संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|चरमांशुः| ऋणधेनुदानम् चरमांशुः सर्वप्रायश्चित्तप्रयोगः दशदानानि विप्रपादोकदकग्रहणसंकल्पः गोदानप्रयोगः ऋणधेनुदानम् उत्क्रांतिधेनुदानम् मोक्षधेनुदानम् पापधेनुदानम् वैतरणीधेनुदानम् तिलपात्रदानम् चरमांशुः - ऋणधेनुदानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत ऋणधेनुदानम् Translation - भाषांतर देशकालौ संकीर्त्य मम ( अमुकस्य वा ) ऐहिकामुष्मिकसप्तजन्मार्जितऋणपरिहारद्वारा उत्तमलोकप्राप्त्यर्थं ऋणधेनुसंज्ञकगोदानमहं करिष्ये तदंगतया ब्राह्मणपूजनं गोपूजनं च करिष्ये इति संकल्प्य ब्राह्मणं गां च संपूज्य गवामंगेषु तिष्ठंतीति मंत्रं पठित्वा विप्राय वेदविदुषे० ऐहिकामुष्मिकं यच्च सप्तजन्मार्जितं ऋणम् । तत्सर्वं शुद्धिमायातु गामेकां ददतो मम ॥ मृतपित्राद्युद्देशेन चेत्तर्हि ‘ ददतो मम ’ इत्यत्र‘ ददतोऽस्य तु ’ इति वदेत् । एवं सर्वत्र इमां गां रुद्रदैवत्यां यथाशक्त्यलंकृतां गोविष्क्रयद्रव्यभूतां वा मम सकलऋणपरिहारार्थं श्रीऋणहर्ता महाविष्णुप्रीत्यर्थं अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न मम प्रतिगृह्यतां विप्रः - प्रतिगृह्णामि इति वदेत् । दानसांगतार्थं यथाशक्तिदक्षिणां दद्यात् । अत्र मृतोद्देशेन यद्यद्गोदानं क्रियते तत्र तत्र संकल्पादौ मम पदस्थाने अमुकस्य अस्येति वदेत् ॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP