चरमांशुः - दशदानानि

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


गोभूतिलहिरण्याज्यं वासो धान्यं गुडं तथा । रौप्यं लवणमित्याहुर्दशदानानि पंडिताः ॥ अद्येत्यादि० देशकालौ स्मृत्वा ‘ मम सकलपापक्षयपूर्वकगवादिदशदानकल्पोक्तफलावाप्त्यर्थं गवादि दशदानानि करिष्ये । तत्रादौ गोपूजां ब्राह्मणपूजां च करिष्ये ’ इति संकल्पयेत् । १ अथ गोदानम् प्रत्यक्षगोदाने गां संपूज्य ब्राह्मणपूजां च कृत्वा - यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा ॥ गवामंगेषु तिष्ठंति० विप्राय वेदविदुषे० मम समस्तपापक्षयार्थं इमां गां रुद्रदैवत्यां यथाशक्तिसोपस्करां दक्षिणायुतां अमुकशर्मणे ब्राह्मणाय सुपूजिताय तुभ्यमहं संप्रददे न मम । तेन श्रीमहाविष्णुः प्रीयतां । अथवा - यथाशक्तिगोनिष्कयीभूतं द्रव्यं दक्षिणायुतं मम समस्तपापक्षयार्थं अमुकशर्मणे० इति द्रव्यं दद्यात् । इति गोदानं ॥२ अथ भूमिदानम् - अद्येत्यादि० मम सकल० भूमिदानं करिष्ये । ब्राह्मणं संपूज्य - सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यफलदा अतः शांतिं प्र० । विप्राय वेद० इदं अमुकप्रतिनिधित्वेन भूदानं मम सर्वपापक्षयपूर्वकस्वर्गादिलोकवासफलप्राप्त्यर्थं श्रीविष्णुप्रीत्यर्थं अमुकशर्मणे इत्याद्युच्चार्य दद्यात् ॥३ अथ तिलदानम् ॥ अद्येत्यादि० मम सकलपाप० तिलदानमहं करिष्ये । ब्राह्मणं संपूज्य - महर्षेर्गोत्रसंभूताः कश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन मम पापं व्यपोहतु । विप्राय वेद० इदं तिलदानं मम सर्वपापक्षयार्थं विष्णुदैवत्यं दक्षिणायुतं अमुकशर्मणे इत्यादि पठित्वा दद्यात् ॥४ अथ हिरण्यदानम् ॥ अद्येत्याद्युच्चार्य मम सकल० हिरण्यगर्भगर्भस्थमिति विप्राय वेदविदुषे इति च पठित्वा इदं हिरण्यदानं अग्निदैवत्यं मम सर्वपापक्षयार्थं अमुकशर्मणेति दद्यात् ॥५ अथाज्यदानम् ॥ अद्येत्याद्युक्त्वा मम सकल० आज्यदानं करिष्ये ब्राह्मणं संपूज्य - कामधेनोः समद्भूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यमाहार अतः शांतिं० । विप्राय वेदविदुषे० इदं आज्यदानं विष्णुदैवत्यं मम सर्वपापक्षयार्थं अमुकेत्यादि दद्यात् ॥६ अथ वस्त्रदानम् ॥ अद्येत्यादि० ब्राह्मणं संपूज्य - शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शांतिं० । विप्राय वेदवि० इदं वस्त्रदानं बार्हस्पत्यदैवत्यं मम सर्वपापक्षयार्थममुकेत्यादि दद्यात् ॥७ अथ धान्यदानम् ॥ अद्येत्यादि० धान्यदानं करिष्ये । ब्राह्मणं संपूज्य - सर्वदेवमयं धान्यं सर्वोत्पत्तिकरं महत् । प्राणिनां जीवनोपायमतः शां० । विप्राय वे० इदं धान्यदानं प्रजापतिदैवत्यं मम सर्वपापक्षयार्थममुकेत्यादि पूर्ववद्दद्यात् ॥८ अथ गुडदानम् ॥ अद्येत्यादि० मम सकल० गुडदानं करिष्ये । ब्राह्मणं संपूज्य - गुडमिक्षुरसोद्भूतं मंत्राणां प्रणवो यथा । दानेनानेन मे तस्य परा लक्ष्मीः स्थिता गृहे । विप्राय वेदविदुषे० इदं गुडदानं मम सर्वपापक्षयार्थं रसवर्यं सोमदैवत्यं सदक्षिणं अमुकेत्यादिदद्यात् ॥९ अथ रजतदानम् ॥ अद्येत्यादि० रजतदानं करिष्ये ब्राह्मणं संपूज्य - प्रीतिर्यतः पितृणां च विष्णुशंकरयोः सदा । शिवनेत्रोद्भवं रुप्यमतः शां० । विप्राय० इदं रजतदानं मम सर्वपापक्षयार्थं शिवविष्णुप्रीतिकामोऽहं अमुकशर्मणे० इति दद्यात् ॥१० अथ लवणदानम् ॥ अद्येत्यादि० मम सकलपापक्षयार्थं० लवणदानं क० ब्राह्मणं संपूज्य - यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणंविना । शंभोः प्रीतिकरं यस्मादतः शांतिं० । विप्राय वे० इदं लवणदानं मम सर्वपापक्षयार्थं० शिवप्रीतिकामोहं सर्वरसोत्कृष्टं सोमदैवत्यं सदक्षिणं अमुकश० इति दद्यात् ॥ इति दश दानानि ॥ एतानि दशदानानि सभ्येभ्यो देयानि तदसंभवेऽन्येभ्योपि । ततः - मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्कृतं तु मया देव परिपूर्णं तदस्तु मे ॥ यस्यस्मृत्येति विष्णुं स्मृत्वा अनेन प्रायश्चित्ताख्येन कर्मणा श्रीपापापहा महाविष्णुः प्रीयतां तत्सद्ब्रह्मार्पणमस्तु । यन्मया कृतममुकप्रायश्चित्तं तदच्छिद्रमस्तु इति कर्त्रोक्ते सर्वमच्छिद्रमस्त्विति ब्राह्मणा ब्रूयूः ॥ इमानि दशदानानि मरणांते एकादशे द्वादशे वा दिने केचित्कुर्वन्ति ॥ ॥ इति कृत्यदिवाकरे चरमांशौ दशदानविधिसहितः सर्वप्रायश्चित्तप्रयोगः सम्पूर्णः ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP