संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)| अध्यायः ३९ प्रेतकाण्डः (धर्मकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अ्ध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ प्रेतकाण्डः - अध्यायः ३९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ३९ Translation - भाषांतर तार्क्ष्य उवाच ।सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो ।विवेकाय हि चित्तस्य मानवानां हिताय च ॥१॥श्रीकृष्ण उवाच ।मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् ।चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥२॥उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत् ।दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥३॥देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् ।उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत् ॥४॥गुहावह्निप्रवेसे च देशान्तरमृतेषु च ।स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते ॥५॥आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः ।न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥६॥शिल्पिनः कारवो वैद्या दासीदासास्तथैव च ।राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥७॥सत्री च (व्रती) मन्त्रपूतश्च आहिताग्निर्नृपस्तथा ।एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः ॥८॥प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः ।दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः ॥९॥विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत् ॥१०॥सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम् ।सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः ॥११॥अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी ।तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥१२॥उदिते नियमे दाने आर्ते विप्रे निवेदयेत् ।तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति ॥१३॥मृन्मयेन तु पात्रेण तिलैर्मिश्रजलैः सह ।मृत्तिकया तथान्ते च नरः स्नात्वा शुचिर्भवेत् ॥१४॥दानं परिषदे दद्यात्सुवर्णं गोवृषं द्विजे ।क्षत्त्रियो द्विगुणं चैव वैश्यस्तु त्रिगुणं तथा ॥१५॥चतुर्गुणन्तु शूद्रेण दातव्यं ब्राह्मणे धनम् ।एव मनुक्रमेणैव चातुर्वर्ण्यं विशुध्यति ॥१६॥सप्ताष्टमान्तरै शीर्णे गृह्यसंस्कारवर्जिते ।अहस्तु सूतकं तस्य त्वब्दानां संख्यया स्मृतम् ॥१७॥ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च ।आहवेषु विपन्नानामेकरात्त्रमशौचकम् ॥१८॥न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि ।अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः ॥१९॥न तेषामशुभङ्किञ्चिद्विप्रेण सहकारिणा ।जलावगाहनात्तेषां सद्यः शुद्धिरुदाहृता ॥२०॥विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः ।तदाविप्रेणद्रष्टव्या इति वेदविदोविदुः ॥२१॥इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणं नामै कोनचत्वारिंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP