संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः १ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः १ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १ Translation - भाषांतर श्रीगणेशाय नमः ।तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते ।ओं नमो भगवते वासुदेवाय ।नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥म ॥धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः ।क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति ॥१॥नैमिषेऽनिमिषक्षेत्रे शौनकाद्या मुनीश्वराः ।कर्मणामन्तरे सूतं स्वासीनमिदमब्रुवन् ॥२॥सूत जानासि सकलं वस्तु व्यासप्रसादतः ।तेन नः सन्दिहानानां सन्देहं छेत्तुमर्हसि ॥३॥यथा तृणजलौकेति न्यायमा श्रित्य कञ्चन ।देहिनोऽन्यतनुप्राप्तिं केचित्त्वेवं वदन्ति हि ॥४॥केचित्पुनर्यातनानां यामीनामुपभोगतः ।पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्रसत् ॥५॥सूत उवाच ।साधु पृष्टं महाभागाः शृणुध्वं भवतां पुनः ।सन्देहो नोपपद्येत लोकार्थं किल पृच्छताम् ॥६॥तदहं कृष्णगरुडसंवादद्वारकं द्विजाः ।अपाकरिष्ये सन्देहं भवतां भावितात्मनाम् ॥७॥नमः कृष्णाय मुनये य एनं समुपाश्रिताः ।अञ्जस्तरन्ति संसारसागरं कुनदीमिव ॥८॥एकदा वैनतेयस्य लोकानां लोकनस्पृहा ।बभूव सोऽथ बभ्राम तेषु नाम हरेर्गृणन् ॥९॥स पातालं भुवं स्वर्गं भ्रान्त्वालब्धशमाशयः ।लोकदुः खेनातिदुः खी पुनर्वैकुण्ठमागमत् ॥१०॥न रजो न तमश्चैव सत्त्वं ताभ्यां च मिश्रितम् ।यत्र प्रवर्तते नैव सत्त्वमेव प्रवर्तते ॥११॥न यत्र माया नाशश्च न चै रागादयो मलाः ।श्यामावदाताः सुरुचः शतपत्रविलोचनाः ॥१२॥सुरासुरार्चिता यत्र गणा विष्णोः सुपेशसः ।पिशङ्गवस्त्राभारणा मणियुङ्निष्कभूषिताः ॥१३॥चतुर्भुजाः कुण्डलिनो मौलिनो मालिनस्तथा ।भ्राजिष्णुभिर्विमानानां पङ्किभिर्ये महात्मनाम् ॥१४॥द्योतन्ते द्योतमानानां प्रमदानां च पङ्क्तिभिः ।श्रीर्यत्र नानाविभवैर्हरेः पादौ मुदार्चति ॥१५॥हरिं गायति दोलास्थं गीयमानालिभिः स्वयम् ।ददर्श श्रीहरिं तत्र श्रीपतिं सात्वतां पतिम् ॥१६॥जगत्पतिं यज्ञपतिं पार्षदैः परिषेवितम् ।सुनन्दनन्दप्रबलार्हणमुख्यैर्निरन्तरम् ॥१७॥भृत्यप्रसादसुमुखमायतारुणलोचनम् ।किरीटिनं कुण्डलिनं श्रिया वक्षसि लक्षितम् ॥१८॥पीतांशुकं चतुर्बाहुं प्रसन्नहसिताननम् ।अभ्यर्हणासनासीनं ताभिः शक्तिभिरावृतम् ॥१९॥प्रधानपुरुषाभ्यां च महता चाहमा तथा ।एकादशोन्द्रियैश्चैव पञ्चभूतैस्तथैव च ॥२०॥स्वरूपेरममाणं तमीश्वरं विनतासुतः ।तद्दर्शनाह्लादयुतस्वान्तो हृष्यत्तनूरुहः ॥२१॥लोचनाभ्यामश्रु मुञ्चन्प्रेममग्नो ननाम ह ।नमागतं नतं स्वीय वाहनं विष्णुरब्रवीत् ।भूमिः का लङ्घिता पक्षिंस्त्वयेयन्तमनेहसम् ॥२२॥गरुड उवाच ।तव प्रसादाद्वैकुण्ठ त्रैलोक्यं सचराचरम् ॥२३॥मया विलोकितं सर्वं जगत्स्थावरजङ्गमम् ।भूर्लोकात्सत्यपर्यन्तं पुरं याम्यं विना प्रभो ॥२४॥भूर्लोकः सर्वलोकानां प्रचुरः सर्वजन्तुषु ।मानुष्यं सर्वभूतानां भुक्तिमुक्त्यालयं शुभम् ॥२५॥अतः सुकृतिनां लोको न भूतो न भविष्यति ॥२६॥गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे ।स्वर्गापवर्गस्य फलार्जनाय भवन्ति भूयः पुरुषाः सुरत्वात् ॥२७॥प्रेतः कौक्षिप्यते कस्मात्पञ्चरत्नं मुखे कथम् ।अधस्ताच्चालिता दर्भाः पादौ याम्यां व्यवस्थितौ ॥२८॥किमर्थं पुत्रपौत्राश्च तस्य तिष्ठन्ति चाग्रतः ।किमर्थं दीयते दानं गोदानमपि केशव ॥२९॥बन्धुमित्राण्यमित्राश्च क्षमापयन्ति तत्कथम् ।तिलालोहं हिरण्यं च कर्पासं लवणं तथा ॥३०॥सप्तधान्यं क्षितिर्गावो दीयन्ते केनहेतुना ।कथं हि म्रियते जन्तुर्मृतो वै कुत्र गच्छति ॥३१॥अतिवाहशरीरं च कथं हि श्रयते तदा ।शवं स्कन्धे वहेत्पुत्रो अग्निदाता च पौत्रकः ॥३२॥आज्येनाभ्यञ्जनं कस्मात्कुत एकाहुतिक्रिया ।वसुन्धरा किमर्थं च कुतः स्त्रीशब्दकीर्तनम् ॥३३॥यमसूक्तं किमर्थं च उदीच्या दिशमाहरेत् ।पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥३४॥यवसर्षपदूर्वास्तु पाषाणे निम्बपत्रकम् ।वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥३५॥अन्नाद्यं गृहमागत्य न भोक्तव्यं जनैः सह ।नवकांश्चैव पिण्डांश्च किमर्थं ददते सुताः ॥३६॥किमर्थं चत्वरे दुग्धं यात्रे पक्वे च मृन्मये ।काष्ठत्रयं गणाबद्धं कृत्वा रात्रौ चतुष्पथे ॥३७॥निशायां दीयते दीपो यावदब्दं दिनेदिन ।दाहोदकं किमर्थं च किमर्थं च जनैः सह ॥३८॥भगवन्नाति वाहश्च नव पिण्डाः प्रदापयेत् ।कथं देयं पितृभ्यश्च वाहस्यावाहनं कथम् ॥३९॥इदञ्चेत्क्रियते देव कस्मात्पिण्डं प्रदापयेत् ।किं तत्प्रदीयते तस्य पिण्डदानाद्यनन्तरम् ॥४०॥अस्थिसञ्चयनं चैव घटस्फोटं तथैव च ।द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ॥४१॥दशमे किं मलस्नानं कार्यं सर्वजनैः सह ।कस्मात्तैलोद्वर्तनं च स्कन्धवाहगृहं नयेत् ॥४२॥तैलोद्वर्तनकं चापि दधुः स्थूलजलाशये ।दशमेऽहनि यत्पिण्डं तद्दद्या दामिषेण तु ॥४३॥पिणाञ्चैकादशे कस्माद्वृषोत्सर्गादिपूर्वकम् ।भाजनोपानहौ च्छत्रं वासांसि त्वङ्गुलीयकम् ॥४४॥त्रयोदशेऽह्नि देयं स्यात्पददानं किमर्थकम् ।श्राद्धानि षोडशैतानि अब्दं यावत्कुतो घटः ॥४५॥अन्नाद्येनोदकेनैव षष्ट्याधिकशतत्रयम् ।दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ॥४६॥प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो ॥४७॥छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः ।कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ।तेजो वदस्व मे नाथ वायुराकाशमेव च ॥४८॥कुतः कर्मेन्द्रियाणीह पञ्चबुद्धीन्द्रियाणि च ।वायवश्चैव पञ्चैते कथं गच्छन्ति चात्ययम् ॥४९॥लोभमोहादयः पञ्च शरीरे चैव तस्कराः ।तृष्णा कामो ह्यहङ्कारः कुतो यान्ति जनार्दना ॥५०॥पुण्यं वाप्यथवापुण्यं यत्किञ्चित्सुकृतं तथा ।नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥५१॥सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा ।प्रेतस्य मेलनं केषां किंविधं तत्र कारयेत् ॥५२॥मूर्छनात्पननाद्वापि विपत्तिर्यदि जायते ।ये दग्धा ये त्वदग्धाश्च पतिता ये नरा भुवि ॥५३॥यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ।पापिनो ये दुराचारा ये चान्ये गतबुद्धयः ॥५४॥आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ।कपिलायाः पिबेच्छूद्रो यः पठेदिदमक्षरम् ॥५५॥धारयेद्ब्रह्मसूत्रं वा का गतिस्तस्य माधव ।शूद्रस्य ब्राह्मणी भार्या संगृहीता यदा भवेत् ॥५६॥भीतोऽहं पापिनस्तस्मात्तन्मे वद जगत्प्रभो ।अन्यच्च शृणु विश्वात्मन्मया कौतुकिना रयात् ॥५७॥लोकांल्लोकयता लोके जगाहे विश्वमण्डलम् ।तत्राजनि जनान्दृष्ट्वा दुः खेष्वेव निमज्जतः ॥५८॥स्वान्ते मे दुर्धरा पीडा तत्पीडातो गरीयसी ।त्रिदिवे दितिजातेभ्यो भूमौ मृत्युरुगादिभिः ॥५९॥इष्टवस्तुवियो गैश्च पाताले मामकं भयम् ।एवं न निर्भयं स्थानमन्यदीश भवत्पदात् ॥६०॥असत्यं स्वप्नमायावत्कालेन कवलीकृतम् ।तत्रापि भारते वर्षे बहुदुः खस्य भागिनः ॥६१॥जना दृष्टा मया रागद्वेषमोहादिविप्लुताः ।केचिदन्धाः केकराक्षास्खलद्वाचस्तु पङ्गवः ॥६२॥खञ्जाः काणाश्च बधिरा मूकाः कुष्ठाश्च लोमशाः ।नानारोगपरीताश्च खपुष्पाच्चाभिमानिनः ॥६३॥तेषां दोषस्य वैचित्र्यं मृत्योर्गोचरतामपि ।दृष्ट्वा प्रसुमनाः प्राप्तः को मृत्युश्चित्रता कथम् ॥६४॥मृतिर्यस्य विधानेन मरणादप्यनन्तरम् ।विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात् ॥६५॥ऋषिभ्यस्तु मया पूर्वमिति सामान्यतः श्रुतम् ।ज्ञानाय तद्द्विशेषस्य पृच्छामीदमिति प्रभो ॥६६॥म्रियमाणस्य किं कृत्यं किं दानं वासवानुज ।वाहमृत्योरन्तराले को विधिर्दहनस्य च ॥६७॥सद्यो विलम्बतो वा किं देहमन्यं प्रपद्यते ।संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया ॥६८॥प्रायश्चित्तं दुर्मतेः किं पञ्चकादिमृतस्य च ।प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ॥६९॥सर्वमन्तेमया पृष्टं ब्रूहि लोकहिताय वै ॥७०॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे (प्रेतखण्डे) श्रीकृष्णगरुडसंवादे प्रश्रप्रपञ्चो नाम प्रथमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP