संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ६ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ६ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ६ Translation - भाषांतर गरुड उवाच ।अपि साधनयुक्तस्य तीर्थदानरतस्य च ।अकृते तु वृषोत्सर्गे परलोकगतिर्न हि ॥१॥तस्मात्कृष्ण वृषोत्सर्गः कर्तव्य इति मे श्रुतम् ।किं फलं वृषयज्ञस्य पुरा केन कृतो हरे ॥२॥अनड्वान् कीदृशः प्रोक्तः कस्मिन् काले विशेषतः ।को विधिस्तस्य निर्दिष्टः सर्वं मे कृपया वद ॥३॥श्रीकृष्ण उवाच ।इतिहासं महापुण्यं प्रवक्ष्यामि खगेश्वर ।ब्रह्मपुत्रेण यत्प्रोक्तं राजानं वीरवाहनम् ॥४॥विराधनगरे राजा वीरवाहननामकः ।धर्मात्मा सत्यसन्धश्च वदान्यो विप्रतुष्टिकृत् ॥५॥स कदाचिद्वनं वीरो महात्माखेटकं गतः ।किञ्चित्प्रष्टुमनास्तार्क्ष्य वसिष्ठस्याश्रमं ययौ ॥६॥नमस्कृत्य मुनिं तत्र कृतासनपरिग्रहः ।पश्रयावनतो राजा पप्रच्छ ऋषिसंसदि ॥७॥राजोवाच ।मुने मया कृतो धर्मो यथाशक्ति प्रयत्नतः ।यमस्य शासनं श्रुत्वा बिभेमि नितरां हृदि ॥८॥यमञ्च यमदूतांश्च निरयान् घोरदर्शनान् ।न पश्यामि महाभाग तथा वद दयानिधे ॥९॥वसिष्ठ उवाच ।धर्मा बहुविधा राजन् वर्ण्यन्ते शास्त्रकोविदैः ।सूक्ष्मत्वान्न विजानन्ति कर्ममार्गविमोहिताः ॥१०॥दानं तीर्थं तपो यज्ञाः संन्यासः पैतृको महः ।धर्मेषु गृह्यमाणेषु वृषोत्सर्गो विशेषितः ॥११॥एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥१२॥ब्रह्महत्यादिपापानि ज्ञानाज्ञानकृतानि च ।नीलोद्वाहेन शुध्येत्तु समुद्रप्लवनेन वा ॥१३॥एकादशाहे राजेन्द्र यस्य नोत्सूज्यते वृषः ।प्रेतत्वं निश्चलं तस्य कृतैः श्राद्धैस्तु किं भवेत् ॥१४॥यथाकथञ्चित्कर्तव्यस्तीर्थे वा पत्तनेऽथ वा ।वृषयज्ञैः प्रमुच्यते नान्यथा साधनैः खग ॥१५॥वृषभं पञ्चकल्याणं युवानं कृष्णकंबलम् ।गोयूथमध्ये नितरां विचरन्तं विधानतः ॥१६॥चतसृभिर्वत्सकाभिर्द्वाभ्याञ्चैवैकया खग ।विवाह्य मङ्गलद्रव्यैर्मन्त्रवत्तं समुत्सृजेत् ॥१७॥इह रतीति षडृग्भिर्हेमं कुर्याद्विभावसोः ।कार्तिक्यां माघवैशाख्यां संक्रमे पातपर्वसु ॥१८॥तीर्थे पित्र्येक्षयाहे च विशेषेण प्रशस्यते ।लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥१९॥पीतः खुरविषाणेषु स नीलो वृष उच्यते ।श्वेतवर्णो भवेद्विप्रो लोहितः क्षत्त्र उच्यते ॥२०॥पीतवर्णो भवेद्वैश्यः शूद्रः कृष्णः स्मृतो बुधैः ।यथावर्णं समुद्दिष्टो वर्णेषु ब्राह्मणादिषु ॥२१॥अथ वा रक्तवर्णस्तु सर्वेषामेव शस्यते ।पिता पितामहश्चैव तथैव प्रपितामहः ॥२२॥आशासते सुतं जातं वृषोत्सर्गं करिष्यति ।धर्मस्त्वं वृषरूपेण जगदानन्ददायकः ॥२३॥अष्टमूर्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ।गङ्गायमुनयोः पेयमन्तर्वेदि तृणं चर ॥२४॥धर्मराजस्य पुरतो वाच्यं मे सुकृतं वृष ।दक्षिणांसे त्रिशूलाङ्कं वामोरौ चक्रचिह्नितम् ॥२५॥इति संप्रार्थ्य वृषभं गन्धपुष्पाक्षतादिभिः ।वृषं तत्सतरीयुक्तं पूजयित्वा समुत्सृजेत् ॥२६॥तस्माद्राजन् विधानेन वृषोत्सर्गं समाचर ।बहुसाधनयुक्तस्य नान्यथा सद्गतिस्तव ॥२७॥आसीत्त्रेतायुगे पूर्वं विदेहनगरे नृप ।ब्राह्मणो धर्मवत्सेति स्वकर्मनिरतः सुधीः ॥२८॥विष्णुभक्तोऽतितेजस्वी यथालाभेन तुष्टिकृत् ।पितृपर्वणि संप्राप्ते कुशार्यो काननं ययौ ॥२९॥अटन्नितस्ततस्तत्र चिन्वन् कुशपलाशकम् ।सहसोपेत्य पुरुषाश्चात्वारश्चारुदर्शनाः ॥३०॥विभ्रान्तमनसं गृह्य प्रत्यग्जग्मुर्विहायसा ।बहुवृक्षसमाकीर्णं गिरिदुर्गभयानकम् ॥३१॥वनाद्वनान्तरं निन्युर्नदीनदसमाकुलम् ।स तत्र नगरं राजन् ददर्श बहुविस्तरम् ॥३२॥गोपुरद्वाररचितं सौधप्रासादमण्डितम् ।चत्वरापणपण्यादिनरनारीसमाकुलम् ॥३३॥तूर्यद्वन्द्वाभिनिर्घोषवीणापटहनादितम् ।कांश्चित्क्षुधार्दितान्दीनान्मलिनान्विगतौजसः ॥३४॥ततोऽतितुष्टान्मलिनान्वस्त्रखण्डसमावृतान् ।अग्रतो हृष्टपुष्टांश्च स्वर्णवस्त्रोपशोभितान् ॥३५॥ततोऽपि सुरसंकाशान्स दृष्ट्वा विस्मितोऽभवत् ।किं स्वप्न उत माया वै मदीयो मानसो भ्रमः ॥३६॥सन्दिहानं द्विजं निन्युः पुरुषा राजसन्निधिम् ।सतद्ददर्श विप्रस्तु स्वर्णप्रासादमन्दिरे ॥३७॥सिंहासनंमहादिव्यं छत्रचामरवीजितम् ।तत्रोप विष्टं राजानं किरीटकनकोज्ज्वलम् ॥३८॥महत्या च श्रिया युक्तं स्तूयमानं सुवन्दिभिः ।राजापि दृष्ट्वा तं विप्रं प्रत्युत्थाय कृताञ्जलिः ॥३९॥पूजयामास विधिवन्मधुपर्कास नादिभिः ।सन्तुष्टमनसं देवमस्तौषीत्परया मुदा ॥४०॥अद्य मे सफलं जन्म पावितञ्च कुलं प्रभो ।विष्णुभक्तस्य धर्मस्य यत्ते दृग्गोचरं गतः ॥४१॥नत्वा स्तुत्वा बहुविधमुवाचानुवसन्नृपः ।यतः समागतो देवः पुनस्तत्रैव नीयताम् ॥४२॥इति श्रुत्वा वचो राज्ञः पप्रच्छ द्विजपुङ्गवः ।ब्राह्मण उवाच ।कोऽयं देश कुतो लोका उत्तमा मध्यमाधमाः ॥४३॥केन पुण्येन तु भवान्पारमेष्ट्यविभूषितः ।किमर्थमहमानीतः पुनस्तत्रैव नीयते ॥४४॥अपूर्वमिव पश्यामि सर्वं स्वप्नगतो यथा ।राजोवाच ।स्वधर्मनिरतो यस्तु हरिभक्तिरतः सदा ॥४५॥विरक्त इन्द्रियार्थेभ्यः स मे पूज्यो न संशयः ।तीर्थयात्रापरो नित्यं वृषोत्सर्गविशेषवित् ॥४६॥सत्यदानपरो यस्तु स नमस्यो दिवौकसाम् ।दर्शनार्थमिहानीतः पूजार्हश्च परन्तप ॥४७॥अनुगृहाण मां देव क्षमस्व मम साहसम् ।इत्युक्त्वा दर्शयामास मन्त्रिणां संज्ञया भ्रुवः ॥४८॥वदिष्यति समग्रं ते स्वयं वक्तुं न साम्प्रतम् ।सामन्तः सर्ववेदज्ञो ज्ञात्वा हार्दं नृपस्य च ॥४९॥विपश्चिदुवाच ।पूर्वजन्मनि वैश्योऽयं विश्वम्भर इति श्रुतः ।विराधनगरे विप्र द्विजदेवविभूषिते ॥५०॥वैश्यवृत्त्या सदा जीवन्कुटुम्बपरिपालकः ।गवां शुश्रूषको नित्यं ब्राह्मणानाञ्च पूजकः ॥५१॥पात्रदानपरो नित्यमातिथेयाग्निसेवकः ।गार्हस्थ्यं विधिवच्चक्रे भार्यया सत्यमेधया ॥५२॥स्मार्तेन लोकानजयच्छ्रौतेन त हविर्भुजः ।कदाचिद्बन्धुभिः साकं कृत्वा तीर्थानि भूरिशः ॥५३॥यावदायाति सदनं दृष्टवाल्लोंमशं पथि ।दण्डवत्प्रणिपत्याशु कृताञ्जलिपुटं स्थितम् ॥५४॥पप्रच्छ विनयोपेतं करुणावारिवारिधिः ।ऋषिरुवाच ।कुत आगम्यते साधो ब्राह्मणैर्बन्धुभिर्युतः ॥५५॥दृष्ट्वा त्वां धर्मनिलयं प्रक्लिन्नं मानसं मम ।विश्वम्भर उवाच ।शीर्यमाणं शरीरं हि ज्ञात्वा मृत्युं पुरः स्थितम् ॥५६॥भर्यया धर्मचारिण्या तीर्थयात्रां विनिर्गतः ।कृत्वा तीर्थानि विधिवद्विश्राण्य विपुलं वसु ॥५७॥यावद्ब्रजाम्यहं वेश्म भवान् दृष्टिपथं गतः ।लोमश उवाच ।तीर्थानि सन्ति भूरीणि वर्षैऽस्मिन् भारते शुभे ॥५८॥यत्त्वया ह्युपचीर्णानि तानि सर्वाणि मे वद ।वैश्य उवाच ।गङ्गा च सूर्य तनया महापुण्या सरस्वती ॥५९॥दशाश्वमेधैरयजद्यत्र ब्रह्मा सुरेश्वरः ।तीर्थराजस्ततः काशी महादेवो दयानिधिः ॥६०॥मृतानां यत्र जन्तूनां कर्णे जपति तारकम् ।पुलहस्याश्रमं पुण्यं फल्गुतीर्थञ्च गण्डकी ॥६१॥चक्रतीर्थं नैमिषञ्च शिवतीर्थमनन्तकम् ।गोप्रतारकनागेशमयोध्याबिन्दुसंज्ञितम् ॥६२॥यत्रास्त मुक्तिदः साक्षाद्रामो राजीवलोचनः ।आग्नेयं वायुकौबेरं कौमारं भूरुहां पुनः ॥६३॥सौकरं मथुरा यत्र नित्यं सन्निहतो हरिः ।पुष्करं सत्यतीर्थञ्च ज्वालतीर्थं दिनेश्वरम् ॥६४॥इन्द्रतीर्थं कुरुक्षेत्रं यत्र प्राची सरस्वती ।तापी पयोष्णी निर्विन्ध्या मलयः कृष्णवेणिका ॥६५॥गोदावरी दण्डकञ्च ताम्रचूडं सदोदकम् ।द्यावाभूमीश्वरं दृष्ट्वा श्रीशैलः पर्वतेश्वरः ॥६६॥असंख्यलिङ्गतीर्थानि यत्र सन्ति सदा मुने ।वेङ्कटाद्रौ महातेजाः श्रीरङ्गाख्यः स्वयं हरिः ॥६७॥वेङ्कटी नाम तत्रैव देवी महिषमर्दिनी ।चन्द्रतीर्थं भद्रवटः कावेरीकुटिलाचलौ ॥६८॥अवटोदा ताम्रपर्णो त्रिकृटः कोल्लको गिरिः ।वासिष्ठं ब्रह्मतीर्थञ्च ज्ञानतीर्थं महोदधिः ॥६९॥हृषीकेशं विराजञ्च विशालं नीलपर्वतः ।भीमकूटः श्वेतगिरी रुद्रतीर्थमुमावनम् ॥७०॥अवाप गिरिजा देवी तपसा यत्र शङ्करम् ।वारुणं सूर्यतीर्थञ्च हंसतीर्थं महोदयम् ॥७१॥निमज्ज्य यत्र काकोला राजहंसत्वमाययुः ।असुरो यत्र देवत्वमवाप स्नानमात्रतः ॥७२॥विश्वरूपं वन्दितीर्थं रत्नेशः कुहकाचलः ।नरनारायणं दृष्ट्वा मुच्यते पापकोटिभिः ॥७३॥सरस्वतीदृषद्वत्यौ नर्मदा शर्मदा नृणाम् ।नीलकण्ठं महाकालं पुण्यं चामरकण्टकम् ॥७४॥चन्द्रभागा वेत्रवती वीरभद्रं गणेश्वरम् ।गोकर्णं बिल्वतीर्थञ्च कर्मकुण्डं सतारकम् ॥७५॥स्नानमात्रेण यत्राशु मुच्यते कर्मबन्धनात् ।अन्यान्यपि च तीर्थानि कृतानि कृपया तव ॥७६॥उत्पद्यते शुभा बुद्धिः साधूनां यदनुग्रहः ।एकतः सर्वतीर्थानि करुणाः साधवोऽन्यतः ॥७७॥अनुग्रहाय भूतानां चरन्ति चरितव्रताः ।त्वं गुरुः सर्वर्णानां विद्यया वयसाधिकः ॥७८॥अतः पृच्छाम्यहं किञ्चिदाधिभूतं चिरन्तनम् ।किं कुर्यां कं नु पृच्छेऽहं मनो मेऽतिचलं मुने ॥७९॥निः स्पृहं ब्रह्मविषये विषयेष्वतिलालसम् ।मनागपि न सहते विरहं तिमिरं ब्रुवत् ॥८०॥मोहितं विविधैर्भावैः कर्मणां क्षेत्रमुत्तमम् ।शान्तिं यथा समायाति सम्पन्नमिव भूसुर ॥८१॥विवेकप्रवणं शुद्धं यथा स्यात्कृपया वद ।ऋषिरुवाच ।मनस्तु प्रबलं नित्यं सविकारं स्वभावतः ॥८२॥वशं नयन्ति करिणं प्रमत्तमपि हस्तिपाः ।तथापि साधुसङ्गत्या साधनैरप्यतन्द्रितः ॥८३॥तीव्रेण भक्तियोगेन विचारेण वशं नयेत् ।इतिहासं प्रवक्ष्यामि तव प्रत्ययकारकम् ॥८४॥नारदोऽकथयन्मह्यं स्ववृत्तगतजन्मनः ।नारद उवाच ।कस्यचिद्द्विजमुख्यस्य दासीपुत्त्रः पुरा मुने ॥८५॥शिक्षितो बालभावेऽपि पाठितो नितरामहम् ।तत्रापि सङ्गतिर्जाता महतां पुण्यकर्मणाम् ॥८६॥प्रावृट्काले मम गृहे स्थितानां भाग्ययोगतः ।शुश्रूषणानुवृत्त्या च प्रश्रयेण दमेन च ॥८७॥सन्तोषं परमं प्राप्य कृपया त्विदमब्रुवन् ।मनीषा निर्मला येन जाता मम शुभार्थिनी ॥८८॥यया विष्णुमयं सर्वम्त्मन्येव ददृशिवान् ।मुनय ऊचुः ।शृणु वत्स प्रवक्ष्या मो हिताय तव बालक ॥८९॥येन वै ध्रियमाणेन इहामुत्र सुखं भवेत् ।देवतिर्यङ्मनुष्याश्च संसारे विविधा जनाः ॥९०॥निबद्धाः कर्मपशैस्ते भुञ्जन् भोगान् पृथग्विधान् ।देवत्वं याति सत्त्वेन रजसा च मनुष्यताम् ॥९१॥तिर्यक्त्वं तमसा जन्तुर्वासनानुगतोऽबुधः ।मातुर्लब्ध्वा पुनर्जन्म म्रियते च पुनः पुनः ॥९२॥एवं गत्वा ह्यसंख्याता योनीस्ताः कर्मभूरपि ।मानुष्यं दुर्लभं लब्ध्वा कदाचिद्दैवयोगतः ॥९३॥अनुग्रहेण महतां हरिं ज्ञात्वा विमुच्यते ।रोगग्राहं मोहजालमपारं भवसागरम् ॥९४॥न पश्यामि तितीर्षोरन्यद्रामस्मरणं विना ।नवनीयं यथा दध्नो ज्योतिः काष्ठादपि क्वचित् ॥९५॥मन्थनैः साधनैरेवं परं ज्ञात्वा सुखी भवेत् ।आत्मा नित्योऽव्ययः सत्यः सर्वगः सर्वभृन्महान् ॥९६॥अप्रमेयः स्वयञ्ज्योतिरग्राह्यो मनसापि यः ।सच्चिदानन्दरूपोऽसौ सर्वप्राणिहृदि स्थितः ॥९७॥विनश्यत्स्वपि भावेषु न विनश्यति कर्हिचित् ।आकाशः सर्वभूतेषु स्थितस्तेजोजले तथा ॥९८॥आत्मा सर्वत्र निर्लेपः पार्थिवेषु यथानिलः ।भक्तानुकम्पी भगवान् साधूनां रक्षणाय च ॥९९॥आविर्भवति लोकेषुगुणीवाज्ञैः प्रतीयते ।एवंविवेकत्वया यो बुद्ध्या संशीलयेद्धृदि ॥१००॥भक्तियोगेन सन्तुष्ट आत्मानं दर्शयेदजः ।ततः कृतार्थो भवति सदा सर्वत्र निः स्पृहः ॥१०१॥अतोऽहङ्कारमुत्सृज्य सानुबन्धे कलेवरे ।चरेदसंगो लोकेषु स्वप्नप्रायेषु निर्ममः ॥१०२॥क्व स्वप्ने नियतं धैर्यमिन्द्रजाले क्व सत्यता ।क्व नित्यता शरन्मेघे क्व वा सत्यं कलेवरे ॥१०३॥अविद्याकर्मजनितं दृश्यमानं चरा चरम् ।ज्ञात्वाचारवशी योगी ततः सिद्धिमवाप्स्यसि ॥१०४॥इत्युक्त्वा ते गताः सर्वे साधवो दीनवत्सलाः ।सोऽहं तदुक्तमार्गेण तथैवाचरमन्वहम् ॥१०५॥ततोऽचिरेणात्मनीदं दृष्टवानहमद्भुतम् ।ज्योतिर्मयं सदानन्दं शरच्छीतांशुनिर्मलम् ॥१०६॥निषिच्य सुखसन्दोहैर्मां कृत्वाधिकसस्पृहम् ।अन्तर्हितं महतेजो यथा सौदामिनी दिवि ॥१०७॥भक्त्या तदेव मनसि भावयन्नहमद्भुतम् ।काले कलेवरं त्यक्त्वा गतवान् हरिमव्ययम् ॥१०८॥तस्येच्छया पुनर्ब्रह्मन् ब्रह्मणो मेऽभवज्जनिः ।अनुग्रहाद्भगवतस्त्रिषु लोकेषु निः स्पृहः ॥१०९॥आपीडयन्मुहुर्वोणां गायमानश्चराम्यहम् ।इत्युक्त्वा मे स्वानुभवं ययौ यादृच्छिको मुनिः ॥११०॥ममापि परमाश्चर्यं सन्तोषश्च महानभूत् ।अतस्ते साधुसङ्गत्या भक्त्या च परमात्मनः ॥१११॥विशुद्धं निर्मलं शान्तं मनो निर्वृतिमेष्यति ।अनेकजन्मजनितं पातकं साधुसंगमे ॥११२॥क्षिप्रं नश्यति धर्मज्ञ जलानां शरदो यथा ।वैश्य उवाच ।पीत्वा ते वाक्यपीयूषं स्वान्तं मे शान्तिमागमत् ॥११३॥सर्वतीर्थफलं मेऽध्य सञ्जातं तव दर्शनात् ।इति श्रुत्वा वचस्तस्य प्रोवाच ऋपिसत्तमः ॥११४॥लोमश उवाच ।हिताय तव राजेन्द्र त्रिवर्गफलमिच्छतः ।यत्त्वया सुकृतं भूरिवृषोत्सर्गं विना कृतम् ॥११५॥मन्येऽकिञ्चत्करं सर्वं नीहारसलिलं यथा ।वृषोत्सर्गसमं किञ्चित्साधनं न महीतले ॥११६॥अनायासेन गच्छन्ति गतिं ते पुण्यकर्मणाम् ।वृषोत्सर्गः कृतो येन अश्वमेधस्य याजकः ॥११७॥उभौ समौ मया दृष्टौ दिव्यौ तौ शक्रसन्निधौ ।अतस्त्वं पुष्करं गत्वा वृषोत्सर्गं विधाय च ॥११८॥ततो याहि गृहं साधो येन सर्वं कृतं भवेत् ।विपश्चिदुवाच ।ततः स पुनरागत्य कार्तिक्यां पुष्करे वरे ॥११९॥वराहरूपी भगवान् यत्रास्ते यज्ञपूरकः ।चकार विधिवत्सर्वं युद्कमृषिसत्तमैः ॥१२०॥गतानि बहुतीर्थानि ततो लोमशसंगतिः ।ततोऽधिकतरं जातं पुण्यं नीलविवाहजम् ॥१२१॥सभुक्त्वा विषयान् दिव्यान् विमानवरमाश्रितः ।तेन राजकुले जन्म वीरसेनस्य धर्मतः ॥१२२॥वीरपञ्चाननाख्यातञ्चतुर्वर्गैकसाधकम् ।प्रकुर्वतो वृषोत्सर्गं तत्र ये परिचारकाः ॥१२३॥दिव्यरूपाभवन् स्पृष्टा गोपुच्छोदकशीकरैः ।सुरूपाः पुष्टवपुषः पश्यन्तो दूरसंस्थिताः ॥१२४॥ततो दूरतरा ये च दृश्यन्ते मलिना जनाः ।दुर्भगा मलिना रूक्षाः कृशा विगतवाससः ॥१२५॥वृषयज्ञमपश्यन्तो ये चासूयां प्रकुर्वते ।सर्वं निवेदितं राज्ञश्चरितं पूर्वजन्मनः ॥१२६॥धर्म्यं विचित्रमाख्यानं श्रुतं मे यत्पराशरात् ।अतस्त्वं स्वगृहं गच्छ कृपां कृत्वा ममोपरि ॥१२७॥श्रुत्वा विपश्चिद्वाक्यं स विस्मयं परमं गतः ।गृहं जगाम विप्रोऽसौ प्रापितो राजसेवकैः ॥१२८॥वसिष्ठ उवाच ।तस्माद्राजन् वृषोत्सर्गं वरिष्ठं सर्वकर्मणाम् ।समाचर विधानेन यदि भीतो यमादपि ॥१२९॥वृषोत्सर्गसमं किञ्चित्साधनं नदिवः परम् ।मया धर्मरहस्यं ते कथितं राजसत्तम ॥१३०॥पतिपुत्रवती नारी भर्तुरग्रे मृता यदि ।वृषोत्सर्गं न कुर्वीत गां दद्याच्च पयस्विः नीम् ॥१३१॥श्रीकृष्ण उवाच ।श्रुत्वा वाक्यं वसिष्ठस्य राजा मधुपुरीं गतः ।चकार विधिवत्सर्वं वृषोत्सर्गमहं खग ॥१३२॥गृहं गत्वा स आत्मानं कृतकृत्यममन्यत ।कालेन निधनं प्राप्तो नीतो वैवस्वतानुगैः ॥१३३॥स कालनगरं हित्वा गतो दूरतरं पथि ।श्राद्धदेवपुरं कुत्रेत्येवं दूतानपृच्छत ॥१३४॥पापिनो यत्र पात्यन्ते याम्यै पापविशुद्धये ।यत्र देवः स धर्माधर्मविचेतनः ॥१३५॥गतं पापपुरं तत्तु न द्रष्टव्यं भवादृशैः ।अग्रे दृष्ट्वा धर्मराजमूचुस्ते परमादरात् ॥१३६॥दिव्यरूपस्तदा देवो देवगन्धर्वसंयुतः ।आत्मानं दर्शया मास तस्य राज्ञो महात्मनः ॥१३७॥प्रणम्य दण्डवद्राजा कृताञ्जलिः पुरः स्थितः ।तुष्टाव बहुधा देवं हर्षपुरितमानसः ॥१३८॥धर्मराजोऽपि राजानं प्रशस्येदमुवाच ह ।नीयतां देवलोकाय यत्र भोगाः सुपुष्कलाः ॥१३९॥तद्वीरवाहनः श्रुत्वा पप्रच्छसमवर्तिनम् ।न जाने केन पुण्येन स्वर्गं नयसि मां विभो ॥१४०॥धर्मराज उवाच ।त्वया कृतानि पुण्यानि दानं यज्ञाः सविस्तराः ।मथुरायां वृषोत्सर्गो वसिष्ठवचनात्किल ॥१४१॥धर्मः स्वल्पोऽपि नृपते यदि सम्यगुपासितः ।द्विजदेवप्रसादेन स याति बहुविस्तरम् ॥१४२॥इत्युक्त्वा यमुनाभ्राता क्षणादन्तर्धिमाययौ ।वीरबाहुर्दिवं गत्वा देवैः सह मुमोद ह ॥१४३॥श्रीकृष्ण उवाच ।मया ते कथितं पक्षिन् वृषयज्ञः सुविस्तरः ।प्राणिनां कर्मनिर्हारं श्रुत्वा पापैः प्रमुच्यते ॥१४४॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्विदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गमाहात्म्यनिरूपणं नाम षष्ठोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP