संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीविष्णुरुवाच ।
ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् ।
नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥१॥

यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः ।
अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥२॥

आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् ।
छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥३॥

यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥४॥

अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते ।
उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥५॥

आश्विने कर्तिके वापि माघे मृततिथावपि ।
चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥६॥

प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः ।
यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥७॥

कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति ।
ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥८॥

प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये ।
कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥९॥

सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश ।
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ।
स गच्छति महामार्गे महाकष्टविवर्जितः ॥१०॥

आसनं भाजनं भोज्यं दीयते यद्द्विजायते ।
सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥११॥

कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥१२॥

भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् ।
एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥१३॥

त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता ।
दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥१४॥

भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश ।
मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥१५॥

योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् ।
स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥१६॥

नानालोकान् विचरति महिषीञ्च ददाति यः ।
यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥१७॥

ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् ।
तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते ॥१८॥

गोभूतिलहिरण्यानि दानान्याहुः स्वशक्तितः ॥१९॥

मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम् ।
उदपात्रसहस्रस्य फलमाप्नोति मानवः ॥२०॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न भीषयन्ति तं याम्या वस्त्रदाने कृते सति ॥२१॥

मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः ।
घटान्नदानयोगेन सुखी भवति निश्चितम् ॥२२॥

शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता ।
हैमश्रीपतिना युक्ता देया विप्राय शर्मणे ।
तथा प्रेतत्वमुक्तोऽसौ मोदते सह दैवतैः ॥२३॥

एतत्ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम् ।
अधुना कथयिष्येऽहमन्यदेहप्रवेशनम् ॥२४॥

जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।
मृतिः कुर्यात्स्वधर्मेण यास्यतश्च परन्तप ॥२५॥

पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर ।
सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात् ॥२६॥

नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके ।
पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम् ॥२७॥

शरीरञ्च पतेत्पश्चान्निर्गते मरुतीश्वरे ।
वाताहतः पतत्येव निराधारो यथा द्रुमः ॥२८॥

पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।
तेजस्तेजसि लीयते समीरणः समीरणे ।
आकाशे च तथा काशः सर्वव्यापी च शङ्करे ॥२९॥

तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ।
एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ॥३०॥

कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ।
संहारकश्च कालोऽयं पुण्यपापसमन्वितः ॥३१॥

जगतश्च स्वरूपन्तु निर्मितं स्वेन कर्मणा ।
पुनर्देहान्तरं याति सुकृतैर्दुष्कृतैर्नरः ॥३२॥

पञ्चेन्द्रियसमायुक्तं सकलैर्विष्यैः सह ।
प्रविशेत्स नवं देहं गृहे दग्धे यथा गृही ॥३३॥

शरीरे ये समासीना सम्भवेत्सर्वधातवः ।
षाट्कौशिको ह्ययं कायो माता पित्रोश्च धातवः ॥३४॥

सम्भवेयुस्तथा तार्क्ष्य सर्वे वाताश्च देहिनाम् ।
मूत्रं पुरीषं तद्योगा ये चान्ये व्याधयस्तथा ॥३५॥

अस्थि शुक्रं तथा स्नायुः देहेन सह दह्यते ।
एष ते कथितस्तार्क्ष्य विनाशः सर्वदेहिनाम् ॥३६॥

कथयामि पुनस्तेषां शरीरञ्च यथा भवेत् ।
एकस्तम्भं स्नायुबद्धं स्थूणाद्वयसमुद्धृतम् ॥३७॥

इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ।
विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ॥३८॥

रागद्वेषसमाकीर्णं तृष्णादुर्गसुदुस्तरम् ।
लोभजालसमायुक्तं पुरं पुरुषसंज्ञितम् ॥३९॥

एतद्गुणसमायुक्तं शरीरं सर्वदेहिनाम् ।
तिष्ठन्ति देवताः सर्वा भुवनानि चतुर्दश ॥४०॥

आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ।
एवमेतन्मयाख्यातं शरीरं ते चतुर्विधम् ॥४१॥

चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ।
उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ॥४२॥

एतत्ते सर्वमाख्यातं यत्पृष्टोहं त्वयानघ ॥४३॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दानफ लान्यदेहप्रवेशादिनिरूपणं नामै कत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP