिद्रव्यं चतुर्भ्यो बाह्मणेभ्यो दातुमहमुत्सृजे ’ इति संकल्प्य ततद्रव्यं ब्राह्मणेभ्यः पूजनपूर्वकं विभज्य दद्यात् । ‘ तेन श्री पापापहा महाविष्णुः प्रीयताम् ’ । ततः अद्येत्याद्युक्त्वा ‘ सर्वप्रायश्चित्तोतरांगगोदानं करिष्ये ’ इति संकल्प्य ब्राह्मणं संपूज्य ‘ गवामंगेषु तिष्ठंति ’ इति मंत्रं पठित्वा ‘ इदं सर्वप्रायश्चित्तोत्तरांगगोदानं यथाशक्तितन्निष्क्रयीभूतद्रव्यं वा सदक्षिणं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे प्रतिगृह्यतां ’ ‘ प्रतिगृह्णामि ’ इति विप्रः । ततः शक्तेन प्रायश्चित्तांगभूतानि गवादि दशदानानि वक्ष्यमाणविधिना कार्याणि अशक्तेन गोहिरण्यदाने कार्ये ॥ गोवधाद्येकैकपापे प्रायश्चित्तसंकल्पकृच्छ्रसंख्यादि प्रयोगकल्पनाभिन्ना स्यात् सा चान्यत्र ज्ञेया ॥ 

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP